०८० ययाति-स्वर्गतिः

अध्यायः 080 ॥ उत्तरयायातारभ्यः ॥ ययातेः स्वर्गगमनम् ॥ 1 ॥ वैशम्पायन उवाच । 001
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् । 001a
राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥ 001c
उषित्वा च वने वासं ब्राह्मणैः संशितव्रतः । 002a
फलमूलाशनो दान्तस्ततः स्वर्गमितो गतः ॥ 002c
स गतः स्वर्निवासं तं निवसन्मुदितः सुखी । 003a
कालेन नातिमहता पुनः शक्रेण पातितः ॥ 003c
'साधुभिः सङ्गतिं लब्ध्वा पुनः स्वर्गमुपेयिवान् । 004a
जनमेजय उवाच । 004
स्वर्गतश्च पुनर्ब्रह्मन्निवसन्देववेश्मनि । 004c
कालेन नातिमहता कथं शक्रेण पातितः' ॥ 004e
निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् । 005a
स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ॥ 005c
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतम् । 006a
राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् ॥ 006c
प्रतर्दनेन शिबिना समेत्य किल संसदि । 007a
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः ॥ 007c
सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः । 008a
कथ्यमानं त्वया विप्र विप्रर्षिगणसन्निधौ ॥ 008c
देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः । 009a
वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥ 009c
तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः । 010a
चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ॥ 010c
वैशम्पायन उवाच । 011
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् । 011a
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥ 011c
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् । 012a
राज्येऽभिषिच्य मुदितः प्रावव्राज वनं तदा ॥ 012c
अन्त्युषे स विनिक्षिप्य पुत्रान्यदुपुरोगमान् । 013a
फलमूलाशनो राजा वने सन्न्यवसच्चिरम् ॥ 013c
शंसितात्मा जितक्रोधस्तर्पयन्पितृदेवताः । 014a
अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ॥ 014c
अथितीन्पूजयामास वन्येन हविषा विभुः । 015a
शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ॥ 015c
पूर्णं वर्षसहस्रं च एवंवृत्तिरभून्नृपः । 016a
अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः ॥ 016c
ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः । 017a
तथा पञ्चाग्निमध्ये च तपस्तेपे स वत्सरम् ॥ 017c
एकपादः स्तितश्चासीत्षण्मासाननिलाशनः । 018a
पुण्यकीर्तिस्ततः स्वर्गे जगामावृत्य रोदसी ॥ 018c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि अशीतितमोऽध्यायः ॥ 80 ॥ 1-80-13 अन्त्येषु म्लेच्छेषु ॥ 1-80-17 पञ्चाग्नयश्चत्वारोऽग्नयः पञ्चमः सूर्यः ॥ 1-80-18 आवृत्य व्याप्य । रोदसी द्यावाभूमी । पृथिव्यामिव स्वर्गेपि मुख्योऽभूदित्यर्थः ॥ अशीतितमोऽध्यायः ॥ 80 ॥