१२४ पाण्डु-तपस्या

अध्यायः 124

किन्दमशापात्खिन्नस्य पाण्डोः पत्नीभ्यां वने वासः ॥ 1 ॥ पाण्डोः शतशृङ्गे तपश्चरणम् ॥ 2 ॥ वैशम्पायन उवाच । 001
तं व्यतीतमुपक्रम्य राजा स्वमिव बान्धवम् । 001a
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥ 001c
पाण्डुरुवाच । 002
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् । 002a
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥ 002c
शश्वद्धर्मात्मना जातो बाल एव पिता मम । 003a
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥ 003c
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः । 004a
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥ 004c
तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा । 005a
त्यक्तस्य देवैरनयान्मृगयां परिधावतः ॥ 005c
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् । 006a
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥ 006c
अतीव तपसात्मानं योजयिष्याम्यसंशयम् । 007a
तस्मादेकाहमेकाहमेकैकस्मिन्वनस्पतौ ॥ 007c
चरन्भैक्षं मुनिर्मुण्डश्चरिष्याम्याश्रमानिमान् । 008a
पांसुना समवच्छन्नः शून्यागारकृतालयः ॥ 008c
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः । 009a
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः ॥ 009c
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः । 010a
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् ॥ 010c
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः । 011a
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् ॥ 011c
स्वासु प्रजास्विव सदा समः प्राणभृतः प्रति । 012a
एककालं चरन्भैक्षं कुलानि दश पञ्च च ॥ 012c
असम्भवे वा भैक्षस्य चरन्ननशनान्यपि । 013a
अल्पमल्पं च भुञ्जानः पूर्वालाभे न जातुचित् ॥ 013c
अन्यान्यपि चरल्ँलोभादलाभे सप्त पूरयन् । 014a
अलाभे यदि वा लाभे समदर्शी महातपाः ॥ 014c
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः । 015a
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ॥ 015c
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् । 016a
जीवितं मरणं चैव नाभिन्दन्न च द्विषन् ॥ 016c
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः । 017a
ताः सर्वाः समतिक्रम्य निमेषादिव्यवस्थितः ॥ 017c
तासु चाप्यनवस्थासु त्यक्तसर्वेन्द्रियक्रियः । 018a
सम्परित्यक्तधर्मार्थः सुनिर्णिक्तात्मकल्मषः ॥ 018c
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः । 019a
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥ 019c
एतया सततं वृत्त्या चरन्नेवम्प्रकारया । 020a
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ॥ 020c
नाहं सुकृपणे मार्गे स्ववीर्यक्षयशोचिते । 021a
स्वधर्मात्सततापेते चरेयं वीर्यवर्जितः ॥ 021c
सत्कृतोऽसत्कृतो वाऽपि योऽन्यां कृपणचक्षुषा । 022a
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥ 022c
वैशम्पायन उवाच । 023
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः । 023a
अवेक्षमाणः कुन्तीं च मान्द्रीं च समभाषत ॥ 023c
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः । 024a
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥ 024c
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः । 025a
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः । 025c
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्राजितो वने ॥ 025e
निशम्य वचनं भर्तुस्त्यागधर्मकृतात्मनः । 026a
तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥ 026c
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ । 027a
'आवाभ्यां सह वस्तुं वै धर्ममाश्रित्य चिन्त्यताम् ।' 027c
आवाभ्यां धर्मपत्नीभ्यां सह तप्तुं तपो महत् ॥ 027e
शरीरस्यापि मोक्षाय धर्मं प्राप्य महाफलम् । 028a
त्वमेव भविता भर्ता स्वर्गस्यापि न संशयः ॥ 028c
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे । 029a
त्यक्त्वा कामसुखे ह्यावां तप्स्यवो विपुलं तपः ॥ 029c
यदि चावां महाप्राज्ञ त्यक्ष्यसि त्वं विशांपते । 030a
अद्यैवावां प्रहास्यावो जीवितं नात्र संशयः ॥ 030c
पाण्डुरुवाच । 031
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् । 031a
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥ 031c
त्यक्त्वा ग्राम्यसुखाहारं तप्यमानो महत्तपः । 032a
वल्कली फलमूलाशी चरिष्यामि महावने ॥ 032c
अग्नौ जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् । 033a
कृशः परिमिताहारश्चीरचर्मजटाधरः ॥ 033c
शीतवातातपसहः क्षुत्पिपासानवेक्षकः । 034a
तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥ 034c
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् । 035a
पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥ 035c
वानप्रस्थजनस्यापि दर्शनं कुलवासिनः । 036a
नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् ॥ 036c
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् । 037a
काङ्क्षमाणोऽहमास्थास्ये देहस्यास्याऽऽसमापनात् ॥ 037c
वैशम्पायन उवाच । 038
इत्येवमुक्त्वा भार्ये ते राजा कौरवनन्दनः । 038a
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ॥ 038c
वासांसि च महार्हाणि स्त्रीणामाभरणानि च । 039a
'वाहनानि च मुख्यानि शस्त्राणि कवचानि च ॥ 039c
हेमभाण्डानि दिव्यानि पर्यङ्कास्तरणानि च । 040a
मणिमुक्ताप्रवालानि रत्नानि विविधानि च ॥' 040c
प्रदाय सर्वं विप्रेभ्यः पाण्डुर्भृत्यानभाषत । 041a
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्राजितो वने । 041c
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् ॥ 041e
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुनन्दनः । 042a
ततस्तस्यानुयातारस्ते चैव परिचारकाः ॥ 042c
श्रुत्वा भरतसिंहस्य विधिधाः करुणा गिरः । 043a
भममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥ 043c
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् । 044a
ययुर्नागपुरं तूर्णं सर्वमादाय तद्धनम् ॥ 044c
ते गत्वा नगरं राज्ञो यथावृत्तं महात्मनः । 045a
कथयाञ्चक्रिरे राज्ञस्तद्धनं विविधं ददुः ॥ 045c
श्रुत्वा तेभ्यस्ततः सर्वं यथावृत्तं महावने । 046a
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥ 046c
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् । 047a
भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन् ॥ 047c
राजपुत्रस्तु कौरव्य पाण्डुर्मूलफलाशनः । 048a
जगाम सह पत्नीभ्यां ततो नागशतं गिरिम् ॥ 048c
स चैत्ररथमासाद्य कालकूटमतीत्य च । 049a
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥ 049c
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः । 050a
उवास स महाराज समेषु विषमेषु च ॥ 050c
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च । 051a
शतशृङ्गे महाराज तापसः समतप्यत ॥ ॥ 051c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥

