१२० कुन्ती-चरितम्

अध्यायः 120

पृथाया बाल्यचरित्रकथनम् ॥ 1 ॥ तस्या दुर्वाससो मन्त्रप्राप्तिः ॥ 2 ॥ मन्त्रप्रभावजिज्ञासयाऽऽहूतात्सूर्यात्कुन्त्यां कर्णस्योत्पत्तिः ॥ 3 ॥ लोकभयात्कुन्त्या यमुनायां विसृष्टस्य राधाभर्त्रा स्वीकारो वसुषेणेति नामकरणं च ॥ 4 ॥ सङ्ग्रहेण कर्णचरित्रकथनम् ॥ 5 ॥ वैशम्पायन उवाच । 001
शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् । 001a
तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि ॥ 001c
पितृष्वस्रीयाय स तामनपत्याय भारत । 002a
अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यं स सत्यवाक् ॥ 002c
अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षिणे । 003a
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ॥ 003c
नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने । 004a
उग्रं पर्यचरत्तत्र ब्राह्मणं संशितब्रतम् ॥ 004c
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । 005a
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ॥ 005c
'दध्याज्यकादिभिर्नित्यं व्यञ्जनैः प्रत्यहं शुभा । 006a
सहस्रसङ्ख्यैर्योगीन्द्रमुपचारदनुत्तमा ॥ 006c
दुर्वासा वत्सरस्यान्ते ददौ मन्त्रमनुत्तमम्' । 007a
यशस्विन्यै पृथायै तदापद्धर्मान्ववेक्षया । 007c
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ॥ 007e
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । 008a
तस्य तस्य प्रभावेण तव पुत्रो भविष्यति ॥ 008c
तथोक्ता सा तु विप्रेण कुन्ती कौतूहलान्विता । 009a
कन्या सती देवमर्कमाजुहाव यशस्विनी ॥ 009c
ततो घनान्तरं कृत्वा स्वमार्गं तपनस्तदा । 010a
उपतस्थे स तां कन्यां पृथां पृथुललोचनाम् ॥ 010c
सा ददर्श तमायान्तं भास्करं लोकभावनम् । 011a
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ॥ 011c
'साब्रवीद्भगवन्कस्त्वमाविर्भूतो ममाग्रतः । 012a
आदित्य उवाच । 012
आहूतोपस्थितं भद्रे ऋषिमन्त्रेण चोदितम् । 012a
विद्धि मां पुत्रलाभाय देवमर्कं शुचिस्मिते ॥ 012c
पुत्रस्ते निर्मितः सुभ्रु शृणु महादृक्छुभानने । 013a
आदित्ये कुण्डले बिभ्रत्कवचं चैव मामकम् ॥ 013c
शस्त्रास्त्राणामभेद्यश्च भविष्यति शुचिस्मिते । 014a
नास्य किञ्चिददेयं च ब्राह्मणेभ्यो भविष्यति ॥ 014c
चोद्यमानो मया चापि न क्षमं चिन्तयिष्यति । 015a
दास्यत्येव हि विप्रेभ्यो मानी चैव भविष्यति ॥ 015c
वैशम्पायन उवाच । 016
एवमुक्ता ततः कुन्ती गोपतिं प्रत्युवाच ह । 016a
कन्या पितृवशा चाहं पुरुषार्थो न चैव मे ॥' 016c
कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्यां च शत्रुहन् । 017a
तद्विजिज्ञासयाऽऽह्वानं कृतवत्यस्मि ते विभो ॥ 017c
एतस्मिन्नपराधे त्वां शिरसाऽहं प्रसादये । 018a
योषितो हि सदा रक्ष्यास्त्वपराधेऽपि नित्यशः ॥ 018c
सूर्य उवाच । 019
वेदाहं सर्वमेवैतद्यद्दुर्वासा वरं ददौ । 019a
सन्त्यज्य भयमेवेह क्रियतां सङ्गमो मम ॥ 019c
अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे । 020a
वृथाऽऽह्वानेऽपि ते भीरु दोषः स्यान्नात्र संशयः ॥ 020c
'यद्येवं मन्यसे भीरु किमाह्वयसि भास्करम् । 021a
यदि मामवजानासि ऋषिः स न भविष्यति ॥ 021c
मन्त्रदानेन यस्मात्त्वमवलेपेन दर्पिता । 022a
कुलं च तेऽद्य धक्ष्यामि क्रोधदीप्तेन चक्षुषा' ॥ 022c
वैशम्पायन उवाच । 023
एवमुक्ता बहुविधं सान्त्वपूर्वं विवस्वता । 023a
सा तु नैच्छद्वरारोहा कन्याहमिति भारत ॥ 023c
बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी । 024a
तामर्कः पुनरेवेदब्रवीद्भरतर्षभ ॥ 024c
मत्प्रसादान्न ते राज्ञि भविता दोष इत्युत ॥ 025ac
'कुन्त्युवाच । 026
प्रसीद भगवन्मह्यमवलेपो हि नास्ति मे । 026a
त्वयैव परिहार्यं स्यात्कन्याभावस्य दूषणम् ॥ 026c
आदित्य उवाच । 027
व्यपयातु भयं तेऽद्य कुमारं प्रसमीक्षसे । 027a
मया त्वं चाप्यनुज्ञाता पुनः कन्या भविष्यसि ॥ 027c
वैशम्पायन उवाच । 028
