१२७ व्युषिताश्व-कथा

अध्यायः 127

कुन्त्या पाण्डुं प्रति व्युषिताश्वकथाकथनम् ॥ 1 ॥ वैशम्पायन उवाच । 001
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत । 001a
कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥ 001c
कुन्त्युवाच । 002
न मामर्हसि धर्मज्ञ वक्तुमेवं कथञ्चन । 002a
धर्मपत्नीमभिरतां त्वयि राजीवलोचने ॥ 002c
त्वमेव तु महाबाहो मय्यपत्यानि भारत । 003a
वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ॥ 003c
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया । 004a
अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥ 004c
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् । 005a
त्वत्तः प्रति विशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ॥ 005c
इमां च तावद्धर्मात्मन्पौराणीं शृणु मे कथाम् । 006a
परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ॥ 006c
व्युषइताश्व इति ख्यातो बभूव किल पार्थिवः । 007a
पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ॥ 007c
तस्मिंश्च यजमाने वै धर्मात्मनि महाभुजे । 008a
उपागमंस्ततो देवाः सेन्द्रा देवर्षिभिः सह ॥ 008c
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । 009a
व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ॥ 009c
देवा ब्रह्मर्षयश्चैव चक्रुः कर्म स्वयं तदा । 010a
व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत ॥ 010c
सर्वभूतान्प्रति यथा तपनः शिशिरात्यये । 011a
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः ॥ 011c
प्राच्यानुदिच्यान्पाश्चात्यान्दाक्षिणात्यानकालयत् । 012a
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् ॥ 012c
बभूव स हि राजेन्द्रो दशनागबलान्वितः । 013a
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः ॥ 013c
व्युषिताश्वे यशोवृद्धे मनुष्येन्द्रे कुरूत्तम । 014a
व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् ॥ 014c
अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् । 015a
यजमानो महायज्ञैर्ब्राह्मणेभ्यो धनं ददौ ॥ 015c
अनन्तरत्नान्यादाय स जहार महाक्रतून् । 016a
सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ॥ 016c
आसीत्काक्षीवती चास्य भार्या परमसम्मता । 017a
भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥ 017c
कामयामासतुस्तौ च परस्परमिति श्रुतम् । 018a
स तस्यां कामसम्पन्नो यक्ष्मणा समपद्यत ॥ 018c
तेनाचिरेण कालेन जगामास्तमिवांशुमान् । 019a
तस्मिन्प्रेते मनुष्येन्द्रे भार्याऽस्य भृशदुःखिता ॥ 019c
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् । 020a
भद्रा परमदुःखार्ता तन्निबोध जनाधिप ॥ 020c
भद्रोवाच । 021
नारी परमधर्मज्ञ सर्वा भर्तृविनाकृता । 021a
पतिं विना जीवति या न सा जीवति दुःखिता ॥ 021c
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव ॥ 022a
त्वद्गतिं गन्तुमिच्छामि प्रसीदस्वनयस्वमाम् ॥ 022c
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे । 023a
प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ॥ 023c
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च । 024a
त्वामहं नरशार्दूल गच्छन्तमनिवर्तितुम् ॥ 024c
छायेवानुगता राजन्सततं वशवर्तिनी । 025a
भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ॥ 025c
अद्यप्रभृति मां राजन्कष्टा हृदयशोषणाः । 026a
आधयोऽभिभविष्यन्ति त्वामृते पुष्करेक्षण ॥ 026c
अभाग्यया मया नूनं वियुक्ताः सहचारिणः । 027a
तेन मे विप्रयोगोऽयमुपपन्नस्त्वया सह ॥ 027c
विप्रयुक्ता तु या पत्या मुहूर्तमपि जीवति । 028a
दुःखं जीवति सा पापा नरकस्थेव पार्थिव ॥ 028c
संयुक्ता विप्रयुक्ताश्च पूर्वदेहे कृता मया । 029a
तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् ॥ 029c
दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् । 030a
अद्यप्रभृत्यहं राजन्कुशसंस्तरशायिनी । 030c
भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ॥ 030e
दर्शयस्व नरव्याघ्र शाधि मामसुखान्विताम् । 031a
कृपणां चाथ करुणं विलपत्नीं नरेश्वर ॥ 031c
कन्त्युवाच । 032
एवं बहुविधं तस्यां विलपन्त्यां पुनःपुनः । 032a
तं शवं सम्परिष्वज्य वाक्किलाऽन्तर्हिताऽब्रवीत् ॥ 032c
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव । 033a
जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥ 033c
आत्मकीये वरारोहे शयनीये चतुर्दशीम् । 034a
अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥ 034c
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता । 035a
यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ॥ 035c
सा तेन सुषुवे देवी शवेन भरतर्षभ । 036a
त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ॥ 036c
तथा त्वमपि मय्येवं मनसा भरतर्षभ । 037a
शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वितः ॥ ॥ 037c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥

1-127-12 अकालयद्वशीकृतवान् ॥ 1-127-16 जहार आहृतवान् चकारेत्यर्थः । सोमसंस्थाः अग्निष्टोमात्यग्निष्टोमादयः सप्त ॥ 1-127-22 मृतं मरणं ॥ 1-127-32 शवं प्रेवशरीरं सम्परिष्वज्य विलपन्त्यामित्यन्वयः ॥ सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