०८३ अष्टक-संवादः

अध्यायः 083 ययातेः स्वनामकथनपूर्वकम् अष्टकेन सह संवादः ॥ 1 ॥ तत्र ययातिना स्वस्य स्वर्गादधःपतनकारणकथनम् ॥ 2 ॥ ययातिरुवाच । 001
अहं ययातिर्नहुषस्य पुत्रःपूरोः पिता सर्वभूतावमानात् । 001a
प्रभ्रंशितः सुरसिद्धर्षिलोकात्परिच्युतः प्रपताम्यल्पपुण्यः ॥ 001c
अहं हि पूर्वो वयसा भवद्भ्यस्तेनाभिवादं भवतां न प्रयुञ्जे । 002a
यो विद्यया तपसा जन्मना वा वृद्धः स पूज्यो भवति द्विजानाम् ॥ 002c
अष्टक उवाच । 003
अवादीस्त्वं वयसा यः प्रवृद्धः स वै राजन्नाभ्यधिकः कथ्यते च । 003a
यो विद्यया तपसा सम्प्रवृद्धः स एव पूज्यो भवति द्विजानाम् ॥ 003c
ययातिरुवाच । 004
प्रतिकूलं कर्मणां पापमाहुस्तद्वर्ततेऽप्रवणे पापलोक्यम् । 004a
सन्तोऽसतां नानुवर्तन्ति चैतद्यथा चैषामनुकूलास्तथाऽऽसन् ॥ 004c
अभूद्धनं मे विपुलं गतं तद्विचेष्टमानो नाधिगन्ता तदस्मि । 005a
एवं प्रधार्यात्महिते निविष्टो यो वर्तते स विजानाति जीवः ॥ 005c
महाधनो यो यजते सुयज्ञैर्यः सर्वविद्यासु विनीतबुद्धिः । 006a
वेदानधीत्य तपसा योज्य देहं दिवं स यायात्पुरुषो वीतमोहः ॥ 006c
न जातु हृष्येन्महता धनेनवेदानधीयीतानहङ्कृतः स्यात् । 007a
नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः । 007c
तत्तत्प्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वाऽऽत्मबुद्ध्या ॥ 007e
सुखं हि जन्तुर्यदि वाऽपि दुःखं दैवाधीनं विन्दते नात्मशक्त्या । 008a
तस्माद्दिष्टं बलवन्मन्यमानो न सञ्ज्वरेन्नापि हृष्येत्कथञ्चित् ॥ 008c
दुःखैर्न तप्येन्न सुखैः प्रहृष्येत्समेन वर्तेत सदैव धीरः । 009a
दिष्टं बलीय इति मन्यमानोन सञ्ज्वरेन्नापि हृष्येत्कथञ्चित् ॥ 009c
भये न मुह्याम्यष्टकाहं कदाचित् सन्तापो मे मानसो नास्ति कश्चित् । 010a
धाता यथा मां विदधीत लोके ध्रुवं तथाऽहं भवितेति मत्वा ॥ 010c
संस्वेदजा अण्डजाश्चोद्भिदश्च सरीसृपाः कृमयोऽथाप्सु मत्स्याः । 011a
तथाश्मनस्तृणकाष्ठं च सर्वे दिष्टक्षये स्वां प्रकृतिं भजन्ति ॥ 011c
अनित्यतां सुखदुःस्वस्य बुद्ध्वाकस्मात्सन्तापमष्टकाहं भजेयम् । 012a
किं कुर्यां वै किं च कृत्वा न तप्ये तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ॥ 012c
वैशम्पायन उवाच । 013
एवं ब्रुवाणं नृपतिं ययातिमथाष्टकः पुनरेवान्वपृच्छत् । 013a
मातामहं सर्वगुणोपपन्नं तत्रस्थितं स्वर्गलोके यथावत् ॥ 013c
अष्टक उवाच । 014
ये ये लोकाः पार्थिवेन्द्रप्रधानास्त्वया भुक्ता यं च कालं यथावत् । 014a
तान्मे राजन्ब्रूहि सर्वान्यथावत्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ॥ 014c
ययातिरुवाच । 015
राजाऽहमासमिह सार्वभौमस्ततो लोकान्महतश्चाजयं वै । 015a
तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः ॥ 015c
ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनायताम् । 016a
अध्यावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः ॥ 016c
ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर्लोकपतेर्दुरापम् । 017a
तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः ॥ 017c
स देवदेवस्य निवेशने चविहृत्य लोकानवसं यथेष्टम् । 018a
