०७५ देवयानी-विवाहः

अध्यायः 075

मृगयार्थं गतस्य ययातेः पुनर्देवयानीसमागमः ॥ 1 ॥ शुक्राज्ञया तयोर्विवाहः ॥ 2 ॥ देवयानीशर्मिष्ठायां सह ययातेः स्वपुरप्रवेशः ॥ 3 ॥ वैशंपायन उवाच । 001a
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम । 001a
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥ 001c
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा । 002a
तमेव देशं संप्राप्ता यथाकामं चचार सा ॥ 002c
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् । 003a
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीं ॥ 003c
खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च । 004a
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया ॥ 004c
तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः । 005a
ददर्श देवयानीं स शर्मिष्ठां ताश्च योषितः ॥ 005c
पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः । 006a
आसनप्रवरे दिव्ये सर्वरत्नविभूषिते । 006c
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् ॥ 006e
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनम् । 007a
आसनाच्च ततः किंचिद्विहीनां हेमभूषिताम् ॥ 007c
असुरेन्द्रसुतां चापि निषण्णां चारुहासिनीम् । 008a
ददर्श पादौ विप्रायाः संवहन्तीमनिन्दिताम् ॥ 008c
गायन्त्योऽथ प्रनृत्यन्त्यो वादयन्त्योऽथ भारत । 009a
दृष्ट्वा ययातिमतुलं लज्जयाऽवनताः स्थिताः ॥' 009c
ययातिरुवाच । 010
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते । 010a
गोत्रे च नामनी चैव द्वयोः पृच्छाम्यहं शुभे । 010c
देवयान्युवाच । 011
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप । 011a
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥ 011c
इयं च मे सखी दासी यत्राहं तत्र गामिनी । 012a
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥ 012c
ययातिरुवाच । 013
कथं तु ते सखी दासी कन्येयं वरवर्णिनी । 013a
असुरेन्द्रसुता सुभ्रूः परं कौतूहलं हि मे ॥ 013c
नैव देवी न गन्धर्वी न यक्षी न च किन्नरी । 014a
नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥ 014c
श्रीरिवायतपद्माक्षी सर्वलक्षणशोभना । 015a
असुरेन्द्रसुता कन्या सर्वालङ्कारभूषिता ॥ 015c
दैवेनोपहता सुभ्रूरुताहो तपसापि वा । 016a
अन्यथैषाऽनवद्याङ्गी दासी नेह भविष्यति ॥ 016c
अस्या रूपेण ते रूपं न किंचित्सदृशं भवेत् । 017a
पुरा दुश्चरितेनेयं तव दासी भवत्यहो ॥' 017c
देवयान्युवाच । 018
सर्व एव नरश्रेष्ठ विधानमनुवर्तते । 018a
विधानविहितं मत्वा मा विचित्राः कथाःकृथाः ॥ 018c
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च । 019a
को नाम त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥ 019c
ययातिरुवाच । 020
ब्रहमचर्येण वेदो मे कृत्स्रः श्रुतिपथं गतः । 020a
राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥ 020c
देवयान्युवाच । 021
केनास्यर्थेन नृपते इमं देशमुपागतः । 021a
जिघृक्षुर्वारिजं किंचिदथवा मृगलिप्सया ॥ 021c
ययातिरुवाच । 022
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः । 022a
बहुधाऽप्यनुयुक्तोऽस्मि तदनुज्ञातुमर्हसि ॥ 022c
देवयान्युवाच । 023a
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह । 023a
त्वदधीनाऽस्मि भद्रं ते सखा भर्ता च मे भव ॥ 023c
वैशंपायन उवाच । 024
असुरेन्द्रसुतामीक्ष्य तस्यां सक्तेन चेतसा । 024a
शर्मिष्ठा महिषी मह्यमिति मत्वा वचोऽब्रवीत्' ॥ 024c
ययातिरुवाच । 025
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि । 025a
अविवाह्या हि राजानो देवयानि पितुस्तव ॥ 025c
परभार्या स्वसा श्रेष्ठा सगोत्रा पतिता स्नुषा । 026a
अवरा भिक्षुकाऽस्वस्था अगम्याः कीर्तिता बुधैः ॥ 026c
देवयान्युवाच । 027
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म संहितम् ।' 027a
अन्यत्वमस्ति न तयोरेकान्ततरमास्थिते ।' 027c
ऋषिश्चाप्यृषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥ 027e
ययातिरुवाच । 028
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने । 028a
पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः ॥ 028c
देवयान्युवाच । 029
पाणि धर्मो नाहुषाऽयं न पुंभिः सेवितः पुरा । 029a
तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ॥ 029c
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् । 030a
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥ 030c
ययातिरुवाच । 031
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् । 031a
दुराधर्षतरो विप्रो ज्ञेयः पुंसा विजानता ॥ 031c
देवयान्युवाच । 032
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् । 032a
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥ 032c
ययातिरुवाच । 033
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते । 033a
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥ 033c
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम । 034a
अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥ 034c
देवयान्युवाच । 035
दत्तां वहस्व तन्मा त्वं पित्रा राजन्वृतो मया । 035a
आयचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥ 035c
तिष्ठ राजन्मुहूर्तं च प्रेषयिष्याम्यहं पितुः । 036a
गच्छ त्वं धात्रिके शीघ्रं ब्रह्मकल्पमिहानय । 036c
स्वयंवरे वृतं शीघ्रं निवेदय च नाहुषम्' ॥ 036e
वैशंपायन उवाच । 037
त्वरितं देवयान्याथ संदिष्टं पितुरात्मनः । 037a
सर्वं निवेदयामास धात्री तस्मै यथातथम् ॥ 037c
श्रुत्वैव च स राजानं दर्शयामास भार्गवः । 037e
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः । 038a
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ॥ 038c
देवयान्युवाच । 039
राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत् । 039a
नान्यपूर्वगृहीतं मे तेनाहमभया कृता । 039c
नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे ॥ 039e
शुक्र उवाच । 040
अन्यो धर्मः प्रियस्त्वन्यो वृतस्ते नाहुषः पतिः । 040a
कचशापात्त्वया पूर्वं नान्यद्भवितुमर्हति ॥ 040c
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया । 041a
स्वयं ग्रहे महान्दोषो ब्राह्मण्या वर्णसंकरात् । 041c
गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥ 041e
ययातिरुवाच । 042
अधर्मो न स्पृशेदेष महान्मामिह भार्गव । 042a
वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥ 042c
शुक्र उवाच । 043
अधर्मात्त्वां विमुञ्चामि शृणु त्वं वरमीप्सितम् । 043a
अस्मिन्विवाहे मा म्लासीरहं पापं नुदामि ते ॥ 043c
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् । 044a
अनया सह संप्रीतिमतुलां समवाप्नुहि ॥ 044c
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी । 045a
संपूज्या सततं राजन्मा चैनां शयने ह्वयेः ॥ 045c
रहस्येनां समाहूय न वदेर्न च संस्पृशेः । 046a
वहस्व भार्यां भद्रं ते यथा काममवाप्स्यसि ॥ 046c
वैशंपायन उवाच । 047
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् । 047a
शास्त्रोक्तविधिना राजा विवाहमकरोच्छुभम् ॥ 047c
लब्ध्वा शुक्रान्महद्वित्तं देवयानीं तदोत्तमाम् । 048a
द्विसहस्रेण कन्यानां तथा शर्मिष्ठया सह ॥ 048c
संपूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः । 049a
जगाम स्वपुरं हृष्टोऽनुज्ञातोऽथ महात्मना ॥ ॥ 049c

