०६८ अंशावतरणम्

अध्यायः 068

जरासन्धादीनां संभवः ॥ 1 ॥ द्रोणादीनां संभवः ॥ 2 ॥ धृतराष्ट्रादीनां संभवः ॥ 3 ॥ दुर्योधनादीनां संभवः ॥ 4 ॥ युधिष्ठिरादीनां संभवः ॥ 5 ॥ धृष्टद्युम्नादीनां संभवः ॥ 6 ॥ पृथाचरित्रं । कर्णोत्पत्तिश्च ॥ 7 ॥ बलरामादीनां संभवः ॥ 8 ॥ द्रौपदीसंभवः ॥ 9 ॥ कुन्तीमाद्र्योः संभवः ॥ 10 ॥ जनमेजय उवाच । 001
देवानां दानवानां च गन्धर्वोरगरक्षसाम् । 001a
सिंहव्याघ्रमृगाणां च पन्नगानां पतत्त्रिणाम् ॥ 001c
अन्येषां चैव भूतानां संभवं भगवन्नहम् । 002a
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् । 002c
जन्म कर्म च भूतानामेतेषामनुपूर्वशः ॥ 002e
वैशंपायन उवाच । 003
मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः । 003a
प्रथमं दानवाश्चैव तांस्ते वक्ष्यामि सर्वशः ॥ 003c
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः । 004a
जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः ॥ 004c
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः । 005a
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥ 005c
संह्लाद इति विख्यातः प्रह्लादस्यानुजस्तु यः । 006a
स शल्य इति विख्यातो जज्ञे वाहीकपुङ्गवः ॥ 006c
अनुह्लादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः । 007a
धृष्टकेतुरिति ख्यातः स बभूव नरेश्वरः ॥ 007c
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः । 008a
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥ 008c
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः । 009a
भगदत्त इति ख्यातः सं जज्ञे पुरुषर्षभः ॥ 009c
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् । 010a
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥ 010c
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः । 011a
केकयेषु महात्मानः पार्थिवर्षभसत्तमाः । 011c
केतुमानिति विख्यातो यस्ततोऽन्यःप्रतापवान् ॥ 011e
अमितौजा इति ख्यातः सोग्रकर्मा नराधिपः । 012a
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः ॥ 012c
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः । 013a
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः ॥ 013c
अशोको नाम राजाऽभून्महावीर्योऽपराजितः । 014a
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः ॥ 014c
दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः । 015a
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः ॥ 015c
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः । 016a
अजकस्त्ववरो राजन्य आसीद्वृषपर्वणः ॥ 016c
स शाल्व इति विख्यातः पृथिव्यामभवन्नृपः । 017a
अश्वग्रीव इति ख्यातः सत्ववान्यो महासुरः ॥ 017c
रोचमान इति ख्यातः पृथिव्यां कोऽभवन्नृपः । 018a
सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः ॥ 018c
बृहद्रथ इति ख्यातः क्षितावासीत्स पार्थिवः । 019a
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः ॥ 019c
सेनाबिन्दुरिति ख्यातः स बूभव नराधिपः । 020a
इषुमान्नाम यस्तेषामसुराणां बलाधिकः ॥ 020c
नग्नजिन्नाम राजासीद्भुवि विख्यातविक्रमः । 021a
एकचक्र इति ख्यात आसीद्यस्तु महासुरः ॥ 021c
प्रतिविन्घ्य इति ख्यातो बभूव प्रथितः क्षितौ । 022a
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः ॥ 022c
चित्रधर्मेति विख्यातः क्षितावासीत्स पार्थिवः । 023a
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः ॥ 023c
सुबाहुरिति विख्यातः श्रीमानासीत्स पार्थिवः । 024a
अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः ॥ 024c
बाह्लिको नाम राजा स बभूव प्रथितः क्षितौ । 025a
निचन्द्रश्चन्द्रवक्त्रस्तु य आसीदसुरोत्तमः ॥ 025c
मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः । 026a
निकुम्भस्त्वजितः संख्ये महामतिरजायत ॥ 026c
भूमौ भूमिपतिश्रेष्ठो देवाधिप इति स्मृतः । 027a
शरभो नाम यस्तेषां दैतेयानां महासुरः ॥ 027c
पौरवो नाम राजर्षिः स बभूव नरोत्तमः । 028a
कुपटस्तु महावीर्यः श्रीमान्राजन्महासुरः ॥ 028c
सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः । 029a
कपटस्तु राजन्राजर्षिः क्षितौ जज्ञे महासुरः ॥ 029c
पार्वतेय इति ख्यातः काञ्चनाचलसन्निभः । 030a
द्वितीयः शलभस्तेषामसुराणां बभूव ह ॥ 030c