1-124-1 व्यतीतं मारितम् ॥ 1-124-5 देवैस्त्यक्तस्य अपुत्रतया स्वर्गमनानर्हत्वात् ॥ 1-124-6 मोक्षं मोक्षमार्गं व्यवस्यामि निश्चिनोमि श्रेयस्करत्वेन । तत्र हि पुत्राद्यनपेक्षा दृष्टा । इष्टमेवैतज्जातमित्याह बन्धो हीति । बन्धः पुत्रैषणादिः । सुवृत्तिं ब्रह्मचर्याख्यां वृत्तिम् । पितुर्व्यासस्य ॥ 1-124-10 निराशीर्निर्नमस्कारः । आशिषं नमस्कारं वा नेच्छामीत्यर्थः । निर्द्वन्द्वः सुखदुःखादिहीनः । निष्परिग्रहः कन्थापादुकादिहीनः ॥ 1-124-11 चतुर्विधं जरायुजादिकम् ॥ 1-124-12 कुलानि गृहाणि ॥ 1-124-15 वास्या वास्येन काष्ठतक्षणेन ॥ 1-124-17 अभ्युदयक्रियाः इष्टसाधनक्रियाः । निमेषादिव्यवस्थितः जीवनसाधनकर्मसु व्यवस्थितः ॥ 1-124-18 अनवस्थासु प्रवाहरूपासु तासु जीवनसाधनक्रियासु ॥ 1-124-20 संस्थापयिष्यामि नाशयिष्यामि । निर्भयं मार्गं संसारभयरहितम् ॥ 1-124-25 प्रव्राजितः सन्न्यासं प्राप्तः ॥ 1-124-26 त्यागधर्मः सन्न्यासः ॥ 1-124-35 विमृशन् हिंसादिदोषम् ॥ 1-124-38 निष्कं ग्रैवेयकम् ॥ चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