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥

1-75-3 मधुमाधवीं मधुवृक्षमदिराम् ॥ 1-75-18 विधानं दैवं अनुवर्तते अनुसृत्यास्ति ॥ 1-75-21 अर्थेन कार्येण । वारिजं मीनं पद्मादि वा ॥ 1-75-22 अनुयुक्तोस्मि पलायिते मृगे श्रान्तोस्मि ॥ 1-75-27 संसृष्टं उच्छिन्नस्य क्षत्रस्य ब्राह्मणवीर्यादेव पुनरुद्भवाद्ब्रह्मणा क्षत्रं संसृष्टम् । क्षत्रियकन्यासु लोपामुद्रादिषु ब्राह्मणानामुत्पत्तिदर्शनात्क्षत्रेण ब्रह्म संहितं मिश्रम् ॥ 1-75-28 एकस्येश्वरस्य देहो देहावयवाः मुखबाहूरुपादास्तदुद्भवाः ॥ 1-75-35 मा मां भयं क्षत्रियेण ब्राह्मणीपरिणयनदोषजम् ॥ 1-75-39 दुर्गमे संकटे ॥ 1-75-43 ईप्सितं वरं च वृणीध्वेत्युक्तोऽपीदानीं न वृतवान् पश्चात्त्वन्यत्र जरासंक्रमणसामर्थ्यरूपः शुक्रेणैव स्वप्रतिज्ञासिद्धये दत्त इति ध्येयम् ॥ पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