सम्पूज्यमानस्त्रिदशैः समस्तैस्तुल्यप्रभावद्युतिरीश्वराणाम् ॥ 018c
तथाऽऽवसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम् । 019a
सहाप्सरोभिर्विहरन्पुण्यगन्धान्पश्यन्नगान्पुष्पितांश्चारुरूपान् ॥ 019c
तत्र स्थितं मां देव सुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम् । 020a
दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥ 020c
एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः । 021a
वाचोऽश्रौषं चान्तरिक्षे सुराणां सानुक्रोशाः शोचतां मां नरेन्द्र ॥ 021c
अहो कष्टं क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः । 022a
तानब्रुवं पतमानस्ततोऽहं सतां मध्ये निपतेयं कथं नु ॥ 022c
तैराख्याता भवतां यज्ञभूमिः समीक्ष्य चेमां त्वरितमुपागतोऽस्मि । 023a
हविर्गन्धं देशिकं यज्ञभूमेर्धूमापाङ्गं प्रतिगृह्य प्रतीतः ॥ 023c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥ 1-83-2 ययातिरपनीततपोविद्यागर्वत्वाद्वयोज्यैष्ठ्यमेव पुरस्कृत्याह । अहं हीति । तदेवोपपादयत्युत्तरार्धेन ॥ 1-83-3 तदसहमानोऽष्टक आह । अवादीरिति । त्वं च विद्यातपःसम्प्रवृद्ध इति भावः ॥ 1-83-4 विद्यातपसोः श्रैष्ठ्ये अष्टकेन स्तुते तत्र स्वानुभूतं विघ्नं दर्शयन्ययातिरुवाच । प्रतिकूलमिति । कर्मणां पुण्यानां प्रतिकूलं नाशकं पापं गर्वस्तच्चाप्रवणेऽनम्रे दर्पवति वर्तते । पापलोक्यं नरकप्रदम् । एतत्पापमसतां सम्बन्धि सन्तो नानुवर्तन्ते इदानीमपि । किञ्च प्राञ्चोपि सन्तो यथैषां कर्मणामनुकूला उपबृंहकाः स्युस्तथा तेन प्रकारेण दम्भदर्पादिराहित्येन आसन् । अहं त्वत द्विधत्वात्स्वर्गादिन्द्रेण च्यावित इत्याशयः ॥ 1-83-5 तद्दम्भादिराहित्येन प्रसिद्धं धनं पुण्यं मे मम विपुलं यदभूत्तद्गतं नष्टं दर्पादित्यर्थः । पुनरिदानीं तच्चेष्टमानोऽपि तत्पुनर्नाधिगन्तास्मि । एवं प्रधार्य मामिकां गतिं ज्ञात्वा य आत्महिते निविष्टो यो वर्तते स धीरो जानाति नान्य इत्यर्थः ॥ 1-83-7 एतदेवाह । न जात्विति धनेन तपसा तर्हि त्वमे कुतोऽहङ्कारं कृतवानित्यत आह । नानेति । जीवलोकेऽस्मिन् जीवा नानाभावाः पृथक्स्वभावाः केचिद्धर्मरुचयः केचिद्विपरीताः । यतो दैवाधीनाः । अतएव नष्टा वृथाभूता चेष्टा उद्योगोऽधिकारः सामर्थ्यं च येषां ते तथा । दृष्टा इति शेषः । मूढानां पुण्ये पण्डितानां पापे च प्रवृत्तिकरं दैवमेव बलवदित्यर्थः । एवं विद्वांस्तत्तप्राप्य तत्सुखं दुःखं वा प्राप्य न विहन्येत । हर्षविषादाभ्यामात्मानं न हिंस्यादित्यर्थः ॥ 1-83-8 एतदेव विवृणोति । सुखं हीति द्वाभ्याम् ॥ 1-83-10 भयं तु ते व्येतु विषादमोहाविति यदष्टकेनोक्तं तत्रोत्तरमाह । भये इति । धाता दिष्टं ॥ 1-83-11 अहमिवान्येऽपि दिष्टाधीना एवेत्याह । संस्वेदजा इति । एतेपि दिष्टक्षये पुण्यपापानुभवानन्तरम् । स्वां प्रकृतिं स्वकर्मशेषानुगुणां योनिं भजन्ति प्राप्नुवन्ति ॥ 1-83-12 अहं तु दिष्टक्षयाभावात्प्राप्तेपि दुःखे न तप्ये इत्याह । अनित्यतामिति ॥ 1-83-14 क्षेत्रज्ञवत् ज्ञानिवत् ॥ 1-83-23 तैरिति । देशिकमुपदेष्टारमिव स्थितं । हविषां गन्धो यत्र तं धूमापाङ्गं धूमप्रान्तं प्रतिगृह्य आघ्राय प्रतीतः जातप्रत्ययः ॥ त्र्यशीतितमोऽध्यायः ॥ 83 ॥