एवमुक्ता ततः कुन्ती सम्प्रहृष्टतनूरुहा । 028a
सङ्गताऽभूत्तदा सुभ्रूरादित्येन महात्मना ॥ 028c
प्रकाशकर्मा तपनः कन्यागर्भं ददौ पुनः ।' 029a
तत्र वीरः समभवत्सर्वशस्त्रभृतां वरः ॥ 029c
आमुक्तकवचः श्रीमान्देवगर्भः श्रियान्वितः । 030a
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ॥ 030c
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः । 031a
प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः ॥ 031c
दत्त्वा च तपतां श्रेष्ठो दिवमाचक्रमे ततः । 032a
दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा ॥ 032c
एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत् । 033a
गूहमानापचारं सा बन्धुपक्षभयात्तदा ॥ 033c
मञ्जूषां रत्नसम्पूर्णां कृत्वा बालसमाश्रिताम् । 034a
उत्ससर्ज कुमारं तं जले कुन्ती महाबलम् ॥ 034c
तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः । 035a
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ॥ 035c
नामधेयं च चक्राते तस्य बालस्य तावुभौ । 036a
वसुना सह जातोऽयं वसुषेणो भवत्विति ॥ 036c
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् । 037a
आपृष्ठतापादादित्यमुपातिष्ठत वीर्यवान् ॥ 037c
तस्मिन्काले तु जपतस्तस्य वीरस्य धीमतः । 038a
नादेयं ब्राह्मणेष्वासीत्किञ्चिद्वसु महीतले ॥ 038c
'ततः काले तु कस्मिंश्चित्स्वप्नान्ते कर्णमब्रवीत् । 039a
आदित्यो ब्राह्मणो भूत्वा शृणु वीर वचो मम ॥ 039c
प्रभातायां रजन्यां त्वामागमिष्यति वासवः । 040a
न तस्य भिक्षा दातव्या विप्ररूपी भविष्यति ॥ 040c
निश्चयोऽस्यापहर्तुं ते कवचं कुण्डले तथा । 041a
अतस्त्वां बोधयाम्येष स्मर्तासि वचनं मम ॥ 041c
कर्ण उवाच । 042
शक्रो मां विप्ररूपेण यदि वै याचते द्विज । 042a
कथं तस्मै न दास्यामि यथा चास्म्यवबोधितः ॥ 042c
विप्राः पूज्यास्तु देवानां सततं प्रियमिच्छताम् । 043a
तं देवदेवं जानन्वै न शक्तोऽस्म्यवमन्त्रणे ॥ 043c
सूर्य उवाच । 044
यद्येवं शृणु मे वीर वरं ते सोऽपि दास्यति । 044a
शक्तिं त्वमपि याचेथाः सर्वशत्रुविबाधिनीम् ॥ 044c
वैशम्पायन उवाच । 045
एवमुक्त्वा द्विजः स्वप्ने तत्रैवान्तरधीयत । 045a
कर्णः प्रबुद्धस्तं स्वप्नं चिन्तयानोऽभवत्तदा ॥ 045c
तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थं भूतभावनः । 046a
कुण्डले प्रार्थयामास कवचं च महाद्युतिः ॥ 046c
उत्कृत्याविमनाः स्वाङ्गात्कवचं रुधिरस्रवम् । 047a
कर्णौ पार्श्वे च द्वे छित्त्वा प्रायच्छत्स कृताञ्जलिः ॥ 047c
प्रतिगृह्य तु देवेशस्तुष्टस्तेनास्य कर्मणा । 048a
अहो साहसमित्याह मनसा वासवो हसन् ॥ 048c
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । 049a
न तं पश्यामि यो ह्येतत्कर्म कर्ता भविष्यति ॥ 049c
प्रीतोऽस्मि कर्मणा तेन वरं ब्रूहि यदिच्छसि । 050a
कर्ण उवाच । 050
इच्छामि भगवद्दत्तां शक्तिं शत्रुनिबर्हणीम् ॥ 050c
वैशम्पायन उवाच । 051
शक्तिं तस्मै ददौ शक्रो विस्मयाद्वाक्यमब्रवीत् । 051a
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ॥ 051c
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति । 052a
हत्वैकं समरे शत्रुं ततो मामागमिष्यति । 052c
इत्युक्त्वान्तर्दधे शक्रो वरं दत्त्वा तु तस्य वै ॥ 052e
प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ । 053a
कर्णो वैकर्तनश्चैव कर्मणा तेन सोऽभवत् ॥ ॥ 053c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥

1-120-2 अग्र्यं प्रथमम् । अग्रे जन्मतः पूर्वं प्रतिज्ञाय मया प्रथममपत्यं तुभ्यं देयमिति प्रतिश्रुत्य ॥ 1-120-7 अभिचारो वश्याकर्षणादिदृष्टफलं तद्युक्तम् ॥ 1-120-36 वसुना कवचकुण्डलादिद्रव्येण बद्ध इति वसुषेणः ॥ 1-120-37 आपृष्ठतापात् मध्याह्नात्परत इत्यर्थः ॥ 1-120-53 सहजकवचकर्तनात् कर्णः विशेषतः कर्तनेन वैकर्तनः । स्वार्थे तद्धितः ॥ विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