प्रह्लादो नाम बाह्लीकः स बभूव नराधिपः । 031a
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः ॥ 031c
चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः । 032a
अर्क इत्यभिविख्यातो यस्तु दानवपुङ्गवः ॥ 032c
ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः । 033a
मृतपा इति विख्यातो य आसीदसुरोत्तमः ॥ 033c
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम । 034a
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः ॥ 034c
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः । 035a
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः ॥ 035c
स विश्व इति विख्यातो बभूव पृथिवीपतिः । 036a
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः ॥ 036c
कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः । 037a
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः ॥ 037c
शुनको नाम राजर्षिः स बभूव नराधिपः । 038a
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः ॥ 038c
जानकिर्नाम विख्यातः सोऽभवन्मनुजाधिपः । 039a
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः ॥ 039c
काशिराजः स विख्यातः पृथिव्यां पृथिवीपते । 040a
रहं तु सुषुवे यं तु सिंहिकार्केन्दुमर्दनम् । 040c
स क्राथ इति विख्यातो बभूव मनुजाधिपः ॥ 040e
दनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः । 041a
विक्षरो नाम तेजस्वी वसुमित्रो नृपः स्मृतः ॥ 041c
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः । 042a
पाण्ड्यराष्ट्राधिप इति विख्यातः सोऽभवन्नृपः ॥ 042c
बली वीर इति ख्यातो यस्त्वासीदसुरोत्तमः । 043a
पौण्ड्रमात्स्यक इत्येवं बभूव स नराधिपः ॥ 043c
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः । 044a
मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥ 044c
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः । 045a
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥ 045c
क्रोधवर्धन इत्येवं यस्त्वन्यः परिकीर्तितः । 046a
दण्डधार इति ख्यातः सोऽभवन्मनुजर्षभः ॥ 046c
कालेयानां तु ये पुत्रास्तेषामष्टौ नराधिपाः । 047a
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥ 047c
मगधेषु जयत्सेनस्तेषामासीत्स पार्थिवः । 048a
अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥ 048c
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः । 049a
अपराजित इत्येवं स बभूव नराधिपः ॥ 049c
तृतीयस्तु महातेजा महामायो महासुरः । 050a
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥ 050c
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः । 051a
श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ 051c
पञ्चमस्त्वभवत्तेषां प्रवरो यो महासुरः । 052a
महौजा इति विख्यातो बभूवेह परन्दपः ॥ 052c
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः । 053a
अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ 053c
समुद्रसेनस्तु नृपस्तेषामेवाभवद्गणात् । 054a
विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥ 054c
बृहन्नामाष्टमस्तेषां कालेयानां नराधिप । 055a
बभूव राजा धर्मात्मा सर्वभूतहिते रतः ॥ 055c
कुक्षिस्तु राजन्विख्यातो दानवानां महाबलः । 056a
पार्वतीय इति ख्यातः काञ्चनाचलसन्निभः ॥ 056c
क्रथनश्च महावीर्यः श्रीमान्राजा महासुरः । 057a
सूर्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः ॥ 057c
असुराणां तु यः सकूर्यः श्रीमांश्चैव महासुरः । 058a
दरदो नाम बाह्लीको वरः सर्वमहीक्षिताम् ॥ 058c
गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः । 059a
ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः ॥ 059c
मद्रकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा । 060a
सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ॥ 060c
क्रथो विचित्रः सुरथः श्रीमान्नीलश्च भूमिपः । 061a
चीरवासाश्च कौरव्य भूमिपालश्च नामतः ॥ 061c
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव दानवः । 062a
रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥ 062c
आषाढो वायुवेगश्च भूरितेजास्तथैव च । 063a
एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ॥ 063c
