अध्यायः 107
शान्तनुभीष्मयोश्चरितम् ॥ 1 ॥ शान्तनोः पुनर्गङ्गादर्शनं तया सह संवादश्च ॥ 2 ॥ गङ्गादत्तेन भीष्मेण सह शान्तनोः स्वपुरप्रवेशः ॥ 3 ॥ भीष्मस्य यौवराज्येभिषेकः ॥ 4 ॥ शान्तनुभावं ज्ञात्वा दाशाशयानुसारेण प्रतिज्ञापूर्वकं भीष्मेण दाशकन्यानयनम् ॥ 5 ॥ तुष्टेन शान्तनुना भीष्माय स्वच्छन्दमरणवरदानम् ॥ 6 ॥
वैशम्पायन उवाच । 001
स राजा शान्तनुर्धीमान्देवराजर्षिसत्कृतः । 001a
धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ॥ 001c
शान्तनोः कीर्तयिष्यामि सर्वानेव गुणानहम् । 002a
दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् । 002c
नित्यान्यासन्महासत्वे शान्तनौ पुरुषर्षभे ॥ 002e
एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः । 003a
आसीद्भरतवंशस्य गोप्ता सर्वजनस्य च ॥ 003c
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः । 004a
अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः ॥ 004c
तस्य कीर्तिमतो वृत्तमवेक्ष्य सततं नराः । 005a
धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ॥ 005c
एवमासीन्महासत्वः शान्तनुर्भरतर्षभ । 006a
न चास्य सदृशः कश्चिद्धर्मतः पार्थिवोऽभवत् ॥ 006c
वर्तमानं हि धर्मेषु सर्वधर्मभृतां वरम् । 007a
तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ॥ 007c
वीतशोकभयाबाधाः सुखस्वप्ननिबोधनाः । 008a
पतिं भारतगोप्तारं समपद्यन्त भूमिपाः ॥ 008c
तेन कीर्तिमता शिष्टाः शक्रप्रतिमतेजसा । 009a
यज्ञदानक्रियाशीलाः समपद्यन्त भूमिपाः ॥ 009c
शान्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा । 010a
नियमात्सर्ववर्णानां धर्मोत्तरमवर्तत ॥ 010c
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः । 011a
ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ॥ 011c
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने । 012a
वसन्सागरपर्यन्तामन्वशासद्वसुन्धराम् ॥ 012c
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः । 013a
दानधर्मतपोयोगाच्छ्रिया परमया युतः ॥ 013c
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः । 014a
तेजसा सूर्यकल्पोऽभूद्वायुवेगसमो जवे । 014c
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥ 014e
वधः पशुवराहाणां तथैव मृगपक्षिणाम् । 015a
शान्तनौ पृथिवीपाले नावर्तत तथा नृप ॥ 015c
ब्रह्मधर्मोत्तरे राज्ये शान्तनुर्विनयात्मवान् । 016a
समं शशास भूतानि कामरागविवर्जितः ॥ 016c
'चकोरनेत्रस्ताम्रास्यः सिंहर्षभगतिर्युवा । 017a
गुणैरनुपमैर्युक्तः समस्तैराभिगामिकैः । 017c
गम्भीरः सत्वसम्पन्नः पूर्णचन्द्रनिभाननः ॥' 017e
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः । 018a
न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः ॥ 018c
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् । 019a
स एव राजा सर्वेषां भूतानामभवत्पिता ॥ 019c
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति । 020a
श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ॥ 020c
'यज्ञार्थं पशवः सृष्टाः सन्तानार्थं च मैथुनम् ।' 021a
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथाऽपराः । 021c
रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ॥ 021e
