१२६ गान्धारी-गर्भः

अध्यायः 126

विदुरस्य विवाहः पुत्रोत्पत्तिश्च ॥ 1 ॥ व्यासस्य वरेण गान्धार्यां धृतराष्ट्राद्गर्भोत्पत्तिः ॥ 2 ॥ पाण्डोः पुत्रोत्पत्तौ चिन्ता ॥ 3 ॥ वैशम्पायन उवाच । 001
अथ पारसवीं कन्यां देवकस्य महीपतेः । 001a
रूपयौवनसम्पन्नां स सुश्रावापगासुतः ॥ 001c
ततस्तु वरयित्वा तामानीय भरतर्षभः । 002a
विवाहं कारयामास विदुरस्य महामतेः ॥ 002c
तस्यां चोत्पादयामास विदुरः कुरुनन्दन । 003a
पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः ॥ 003c
ततः पुत्रशतं जज्ञे गान्धार्या जनमेजय । 004a
धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥ 004c
पाण्डोः कृन्त्यां च माद्र्यां च पुत्राः पञ्च महारथाः । 005a
देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ॥ 005c
जनमेजय उवाच । 006
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम । 006a
कियता चैव कालेन तेषामायुश्च किं परम् ॥ 006c
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् । 007a
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ॥ 007c
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत । 008a
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना ॥ 008c
समुत्पन्ना दैवतेभ्यः पुत्राः पञ्च महारथाः । 009a
एतद्विद्वन्यथान्यायं विस्तरेण तपोधन ॥ 009c
कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु । 010a
वैशम्पायन उवाच । 010
ऋषिं बुभुक्षितं श्रान्तं द्वैपायनमुपस्थितम् ॥ 010c
तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ । 011a
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः ॥ 011c
ततः कालेन सा गर्भमगृह्णाज्ज्ञानचक्षुषः ॥ 012ac
गान्धार्यामाहिते गर्भे पाण्डुरम्बालिकासुतः । 013a
अगच्छत्परमं दुःखमपत्यार्थमरिन्दम ॥ 013c
गर्भिण्यामथ गान्धार्यां पाण्डुः परमदुःखितः । 014a
मृगाभिशापादात्मानं शोचन्नुपरतक्रियः ॥ 014c
स गत्वा तपसा सिद्धिं विश्वामित्रो यथा भुवि । 015a
देहान्यासे कृतमना इदं वचनमब्रवीत् ॥ 015c
पाण्डुरुवाच । 016
चतुर्भिर्ऋणवानित्थं जायते मनुजो भुवि । 016a
पितृदेवमनुष्याणामृषीणामथ भामिनि ॥ 016c
एतेभ्यस्तु यथाकालं यो न मुच्येत धर्मवित् । 017a
न तस्य लोकाः सन्तीति तता लोकविदो विदुः ॥ 017c
यज्ञेन देवान्प्रीणाति स्वाध्यायात्तपसा ऋषीन् । 018a
पुत्रैः श्राद्धैरपि पितॄनानृशंस्येन मानवान् ॥ 018c
ऋषिदेवमनुष्याणामृणान्मुक्तोऽस्मि धर्मतः । 019a
पितॄणां तु न मुक्तोऽस्मि तच्च तेभ्यो विशिष्यते ॥ 019c
देहनाशे भवेन्नाशः पितॄणामेष निश्चयः । 020a
इतरेषां त्रयाणां तु नाशे ह्यात्मा विनश्यति ॥ 020c
इह तस्मात्प्रजालाभे प्रयतन्ते द्विजोत्तमाः । 021a
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना ॥ 021c
तथैवास्मिन्मम क्षेत्रे कथं सृज्येत वै प्रजा । 022a
वैशम्पायन उवाच । 022
स समानीय कुन्तीं च माद्रीं च भरतर्षभः ॥ 022c
आचष्ट पुत्रलाभस्य व्युष्टिं सर्वक्रियाधिकाम् । 023a
उत्तमादवराः पुंसः काङ्क्षन्तो पुत्रमापदि ॥ 023c
अपत्यं धर्मफलदं श्रेष्ठादिच्छन्ति साधवः । 024a
अनुनीय तु ते सम्यङ्महाब्राह्मणसंसदि । 024c
ब्राह्मणं गुणवन्तं हि चिन्तयामास धर्मवित् ॥ 024e
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् । 025a
अपत्योत्पादने यत्नमापदि त्वं समर्थय ॥ 025c
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता । 026a
इति कुन्ति विदुर्धीराः शाश्वतं धर्मवादिनः ॥ 026c
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः । 027a
सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥ 027c
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते । 028a
अनपत्यः शुभाल्ँलोकान्नप्राप्स्यामीति चिन्तयन् ॥ 028c
'अनपत्यो हि मरणं कामये नैव जीवितम् ।' 029a
मृगाभिशापं जानासि विजने मम केवलम् । 029c
नृशंसकर्मणा कृत्स्नं यथा ह्युपहतं तथा ॥ 029e
इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने । 030a
षडेवाबन्धुदायादाः पुत्रास्ताञ्छृणु मे पृथे ॥ 030c
स्वयञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः । 031a
पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥ 031c
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः । 032a
सहोढो ज्ञातिरेताश्च हीनयोनिधृतश्च यः ॥ 032c
पूर्वपूर्वतमाभावं मत्त्वा लिप्सेत वै सुतम् । 033a
उत्तमाद्देवरात्पुंसः काङ्क्षन्ते पुत्रमापदि ॥ 033c
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति मानवाः । 034a
आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ॥ 034c
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् ॥ 035ac
सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि । 036a
शृणु कुन्ति कथामेतां शारदण्डायिनीं प्रति ॥ 036c
'या हि ते भगिनी साध्वी श्रुतसेना यशस्विनी । 037a
उवाह तां तु कैकेयः शारदाण्डायनिर्महान् ॥' 037c
सा वीरपत्नी गुरुणा नियुक्ता पुत्रजन्मनि । 038a
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे ॥ 038c
वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् । 039a
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् ॥ 039c
तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् । 040a
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् । 040c
मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ॥ ॥ 040e

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥

1-126-26 धर्मसंहिता धर्ममयी ॥ 1-126-30 धर्मदर्शने धर्मशास्त्रे उक्ता इति शेषः । बन्धुदायादारिक्थहराः । अबन्धुदायादास्तदन्ये ॥ 1-126-35 प्रहेष्यामि गतिवृद्धिकर्मणो हिनोते रूपम् । अद्येति क्षिप्रवचनसंयोगाल्लृट् । त्वां शरणं गतोऽस्मि वर्धयामि वेति चार्थः ॥ 1-126-36 विद्धि लभस्व । शारदण्डायनेर्भार्याम् ॥ 1-126-38 गुरुणा भर्त्रा । पुष्पेण आर्तवेन निमित्तेन स्नाता ॥ 1-126-40 यत यतस्व ॥ षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