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च । 064a
श्रुतायुरुद्वहश्चैव बृहत्सेनस्तथैव च ॥ 064c
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः । 065a
मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥ 065c
गणात्क्रोधवशादेष राजपूगोऽभवत्क्षितौ । 066a
जातः पुरा महाभागो महाकीर्तिर्महाबलः ॥ 066c
कालनेमिरिति ख्यातो दानवानां महाबलः । 067a
स कंस इति विख्यात उग्रसेनसुतो बली ॥ 067c
यस्त्वासीद्देवको नाम देवराजसमद्युतिः । 068a
स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥ 068c
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत । 069a
अशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥ 069c
धन्विनां नृपशार्दूल यः सर्वास्त्रविदुत्तमः । 070a
महाकीर्तिर्महातेजाः स जज्ञे मनुजेश्वर ॥ 070c
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः । 071a
वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥ 071c
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत । 072a
एकत्वमुपसंपद्य जज्ञे शूरः परन्तपः ॥ 072c
अश्वत्थामा महावीर्यः शत्रुपक्षभयावहः । 073a
वीरः कमलपत्राक्षः क्षितावासीन्नराधिपः ॥ 073c
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः । 074a
वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥ 074c
तेषामवरजो भीष्मः कुरूणामभयङ्करः । 075a
मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ॥ 075c
जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः । 076a
योऽप्युध्यत महातेजा भार्गवेण महात्मना ॥ 076c
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ । 077a
रुद्राणां तु गणाद्विद्धि संभूतमतिपौरुषम् ॥ 077c
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः । 078a
द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम् ॥ 078c
सात्यकिः सत्यसन्धश्च योऽसौ वृष्णिकुलोद्वहः । 079a
पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥ 079c
द्रुपदश्चैव राजर्षिस्तत एवाभवद्गणात् । 080a
मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ॥ 080c
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् । 081a
तमप्रतिमकर्माणं क्षत्रियर्षभसत्तमम् ॥ 081c
मरुतां तु गणाद्विद्धि संजातमरिमर्दनम् । 082a
विराटं नाम राजानं परराष्ट्रप्रतापनम् ॥ 082c
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः । 083a
स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥ 083c
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनात्मजः । 084a
दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ॥ 084c
मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ॥ 084e
मरुतां तु गणाद्वीरः सर्वशस्त्रभृतां वरः । 085a
पाण्डुर्जज्ञे महाबाहुस्तव पूर्वपितामहः ।' 085c
तस्यैवावरजो भ्राता महासत्वो महाबलः ॥ 085e
धर्मात्तु सुमहाभागं पुत्रं पुत्रवतां वरम् । 086a
विदुरं विद्धि तं लोके जातं बुद्धिमतां वरम् ॥ 086c
कलेरंशस्तु संजज्ञे भुवि दुर्योधनो नृपः । 087a
दुर्बद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥ 087c
जगतो यस्तु सर्वस्य विद्विष्टः कलिपूरुषः । 088a
यः सर्वां घातयामास पृथिवीं पृथिवीपते ॥ 088c
उद्दीपितं येन वैरं भूतान्तकरणं महत् । 089a
पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्विह ॥ 089c
शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् । 090a
दुर्मुखो दुःसहश्चैव ये चान्ये नानुकीर्तिताः ॥ 090c
दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ । 091a
वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः ॥ 091c
जनमेजय उवाच । 092
ज्येष्ठानुज्येष्ठतामेषां नामधेयानि वा विभो । 092a
धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥ 092c
वैशंपायन उवाच । 093
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा । 093a
दुःसहो दुःशलश्चैव दुर्मुखश्च तथापरः ॥ 093c
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः । 094a
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः ॥ 094c
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च । 095a
चत्रोपचित्रौ चित्राक्षश्चारुचित्राङ्गदश्च ह ॥ 095c