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः । 022a
गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ॥ 022c
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च । 023a
महाबलो महासत्वो महावीर्यो महारथः ॥ 023c
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् । 024a
भागीरथीमल्पजलां शान्तनुर्दृष्टवान्नृपः ॥ 024c
तां दृष्ट्वा चिन्तयामास शान्तनुः पुरुषर्षभः । 025a
स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥ 025c
ततो निमित्तमन्विच्छन्ददर्श स महामनाः । 026a
कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् ॥ 026c
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम् । 027a
कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥ 027c
तां शरैराचितां दृष्ट्वा नदीं गङ्गां तदन्तिके । 028a
अभवद्विस्मितो राजा दृष्ट्वा कर्मातिमानुषम् ॥ 028c
जातमात्रं पुरा दृष्टं तं पुत्रं शान्तनुस्तदा । 029a
नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ॥ 029c
स तु तं पितरं दृष्ट्वा मोहयामास मायया । 030a
संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ॥ 030c
तदद्बुतं ततो दृष्ट्वा तत्र राजा स शान्तनुः । 031a
सङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ॥ 031c
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् । 032a
गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् ॥ 032c
अलङ्कृतामाभरणैर्विरजोम्बरधारिणीम् । 033a
दृष्टपूर्वामपि स तां नाभ्यजानात्स शान्तनुः ॥ 033c
गङ्गोवाच । 034
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यविन्दथाः । 034a
स चायं पुरुषव्याघ्र सर्वास्त्रविदनुत्तमः ॥ 034c
गृहाणेमं महाराज मया संवर्धितं सुतम् । 035a
आदाय पुरुषव्याघ्र नयस्वैनं गृहं विभो ॥ 035c
वेदानधिजगे साङ्गान्वसिष्ठादेष वीर्यवान् । 036a
कृतास्त्रः परमेष्वासो देवराजसमो युधि ॥ 036c
सुराणां सम्मतो नित्यमसुराणां च भारत । 037a
उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः ॥ 037c
तथैवाङ्गिरसः पुत्रः सुरसुरनमस्कृतः । 038a
यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ॥ 038c
तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि । 039a
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् ॥ 039c
यदस्त्रं वेद रामश्च तदेतस्मिन्प्रतिष्ठितम् । 040a
महेष्वासमिमं राजन्राजधर्मार्थकोविदम् ॥ 040c
मया दत्तं निजं पुत्रं वीरं वीर गृहं नय । 041a
वैशम्पायन उवाच । 041
'इत्युक्त्वा सा महाभागा तत्रैवान्तरधीयत ।' 041c
तयैवं समनुज्ञातः पुत्रमादाय शान्तनुः ॥ 041e
भ्राजमानं यथाऽदित्यमाययौ स्वपुरं प्रति । 042a
पौरवस्तु पुरीं गत्वा पुरन्दरपुरोपमाम् ॥ 042c
सर्वकामसमृद्धार्थं मेने सोत्मानमात्मना । 043a
पौरवेषु ततः पुत्रं राज्यार्थमभयप्रदम् ॥ 043c
गुणवन्तं महात्मानं यौवराज्येऽभ्यषेचयत् । 044a
पौरवाञ्शान्तनोः पुत्रः पितरं च महायशाः ॥ 044c
राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ । 045a
स तथा सह पुत्रेण रममाणो महीपतिः ॥ 045c
वर्तयामास वर्षाणि चत्वार्यमितविक्रमः । 046a
स कदाचिद्वनं यातो यमुनामभितो नदीम् ॥ 046c
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् । 047a
