१४१ द्रोण-नियुक्तिः

अध्यायः 141

द्रुपदसमीपं गत्वा तेन सह स्वस्य सखित्वं कथयतो द्रोणस्य द्रुपदकृतं भर्त्सनम् ॥ 1 ॥ तेन कुपितस्य द्रोणस्य हास्तिन पुरगमनम् ॥ 2 ॥ क्रीडाकाले कूपपतितयोर्वीटाकन्दुकयोरुद्धरणे अशक्नुवतां कुमाराणां द्रोणकृतोऽधिक्षेपः ॥ 3 ॥ द्रोणेन वीटामुद्रिकयोः कूपादुद्धारः ॥ 4 ॥ द्रोणवृत्तान्तश्रवणेन भीष्मेण स्वगृहनिवासार्थं द्रोणं प्रति प्रार्थनम् ॥ 5 ॥ वैशम्पायन उवाच 001
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । 001a
अब्रवीत्पार्थिवं राजन्सखायं विद्धि मामिह ॥ 001c
इत्येवमुक्तः सख्या स प्रीतिर्पूर्वं जनेश्वरः । 002a
भारद्वाजेन पाञ्चाल्यो नामृष्यत वचोऽस्य तत् ॥ 002c
स क्रोधामर्षजिह्मभ्रूः कषायीकृतलोचनः । 003a
ऐश्वर्यमदसम्पन्नो द्रोणं राजाऽब्रवीदिदम् ॥ 003c
द्रुपद उवाच 004
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा । 004a
यन्मां व्रवीषि प्रसभं सखा तेऽहमिति द्विज ॥ 004c
न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् । 005a
सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥ 005c
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यतः । 006a
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ॥ 006c
न सख्यमजरं लोके हृदि तिष्ठति कस्यचित् । 007a
कामश्चैतन्नाशयति क्रोधो वैनं रहत्युत ॥ 007c
मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाधिकृत् । 008a
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ॥ 008c
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा । 009a
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते ॥ 009c
ययोरेव समं वित्तं ययोरेव समं श्रुतम् । 010a
तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः ॥ 010c
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । 011a
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥ 011c
वैशम्पायन उवाच 012
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् । 012a
मुहूर्तं चिन्तयित्वा तु मन्युनाऽभिपरिप्लुतः ॥ 012c
स विनिश्चित्य मनसा पाञ्चाल्यं प्रतिबुद्धिमान् । 013a
'शिष्यैः परिवृतः श्रीमान्पुत्रेण सहितस्तथा ॥' 013c
जगाम कुरुमुख्यानां नागरं नागसाह्वयम् । 014a
तां प्रतिज्ञां प्रतिज्ञाय यां कर्ता नचिरादिव ॥ 014c
स नागपुरमागम्य गौतमस्य निवेशने । 015a
भारद्वाजोऽवसत्तत्र प्रच्छन्नं द्विजसत्तमः ॥ 015c
ततोऽस्य तनुजः पार्थान्कृपस्यानन्तरं प्रभुः । 016a
अस्त्राणि शिक्षयामास नाबुध्यन्त च तं जनाः ॥ 016c
एवं स तत्र गूढात्मा कञ्चित्कालमुवास ह । 017a
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् ॥ 017c
क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा । 018a
'तेषां सङ्क्रीडमानानामुदपानेऽङ्गुलीयकम् ॥ 018c
पपात धर्मपुत्रस्य वीटा तत्रैव चापतत् । 019a
गर्ताम्बुना प्रतिच्छन्नं तारारूपमिवाम्बरे ॥ 019c
दृष्ट्वा चैते कुमाराश्च तं यत्नात्पर्यवारयन् । 020a
'ततस्ते यत्नमातिष्ठन्वीटामुद्धर्तुमादृताः । 020c
न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ॥ 020e
ततोऽन्योन्यमवैक्षन्त व्रीडयावनताननाः । 021a
तस्या योगमविदन्तो भृशं चोत्कण्ठिताभवन् ॥ 021c
तेऽपश्यन्ब्राह्मणं श्याममापन्नं पलितं कृशम् । 022a
कृत्यवन्तमदूरस्थमग्निहोत्रपुरस्कृतम् ॥ 022c
ते तं दृष्ट्वा महातमानमुपगम्य कुमारकाः । 023a
भग्नोत्साहक्रियात्मानो ब्राह्मणं पर्यवारयन् ॥ 023c
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कत्यवशस्तदा । 024a
प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ॥ 024c
अहो वो धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् । 025a
भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥ 025c