दुर्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः । 096a
ऊर्णनाभः पद्मनाभस्तथा नन्दोपनन्दकौ ॥ 096c
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ । 097a
चित्रबाहुश्चित्रवर्मा सुवर्मा दुर्विरोचनः ॥ 097c
अयोबाहुर्महाबाहुश्चित्रचापसुकुण्डलौ । 098a
भीमवेगो भीमबलो बलाकी भीमविक्रमः ॥ 098c
उग्रायुधो भीमशरः कनकायुर्दृढायुधः । 099a
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥ 099c
जरासन्धो दृढसन्धः सत्यसन्धः सहस्रवाक् । 100a
उग्रश्रवा उग्रसेनः क्षेममूर्तिस्तथैव च ॥ 100c
अपराजितः पण्डितको विशालाक्षो दुराधनः ॥ 101ac
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ । 102a
आदित्यकेतुर्बह्वाशी नागदत्तानुयायिनौ ॥ 102c
कवाची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः । 103a
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः ॥ 103c
अभयो रौद्रकर्मा च तथा दृढरथश्च यः । 104a
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः ॥ 104c
दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकाङ्गदः । 105a
कुण्डजश्चित्रकश्चैव दुःशला च शताधिका ॥ 105c
वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः । 106a
एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ॥ 106c
नामधेयानुपूर्व्या च ज्येष्ठानुज्येष्ठतां विदुः । 107a
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥ 107c
सर्वे वेदविदश्चैव राजञ्शास्त्रे च परागाः । 108a
सर्वे सङ्घ्रामविद्यासु विद्याभिजनशोभिनः ॥ 108c
सर्वेषामनुरूपाश्च कृता दारा महीपते । 109a
दुःशलां समये राजसिन्धुराजाय कौरवः ॥ 109c
जयद्रथाय प्रददौ सौबलानुमते तदा । 110a
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् ॥ 110c
भीमसेनं तु वातस्य देवराजस्य चार्जुनम् । 111a
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि ॥ 111c
नकुलः सहदेवश्च सर्वभूतमनोहरौ । 112a
स्युवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् ॥ 112c
सोऽभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् । 113a
यस्यावतरणे राजन्सुरान्सोमोऽब्रवीदिदम् ॥ 113c
नाहं दद्यां प्रियं पुत्रं मम प्राणैर्गरीयसम् । 114a
समयः क्रियतामेष न शक्यमतिवर्तितुम् ॥ 114c
सुरकार्यं हि नः कार्यमसुराणां क्षितौ वधः । 115a
तत्र यास्यत्ययं वर्चा न च स्थास्यति वै चिरम् ॥ 115c
ऐन्द्रिर्नरस्तु भविता यस्य नारायणः सखा । 116a
सोर्जुनेत्यभिविख्यातः पाण्डोः पुत्रः प्रतापवान् ॥ 116c
तस्यायं भविता पुत्रो बालो भुवि महारथः । 117a
ततः षोडशवर्षाणि स्थास्यत्यमरसत्तमाः ॥ 117c
अस्य षोडशवर्षस्य स सङ्ग्रामो भविष्यति । 118a
यत्रांशा वः करिष्यन्ति कर्म वीरनिषूदनम् ॥ 118c
नरनारायणाभ्यां तु स सङ्ग्रामो विनाकृतः । 119a
चक्रव्यूहं समास्थाय योधयिष्यन्ति वःसुराः ॥ 119c
विमुखाञ्छात्रवान्सर्वान्कारयिष्यति मे सुतः । 120a
बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति ॥ 120c
महारथानां वीराणां कदनं च करिष्यति । 121a
सर्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति ॥ 121c
दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति । 122a
ततो महारथैर्वीरैः समेत्य बहुशो रणे ॥ 122c
दिनक्षये महाबाहुर्मया भूयः समेष्यति । 123a
एकं वंशकरं पुत्रं वीरं वै जनयिष्यति ॥ 123c
प्रनष्टं भारतं वंशं स भूयो धारयिष्यति । 124a
वैशंपायन उवाच । 124
एतत्सोमवचः श्रुत्वा तथास्त्विति दिवौकसः ॥ 124c
प्रत्यूचुः सहिताः सर्वे ताराधिपमपूजयन् । 125a
एवं ते कथितं राजंस्तव जन्म पितुः पितुः ॥ 125c
अग्नेर्भागं तु विद्धि त्वं धृष्टद्युम्नं महारथण् । 126a
शिखण्डिनमथो राजंस्त्रीपूर्वं विद्धि राक्षसम् ॥ 126c
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ । 127a
विश्वान्देवगणान्विद्धि संजातान्भरतर्षभ ॥ 127c
प्रतिविन्ध्यः सुतसोमः श्रुतकीर्तिस्तथापरः । 128a
नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्यवान् ॥ 128c
शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् । 129a
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि । 129c
पितुः स्वस्रीयपुत्राय सोऽनपत्याय वीर्यवान् । 130a
अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वै तदा ॥ 130c
अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया । 131a