तस्य प्रभवमन्विच्छन्विचचार समन्ततः ॥ 047c
स ददर्श तदा कन्यां दाशानां देवरूपिणीम् । 048a
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् ॥ 048c
कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि । 049a
साऽब्रवीद्दाशकन्याऽस्मि धर्मार्थं वाहये तरिम् ॥ 049c
पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः । 050a
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् ॥ 050c
समीक्ष्य राजा दाशेयीं कामयामास शान्तनुः । 051a
स गत्वा पितरं तस्या वरयामास तां तदा ॥ 051c
पर्यपृच्छत्ततस्तस्याः पितरं सोत्मकारणात् । 052a
स च तं प्रत्युवाचेदं दाशराजो महीपतिम् ॥ 052c
जातमात्रैव मे देया वराय वरवर्णिनी । 053a
हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ॥ 053c
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ । 054a
सत्यवागसि सत्येन समयं कुरु मे ततः ॥ 054c
समयेन प्रदद्यां ते कन्यामहमिमां नृप । 055a
न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ॥ 055c
शान्तनुरुवाच । 056
श्रुत्वा तव वरं दाश व्यवस्येयमहं तव । 056a
दातव्यं चेत्प्रदास्यामि न त्वदेयं कथञ्चन ॥ 056c
दाश उवाच । 057
अस्यां जायेत यः पुत्रः स राजा पृथिवीपते । 057a
त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ॥ 057c
वैशम्पायन उवाच । 058
नाकामयत तं दातुं वरं दाशाय शान्तनुः । 058a
शरीरजेन तीव्रेण दह्यमानोऽपि भारत ॥ 058c
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः । 059a
प्रत्ययाद्धास्तिनपुरं कामोपहतचेतनः ॥ 059c
ततः कदाचिच्छोचन्तं शान्तनुं ध्यानमास्थितम् । 060a
पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ॥ 060c
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः । 061a
तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ॥ 061c
ध्यायन्निव च मां राजन्नाभिभाषसि किञ्चन । 062a
न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः ॥ 062c
व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै । 063a
'वैशम्पायन उवाच । 063
स तं काममवाच्यं वै दाशकन्यां प्रतीदृशम् ॥ 063c
विवर्तुं नाशकत्तस्मै पिता पुत्रस्य शान्तनुः ।' 064a
एवमुक्तः स पुत्रेण शान्तनुः प्रत्यभाषत ॥ 064c
असंशयं ध्यानपरो यथा वत्स तथा शृणु । 065a
अपत्यं नस्त्वमेवैकः कुले महति भारत ॥ 065c
शस्त्रनित्यश्च सततं पौरुषे पर्यवस्थितः । 066a
अनित्यतां च लोकानामनुशोचामि पुत्रक ॥ 066c
कथञ्चित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् । 067a
असंशयं त्वमेवैकः शतादपि वरः सुतः ॥ 067c
न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे । 068a
सन्तानस्याविनाशाय कामये भद्रमस्तु ते ॥ 068c
अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः । 069a
'चक्षुरेकं च पुत्रश्च अस्ति नास्ति च भारत । 069c
चक्षुर्नाशे तनोर्नाशः पुत्रनाशे कुलक्षयः ॥' 069e
अग्निहोत्रं त्रयी विद्या यज्ञाश्च सहदक्षिणाः । 070a
सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ॥ 070c
एवमेतन्मनुष्येषु तच्च सर्वं प्रजास्विति । 071a
यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ॥ 071c
'अपत्येनानृणो लोके पितॄणां नास्ति संशयः ।' 072a
एषा त्रयी पुराणानां देवतानां च शाश्वती ॥ 072c