वीटां च मुद्रिकां चैव ह्यहमेतदपि द्वयम् । 026a
उद्धरेयमिषीकाभिर्भोजनं मे प्रदीयताम् ॥ 026c
ततोऽब्रवीत्तदा द्रोणं कुन्तीपुत्रो युधिष्ठिरः । 027a
कृपस्यानुमते ब्रह्मन्भिक्षामाप्नुहि शाश्वतीम् ॥ 027c
एवमुक्तः प्रत्युवाच प्रहस्य भरतानिदम् । 028a
द्रोण उवाच 028
एषा मुष्टिरिषीकाणां मयाऽस्त्रेणाभिमन्त्रिता ॥ 028c
अस्या वीर्यं निरीक्षध्वं यदन्येषु न विद्यते । 029a
वेत्स्यामीषिकया वीटां तामिषीकां तथाऽन्यया ॥ 029c
तामन्यया समायोगे वीटाया ग्रहणं मम । 030a
वैशम्पायन उवाच 030
ततो यथोक्तं द्रोणेन तत्सर्वं कृतमञ्जसा ॥ 030c
तदवेक्ष्य कुमारास्ते विस्मयोत्फुल्ललोचनाः । 031a
आश्चर्यमिदमत्यन्तमिति मत्वा वचोऽब्रुवन् ॥ 031c
मुद्रिकामपि विप्रर्षे शीघ्रमेतां समुद्धर | 032a
वैशम्पायन उवाच 032
ततः शरं समादाय धनुश्चापि महायशाः ॥ 032c
शरेण विद्ध्वा मुद्रां तामूर्ध्वमावाहयत्प्रभुः । 033a
स शरं समुपादाय कूपादङ्गुलिवेष्टनम् ॥ 033c
ददौ ततः कुमाराणां विस्मितानामविस्मितः । 034a
मुद्रिकामुद्धृतां दृष्ट्वा तमाहुस्ते कुमारकाः ॥ 034c
अभिवन्दामहे ब्रह्मन्नैतदन्येषु विद्यते । 035a
कोऽसि कस्यासि जानीमो वयं किं करवामहे ॥ 035c
वैशम्पायन उवाच 036
एवमुक्तस्ततो द्रोणः प्रत्युवाच कुमारकान् । 036a
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् ॥ 036c
स एव सुमहातेजाः साम्प्रतं प्रतिपत्स्यते । 037a
वैशम्पायन उवाच 037
तथेत्युक्त्वा च गत्वा च भीष्ममूचुः कुमारकाः ॥ 037c
ब्राह्मणस्य वचः कृत्स्नं तच्च कर्म तथाविधम् । 038a
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत ॥ 038c
युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च । 039a
अथैनमानीय तदा स्वयमेव सुसत्कृतम् ॥ 039c
परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः । 040a
हेतुमागमने तच्च द्रोणः सर्वं न्यवेदयत् ॥ 040c
द्रोण उवाच 041
महर्षेरग्निवेश्यस्य सकाशमहमच्युत । 041a
अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ॥ 041c
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः । 042a
अवसं सुचिरं तत्र गुरुशुश्रूषणे रतः ॥ 042c
पाञ्चाल्यो राजपुत्रश्च यज्ञसेनो महाबलः । 043a
इष्वस्त्रहेतोर्न्यवसत्तस्मिन्नेव गुरौ प्रभुः ॥ 043c
स मे तत्र सखा चासीदुपकारी प्रियश्च मे । 044a
तेनाहं सह सङ्गम्य वर्तयन्सुचिरं प्रभो ॥ 044c
बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च । 045a
स मे सखा सदा तत्र प्रियवादी प्रियङ्करः ॥ 045c
अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् । 046a
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः ॥ 046c
अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा । 047a
तद्भोज्यं भवता राज्यमर्धं सत्येन ते शपे ॥ 047c
मम भोगाश्च वित्तं च त्वदधीनं सुखानि च । 048a
एवमुक्त्वाऽथ वव्राज कृतास्त्रः पूजितो मया ॥ 048c
तच्च वाक्यमहं नित्यं मनसा धारयंस्तदा । 049a
सोऽहं पितृनियोगेन पुत्रलोभाद्यशस्विनीम् ॥ 049c
शारद्वतीं महाप्रज्ञामुपयेमे महाव्रताम् । 050a
अग्निहोत्रे च सत्रे च दमे च सततं रताम् ॥ 050c
लेभे च गौतमी पुत्रमश्वत्थामानमौरसम् । 051a
भीमविक्रमकर्माणमादित्यसमतेजसम् ॥ 051c
पुत्रेण तेन प्रीतोऽहं भरद्वाजो मया यथा । 052a
गोक्षीरं पिबतो दृष्ट्वा धनिनस्तत्र पुत्रकान् । 052c
अश्वत्थामारुदद्बालस्तन्मे सन्देहयद्दिशः ॥ 052e
न स्नातकोऽवसीदेत वर्तमानः स्वकर्मसु । 053a
इति सञ्चिन्त्य मनसा तं देशं बहुशो भ्रमन् ॥ 053c
विशुद्धमिच्छन्गाङ्गेय धर्मोपेतं प्रतिग्रहम् । 054a
अन्तादन्तं परिक्रम्य नाध्यगच्छं पयस्विनीम् ॥ 054c
यवपिष्टोदकेनैनं लोभयेयं कुमारकम् । 055a
पीत्वा पिष्टरसं बालः क्षीरं पीतं मयाऽपि च ॥ 055c
ननर्तोत्थाय कौरव्य हृष्टो बाल्याद्विमोहितः । 056a