अददत्कुन्तिभोजाय स तां दुहितरं तदा ॥ 131c
सा नियुक्ता पितुर्गेहे ब्राह्मणातिथिपूजने । 132a
उग्रं पर्यचरद्धोरं ब्राह्मणं संशितव्रतम् ॥ 132c
निकूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । 133a
समुग्रं शंसितात्मानं सर्वयत्नैरतोषयत् ॥ 133c
तुष्टोऽभिचारसंयुक्तमाचचक्षे यथाविधि । 134a
उवाच चैनां भगवान्प्रीतोऽस्मि सुभगे तव ॥ 134c
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । 135a
तस्य तस्य प्रसादात्त्वं देवि पुत्राञ्जनिष्यसि ॥ 135c
एवमुक्ता च सा बाला तदा कौतूहलान्विता । 136a
कन्या सती देवमर्कमाजुहाव यशस्विनी ॥ 136c
प्रकाशकर्ता भगवांस्तस्यां गर्भं दधौ तदा । 137a
अजीजनत्सुतं चास्यां सर्वशस्त्रभृतांवरम् ॥ 137c
सकुण्डलं सकवचं देवगर्भं श्रियान्वितम् । 138a
दिवाकरसमं दीप्त्या चारुसर्वाङ्गभूषितम् ॥ 138c
निगूहमाना जातं वै बन्धुपक्षभयात्तदा । 139a
उत्ससर्ज जले कुन्ती तं कुमारं यशस्विनम् ॥ 139c
तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः । 140a
राधायाः कल्पयामास पुत्रं सोऽधिरथस्तदा ॥ 140c
चक्रतुर्नामधेयं च तस्य बालस्य तावुभौ । 141a
दंपती वसुषेणेति दिक्षु सर्वासु विश्रुतम् ॥ 141c
संवर्धमानो बलवान्सर्वास्त्रेषूत्तमोऽभवत् । 142a
वेदाङ्गानि च सर्वाणि जजाप जपतां वरः ॥ 142c
यस्मिन्काले जपन्नास्ते धीमान्सत्यपराक्रमः । 143a
नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ॥ 143c
तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः । 144a
ययाचे कुण्डले वीरं कवचं च सहाङ्गजम् ॥ 144c
उत्कृत्य कर्णो ह्यददत्कवचं कुण्डले तथा ॥ 145a
शक्तिं शक्रो ददौ तस्मै विस्मितश्चेदमब्रवीत् ॥ 145c
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् । 146a
यस्मिन्क्षेप्स्यसि दुर्धर्ष स एको न भविष्यति ॥ 146c
वैशंपायन उवाच । 147
पुरा नाम च तस्यासीद्वसुषेण इति क्षितौ । 147a
ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ॥ 147c
आमुक्तकवचो वीरो यस्तु जज्ञे महायशाः । 148a
स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः ॥ 148c
स तु सूतकुले वीरो ववृधे राजसत्तम । 149a
कर्णं नरवरश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥ 149c
दुर्योधनस्य सचिवं मित्रं शत्रुविनाशनम् । 150a
दिवाकरस्य तं विद्धि राजन्नंशमनुत्तमम् ॥ 150c
यस्तु नारायणो नाम देवदेवः सनातनः । 151a
तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ॥ 151c
शेषस्यांशश्च नागस्य बलदेवो महाबलः । 152a
सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥ 152c
एवमन्ये मनुष्येन्द्रा बहवोंशा दिवौकसाम् । 153a
जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥ 153c
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः । 154a
तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य ह ॥ 154c
तानि षोडशदेवीनां सहस्राणि नराधिप । 155a
बभूवुर्मानुषे लोके वासुदेवपरिग्रहः ॥ 155c
श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले । 156a
[भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः ॥ 156c
द्रौपदी त्वथ संजज्ञे शची भागादनिन्दिता ।] 157a
द्रुपदस्य कुले जाता वेदिमध्यादनिन्दिता ॥ 157c
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी । 158a
पद्मायताक्षी सुश्रोणी स्वसिताञ्चितमूर्धजा ॥ 158c
सर्वलक्षणसंपन्ना वैदूर्यमणिसंनिभा । 159a
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथनी रहः ॥ 159c
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते । 160a
कुन्ती माद्री च जज्ञाते मतिस्तु कुबलात्मजा ॥ 160c
इति देवासुराणां ते गन्धर्वाप्सरसां तथा । 161a
अंशावतरणं राजन्राक्षसानां च कीर्तितम् ॥ 161c
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः । 162a
महात्मानो यदूनां च ये जाता विपुले कुले ॥ 162c
ब्राह्मणाः क्षत्रिया वैश्या मया ते परिकीर्तिताः । 163a
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् ॥ 163c
इदमंशावतरणं श्रोतव्यमनसूयता । 164a
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् ॥ 164c
प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ॥ ॥ 165ac

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टषष्टितमोऽध्यायः ॥ 68 ॥

कुण्डलितोयं पाठः क्वचिन्न दृश्यते ।