अध्यायः 110
सङ्ग्रहेण अम्बाचरित्रकथनम् ॥ 1 ॥
अम्बोवाच । 001
अन्यपूर्वेति मां साल्वो नाभिनन्दति बालिशः । 001a
साहं धर्माच्च कामाच्च विहीना शोकधारिणी ॥ 001c
अपतिः क्षत्रियान्सर्वानाक्रन्दामि समन्ततः । 002a
इयं वः क्षत्रिया माला या भीष्मं निहनिष्यति ॥ 002c
अहं च भार्या तस्य स्यां यो भीष्मं घातयिष्यति । 003a
तस्याश्चङ्क्रम्यमाणायाः समाः पञ्च गताः पराः ॥ 003c
नाभवच्छरणं कश्चित्क्षत्रियो भीष्मजाद्भयात् । 004a
अगच्छत्सोमकं साऽम्बा पाञ्चालेषु यशस्विनम् ॥ 004c
सत्यसन्धं महेष्वासं सत्यधर्मपरायणम् । 005a
सा सभाद्वारमागम्य पाञ्चालैरभिरक्षितम् ॥ 005c
पाञ्चालराजमाक्रन्दत्प्रगृह्य सुभुजा भुजौ । 006a
भीष्मेण हन्यमानां मां मज्जन्तीमिव च ह्रदे ॥ 006c
यज्ञसेनाभिधावेह पाणिमालम्ब्य चोद्धर । 007a
तेन मे सर्वधर्माश्च रतिभोगाश्च केवलाः ॥ 007c
उभौ च लोकौ कीर्तिश्च समूलौ सफलौ हृतौ । 008a
क्रोशन्त्येवं न विन्दामि राजन्यं शरणं क्वचित् ॥ 008c
किं नु निःक्षत्रियो लोको यत्रानाथोऽवसीदति । 009a
समागम्य तु राजानो मयोक्ता राजसत्तमाः ॥ 009c
शृण्वन्तु सर्वे राजानो मयोक्तं राजसत्तमाः । 010a
इक्ष्वाकूणां तु ये वृद्धाः पाञ्चालानां च ये वराः ॥ 010c
त्वत्प्रसादाद्विवाहेऽस्मिन्मा धर्मो मा पराजयेत् । 011a
प्रसीद यज्ञसेनेह गतिर्मे भव सोमक ॥ 011c
यज्ञसेन उवाच । 012
जानामि त्वां बोधयामि राजपुत्रि विशेषतः । 012a
यथाशक्ति यथाधर्मं बलं सन्धारयाम्यहम् ॥ 012c
अन्यस्मात्पार्थिवाद्यत्ते भयं स्यात्पार्थिवात्मजे । 013a
तस्यापनयने हेतुं संविधातुमहं प्रभुः ॥ 013c
नहि शान्तनवस्याहं महास्त्रस्य प्रहारिणः । 014a
ईश्वरः क्षत्रियाणां हि बलं धर्मोऽनुवर्तते ॥ 014c
सा साधु व्रज कल्याणि न मां भीष्मो दहेद्बलात् । 015a
न प्रत्यगृह्णंस्ते सर्वे किमित्येव न वेद्म्यहम् ॥ 015c
न हि भीष्मादहं धर्मं शक्तो दातुं कथञ्चन । 016a
वैशम्पायन उवाच । 016
इत्युक्ता स्रजमासज्य द्वारि राज्ञो व्यपाद्रवत् ॥ 016c
व्युदस्तां सर्वलोकेषु तपसा संशितव्रताम् । 017a
तामन्वगच्छद्द्रुपदः सान्त्वं जल्पन्पुनः पुनः ॥ 017c
स्रजं गृहाण कल्याणि न नो वैरं प्रसञ्जय ॥ 018ac
अम्बोवाच । 019a
एवमेव त्वया कार्यमिति स्म प्रतिकाङ्क्षते । 019a
न तु तस्यान्यथा भावो दैवमेतदमानुषम् ॥ 019c
यश्चैनां स्रजमादाय स्वयं वै प्रतिमोक्षते । 020a
स भीष्मं समरे हन्ता मम धर्मप्रणाशनम् ॥ 020c
वैशम्पायन उवाच । 021
तां स्रजं द्रुपदो राजा कञ्चित्कालं ररक्ष सः । 021a
ततो विस्रम्भमास्थाय तूष्णीमेतामुपैक्षत ॥ 021c
तां शिखण्डिन्यबध्नात्तु बाला पितुरवज्ञया । 022a
तां पिता त्वत्यजच्छीघ्रं त्रस्तो भीष्मस्य किल्बिषात् ॥ 022c
इषीकं ब्राह्मणं भीता साभ्यगच्छत्तपस्विनम् । 023a
गङ्गाद्वारि तपस्यन्तं तुष्टिहेतोस्तपस्विनी ॥ 023c
उपचाराभितुष्टस्तामब्रवीदृषिसत्तमः । 024a
गङ्गाद्वारे विभजनं भविता नचिरादिव ॥ 024c
तत्र गन्धर्वराजानं तुम्बुरुं प्रियदर्शनम् । 025a
आराधयितुमीहस्व सम्यक्परिचरस्व तम् ॥ 025c
अहमप्यत्र साचिव्यं कर्तास्मि तव शोभने । 026a
तं तदाचर भद्रं ते स ते श्रेयो विधास्यति ॥ 026c
ततो विभजनं तत्र गन्धर्वाणामवर्तत । 027a
तत्र द्वाववशिष्येतां गन्धर्वावमितौ जसौ ॥ 027c
तयोरेकः समीक्ष्यैनां स्त्रीबुभूषुरुवाच ह । 028a
इदं गृह्णीष्व पुंलिङ्गं वृणे स्त्रीलिङ्गमेव ते ॥ 028c
नियमं चक्रतुस्तत्र स्त्री पुमांश्चैव तावुभौ । 029a
ततः पुमान्समभवच्छिखण्डी परवीरहा ॥ 029c
स्त्री भूत्वा ह्यपचक्राम स गन्धर्वो मुदान्वितः । 030a
लब्ध्वा तु महतीं प्रीतिं याज्ञसेनिर्महायशाः ॥ 030c
ततो बुद्बुदकं गत्वा पुनरस्त्राणि सोऽकरोत् । 031a
तत्र चास्त्राणि दिव्यानि कृत्वा स सुमहाद्युतिः ॥ 031c
स्वदेशमभिसम्पेदे पाञ्चालं कुरुनन्दन । 032a
सोऽभिवाद्य पितुः पादौ महेष्वासः कृताञ्जलिः ॥ 032c
उवाच भवता भीष्मान्न भेतव्यं कथञ्चन ॥ ॥ 033ac
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि दशाधिकशततमोऽध्यायः ॥ 110 ॥
1-110-10 पाञ्चालानां च ये वराः ते राजानः मयोक्ता इति पूर्वेण सम्बन्धः ॥ 1-110-14 ईश्वरो नहि ॥ 1-110-16 भीष्मात् भीष्ममपेक्ष्य ॥ 1-110-24 विभजनं उत्सवविशेषः ॥ दशाधिकशततमोऽध्यायः ॥ 110 ॥