तं दृष्ट्वा नृत्यमानं तु बालैः परिवृतं सुतम् ॥ 056c
हास्यतामुपसम्प्राप्तं कश्मलं तत्र मेऽभवत् । 057a
द्रोणं धिगस्त्वधनिनं यो धनं नाधिगच्छति ॥ 057c
पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया । 058a
नृत्यतिस्म मुदाविष्टः क्षीरं पीतं मयाऽप्युत ॥ 058c
इति सम्भाषतां वाचं श्रुत्वा मे बुद्धिरच्यवत् । 059a
आत्मानं चात्मना गर्हन्मनसेदं व्यचिन्तयम् ॥ 059c
अपि चाहं पुरा विप्रैर्वर्जितो गर्हितो वसे । 060a
परोपसेवां पापिष्ठां न च कुर्यां धनेप्सया ॥ 060c
इति मत्वा प्रियं पुत्रं भीष्मादाय ततो ह्यहम् । 061a
पूर्वस्नेहानुरागित्वात्सदारः सौमकिं गतः ॥ 061c
अभिषिक्तं तु श्रुत्वैव कृतार्थोऽस्मीति चिन्तयन् । 062a
प्रियं सखायं सुप्रीतो राज्यस्थं समुपागमम् ॥ 062c
संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् । 063a
ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो ॥ 063c
अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति । 064a
उपस्थितस्तु द्रुपदं सखिवच्चास्मि सङ्गतः ॥ 064c
स मां निराकारमिव प्रहसन्निदमब्रवीत् । 065a
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा ॥ 065c
यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज । 066a
सङ्गतानीह जीर्यन्ति कालेन परिजीर्यतः ॥ 066c
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् । 067a
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ॥ 067c
साम्याद्धि सख्यं भवति वैषम्यान्नोपपद्यते । 068a
न सख्यमजरं लोके विद्यते जातु कस्यचित् ॥ 068c
कामो वैनं विहरति क्रोधो वैनं रहत्युत । 069a
मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाधिकृत् ॥ 069c
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् । 070a
नह्यनाढ्यः सखाऽऽढ्यस्य नाविद्वान्विदुषः सखा ॥ 070c
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते । 071a
न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् ॥ 071c
सख्यं भवति मन्दात्मञ्छ्रिया हीनैर्धनच्युतैः । 072a
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ॥ 072c
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते । 073a
अहं त्वया न जानामि राज्यार्थे संविदं कृताम् ॥ 073c
एकरात्रं तु ते ब्रह्मन्कामं दास्यामि भोजनम् । 074a
एवमुक्तस्त्वहं तेन सदारः प्रस्थितस्तदा ॥ 074c
तां प्रतिज्ञां प्रतिज्ञाय यां कर्ताऽस्म्यचिरादिव । 075a
द्रुपदेनैवमुक्तोऽहं मन्युनाऽभिपरिप्लुतः ॥ 075c
अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः । 076a
ततोऽहं भवतः कामं संवर्धयितुमागतः ॥ 076c
इदं नागपुरं रम्यं ब्रूहि किं करवाणि ते । 077a
वैशम्पायन उवाच 077
एवमुक्तस्तदा भीष्मो भारद्वाजमभाषत ॥ 077c
भीष्म उवाच 078
अपज्यं क्रियतां चापं साध्वस्त्रं प्रतिपादय । 078a
भुङ्क्ष भोगान्भृशं प्रीतः पूज्यमानः कुरुक्षये ॥ 078c
कुरूणामस्ति यद्वित्तं राज्यं चेदं सराष्ट्रकम् । 079a
त्वमेव परमो राजा सर्वे वाक्यकरास्तव ॥ 079c
यच्च ते प्रार्थितं ब्रह्मन्कृतं तदिति चिन्त्यताम् । 080a
दिष्ट्या प्राप्तोऽसि विप्रर्षे महान्मेऽनुग्रहः कृतः ॥ 080c

1-141-4 अकृता असंस्कृता ॥ 1-141-7 रहति सख्याच्च्यावयति ॥ 1-141-13 प्रतिबुद्धिमान् प्रतीपबुद्धिमान् ॥ 1-141-18 वीटया कन्दुकेन ॥ 1-141-24 पैशल्यात् कौशल्यात् ॥ 1-141-27 गौतमीं च महातेजा भिक्षामश्नीत माचिरम् इति पाठान्तरम् ॥ 1-141-52 दिशः सन्देहयत् दिङ्मोहमनयत् । अडभाव आर्षः ॥ 1-141-53 स्नातको यः कश्चिदल्पगोधनः स्वधर्मलोपान्नावसीदेतातो बहुगोधनवतो ब्राह्मणस्य प्रतिग्रहमिच्छन् ॥ 1-141-54 अन्तादन्तं देशाद्देशम् ॥ 1-141-60 वसे उपवसे ॥ 1-141-78 अधिज्यं कुरुवीराणां इति पाठान्तरम् । कुरुक्षये कुरुगृहे ॥ एकचत्वारिंशदधिकशततमोऽध्यायः ॥ 141 ॥