'अपत्यं कर्म विद्या च त्रीणि ज्योतींषि भारत ॥' 073ac
त्वं च शूरः सदाऽमर्षी शस्त्रनित्यश्च भारत । 074a
नान्यत्र युद्धात्तस्मात्ते निधनं विद्यते क्वचित् ॥ 074c
सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् । 075a
इति ते कारणं तात दुःखस्योक्तमशेषतः ॥ 075c
वैशम्पायन उवाच । 076
ततस्तत्कारणं राज्ञो ज्ञात्वा सर्वमशेषतः । 076a
देवव्रतो महाबुद्धिः प्रज्ञया चान्वचिन्तयत् ॥ 076c
अपत्यफलसंयुक्तमेतच्छ्रुत्वा पितुर्वचः । 077a
सूतं भूयोऽपि सन्तप्त आह्वयामास वै पितुः ॥ 077c
सूतस्तु कुरुमुख्यस्य उपयातस्तदाज्ञया । 078a
तमुवाच महाप्राज्ञो भीष्मो वै सारथिं पितुः ॥ 078c
त्वं सारथे पितुर्मह्यं सखासि रथधूर्गतः । 079a
अपि जानासि यदि वै कस्यां भावो नृपस्य तु ॥ 079c
तदाचक्ष्व भवान्पृष्टः करिष्ये न तदन्यथा । 080a
सूत उवाच । 080
दाशकन्या कुरुश्रेष्ठ तत्र भावः पितुर्गतः ॥ 080c
वृतः स नरदेवेन तदा वचनमब्रवीत् । 081a
योऽस्यां पुमान्भवेज्जातः स राजा त्वदनन्तरम् ॥ 081c
नाकामयत तं दातुं पिता तव वरं तदा । 082a
स चापि निश्चयस्तस्य न च दद्यां ततोऽन्यथा ॥ 082c
एतत्ते कथितं वीर कुरुष्व यदनन्तरम् । 083a
वैशम्पायन उवाच । 083
ततः स पितुराज्ञाय मतं सम्यगवेक्ष्य च । 083c
ज्ञात्वा च मानसं पुत्रः प्रययौ यमुनां प्रति ॥ 083e
क्षत्रियैः सह धर्मात्मा पुराणैर्धर्मचारिभिः । 084a
उच्चैश्श्रवसमागम्य कन्यां वव्रे पितुः स्वयम्' ॥ 084c
तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च । 085a
अब्रवीच्चैनमासीनं राजसंसदि भारत ॥ 085c
'राज्यशुल्का प्रदातव्या कन्येयं याचतां वर । 086a
अपत्यं यद्भवेदस्याः स राजाऽस्तु पितुः परम् ॥' 086c
त्वमेवात्र महाबाहो शान्तनोर्वंशवर्धनः । 087a
पुत्रः शस्त्रभृतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥ 087c
'कुमारिकायाः शुल्कार्थं किञ्चिद्वक्ष्यामि भारत ।' 088a
कोहि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् । 088c
अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ॥ 088e
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः । 089a
यस्य शुक्रात्सत्यवती सम्भूता वरवर्णिनी ॥ 089c
तेन मे बहुशस्तात पिता ते परिकीर्तितः । 090a
अर्हः सत्यवतीं वोढुं धर्मज्ञः स नराधिपः ॥ 090c
'इयं सत्यवती देवी पितरं तेऽब्रवीत्तथा । 091a
अर्थितश्चापिराजर्षिः प्रत्याख्यातः पुरा मया' ॥ 091c
कन्यापितृत्वात्किञ्चित्तु वक्ष्यामि त्वां नराधिप । 092a
बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ॥ 092c
'भूयांसं त्वयि पश्यामि तद्दोषमपराजित ।' 093a
यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा ॥ 093c
न स जातु चिरं जीवेत्त्वयि क्रुद्धे परन्तप । 094a
एतावानत्र दोषो हि नान्यः कश्चन पार्थिव ॥ 094c
एतज्जानीहि भद्रं ते दानादाने परन्तप ॥ 095ac
वैशम्पायन उवाच । 096
एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत । 096a
शृण्वतां भूमिपालानां पितुरर्थाय भारत ॥ 096c
'इदं वचनमाधत्स्व नास्ति वक्तास्य मत्समः । 097a
अन्यो जातो न जनिता न च कश्चन सम्प्रति' ॥ 097c
एवमेतत्करिष्यामि यथा त्वमनुभाषसे । 098a
योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ॥ 098c
इत्युक्तः पुनरेव स्म तं दाशः प्रत्यभाषत । 099a
चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ॥ 099c
त्वमेव नाथः सम्प्राप्तः शान्तनोरमितद्युते । 100a
कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ॥ 100c
इदं तु वचनं सौम्य कार्यं चैव निबोध मे । 101a
कौमारिकाणां शीलेन वक्ष्याम्यहमरिन्दम ॥ 101c
यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण । 102a
राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ॥ 102c
नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन । 103a
तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ॥ 103c
वैशम्पायन उवाच । 104
तस्यैतन्मतमाज्ञाय सत्यधर्मपरायणः । 104a
प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ॥ 104c
गाङ्गेय उवाच । 105
'उच्चैश्श्रवः समाधत्स्व प्रतिज्ञां जनसंसदि । 105a
ऋषयो वाथ वा देवा भूतान्यन्तर्हितानि च ॥ 105c
यानि यानीह शृण्वन्तु नास्ति वक्तास्य मत्समः ।' 106a
दाशराज निबोधेदं वचनं मे नृपोत्तम ॥ 106c
शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते । 107a
राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिपाः ॥ 107c
अपत्यहेतोरपि च करिष्येऽद्य विनिश्चयम् । 108a
अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति ॥ 108c
अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि । 109a
'न हि जन्मप्रभृत्युक्तं मया किञ्चिदिहानृतम् ॥ 109c
यावत्प्राणा ध्रियन्ते वै मम देहं समाश्रिताः । 110a
तावन्न जनयिष्यामि पित्रे कन्यां प्रयच्छ मे ॥ 110c
परित्यजाम्यहं राज्यं मैथुनं चापि सर्वशः । 111a
ऊर्ध्वरेता भविष्यामि दाश सत्यं ब्रवीमि ते ॥' 111c
वैशम्पायन उवाच । 112
तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः । 112a
ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ॥ 112c
ततोन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तदा । 113a
'तद्दृष्टा दुष्करं कर्म प्रशशंसुश्च पार्थिवाः ॥' 113c
अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् । 114a
ततः स पितुरर्थाय तामुवाच यशस्विनीम् ॥ 114c
अधिरोह रथं मातर्गच्छावः स्वगृहानिति । 115a
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीं ॥ 115c
आगम्य हास्तिनपुरं शान्तनोः सन्न्यवेदयत् । 116a
तस्य तद्दुष्करं कर्म प्रशशंसुर्नाराधिपाः ॥ 116c
समेताश्च पृथक्चैव भीष्मोयमिति चाब्रुवन् । 117a
तच्छ्रुत्वा दुष्करं कर्म कृतं भीष्मेण शान्तनुः ॥ 117c
बभूव दुःखितो राजा चिररात्राय भारत । 118a
स तेन कर्मणा सूनोः प्रीतस्तस्मै वरं ददौ ॥' 118c
स्वच्छन्दमरणं तुष्टो ददौ तस्मै महात्मने । 119a
न ते मृत्युः प्रभविता यावज्जीवितुमिच्छसि ॥ 119c
त्वत्तो ह्यनुज्ञां सम्प्राप्य मृत्युः प्रभविताऽनघ ॥ 120ac
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि सप्ताधिकशततमोऽध्यायः ॥ 107 ॥
1-107-12 पुटभेदने पत्तने ॥ 1-107-16 ब्रह्मधर्मोत्तरे अहिंसाधर्मप्रधाने ॥ 1-107-20 वाक् सत्यं श्रिताभवत् ॥ 1-107-36 अधिजगे अधीतवान् ॥ 1-107-49 तरिं नावम् ॥ 1-107-56 व्यवस्येयं विनिश्चिनुयम् ॥ 1-107-58 शरीरजेन कामेन ॥ 1-107-62 हरिणः पाण्डुगात्रः ॥ 1-107-72 पुराणानां पुरातनानाम् ॥ 1-107-95 दाने वसुवचनं अदाने बलवत्सपत्नता अत्र कारणमिति शेषः ॥ सप्तोत्तरशततमोऽध्यायः ॥ 107 ॥