०६७ ऋष्यादि-वंशावली

अध्यायः 067

ऋष्यादिवंशकथनम् ॥ 1 ॥ वैशंपायन उवाच । 001
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः । 001a
एकादश सुताः स्थाणोः ख्याताः परमतेजसः ॥ 001c
मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः । 002a
अजैकपादहिर्बिध्न्यः? पिनाकी च परन्तपः ॥ 002c
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः । 003a
स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः ॥ 003c
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः । 004a
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥ 004c
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः । 005a
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥ 005c
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप । 006a
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥ 006c
राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा । 007a
यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः ॥ 007c
पुलहस्य सुता राजञ्शरभाश्च प्रकीर्तिताः । 008a
सिंहाः किपुरुषा व्याघ्रा ऋक्षा ईहामृगास्तथा ॥ 008c
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः । 009a
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥ 009c
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः । 010a
ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः ॥ 010c
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः । 011a
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥ 011c
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः । 012a
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥ 012c
ददौ स दश धर्माय सप्तविंशतिमिन्दवे । 013a
दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥ 013c
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे । 014a
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥ 014c
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश । 015a
द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा ॥ 015c
सप्तविंशतिः सोमस्य पत्न्यो लोकस्य विश्रुताः । 016a
कालस्य नयने युक्ताः सोमपत्न्याः शुचिव्रताः ॥ 016c
सर्वा नक्षत्रयोगिन्यो लोकयात्राविधानतः । 017a
पैतामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः । 017c
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥ 017e
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः । 018a
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ 018c
धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा । 019a
चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा ॥ 019c
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः । 020a
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥ 020c
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।' 021a
आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तोमुनिस्तथा' । 021c
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ 021e
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते । 022a
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥ 022c
अह्नः सुतस्तथा ज्योतिः शमः शान्तस्तथा मुनिः । 023a
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्छरवणालयः ॥ 023c
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः । 024a
कृत्तिकाभ्युपपत्तेश्च कार्तिकेय इति स्मृतः ॥ 024c
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । 025a
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ 025c
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाऽथ देवलम् । 026a
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ । 026c
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी ॥ 026e
योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह । 027a
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥ 027c
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः । 028a
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥ 028c
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः । 029a
यो दिव्यानि विमानानि त्रिदशानां चकारह ॥ 029c
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः । 030a
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥ 030c
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः । 031a
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥ 031c
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः । 032a
शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥ 032c
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना । 033a
नन्दा तु भार्या हर्षस्य यासु लोकाः प्रतिष्ठिताः ॥ 033c
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः । 034a
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥ 034c
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी । 035a
असूयत महाभागा सान्तरिक्षेऽस्विनावुभौ ॥ 035c
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप । 036a
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥ 036c
त्रयस्त्रिंशत यत्येते देवास्तेषामहं तव । 037a
अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥ 037c
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा । 038a
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥ 038c
वैनतेयस्तु गरुडो बलवानरुणस्तथा । 039a
बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥ 039c
अश्विनौ गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् । 040a
एते देवगणा राजन्कीर्तितास्तेऽनुपूर्वशः ॥ 040c
यान्कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते । 041a
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः ॥ 041c
भृगोः पुत्रः कविर्विद्वाञ्छुक्रः कविसुतो ग्रहः । 042a
त्रैलोक्यप्राणयात्रार्थं वर्षावर्षे भयाभये । 042c
स्वयंभुवा नियुक्तः सन्भुवनं परिधावति ॥ 042e
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः । 043a
सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ॥ 043c
तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे । 044a
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥ 044c
च्यवनं दीप्ततपसं धर्मात्मानं यशस्विनम् । 045a
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥ 045c
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः । 046a
और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ॥ 046c
महातेजा महावीर्यो बाल एव गुणैर्युतः । 047a
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् ॥ 047c
जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः । 048a
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः । 048c
सर्वशस्त्रेषु कुशलः क्षत्रियान्तकरो वशी ॥ 048e
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् । 049a
तेषां पुत्रसहस्राणि बभूवुर्भुवि विस्तरः ॥ 049c
द्वौ पुत्रो ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् । 050a
लोके धाता विधाता च यौ स्थितौ मनुना सह ॥ 050c
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा । 051a
तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ॥ 051c
वरुणस्य भार्या या ज्येष्ठा शुक्राद्देवी व्यजायत । 052a
तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ॥ 052c
प्रजानामन्नकामानामन्योन्यपरिभक्षणात् । 053a
अधर्मस्तत्र संजातः सर्वभूतविनाशकः ॥ 053c
तस्यापि निर्ऋतिर्भार्या नैर्ऋता येन राक्षसाः । 054a
घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ॥ 054c
भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा । 055a
न तस्य भार्या पुत्रो वा कश्चिदस्त्यन्तको हि सः ॥ 055c
काकीं श्येनीं तथा भासीं धृतराष्ट्रीं तथा शुकीम् । 056a
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥ 056c
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत । 057a
भासी भासानजनयद्गृध्रांश्चैव जनाधिप ॥ 057c
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः । 058a
चक्रवाकांश्च भद्रा तु जनयामास सैव तु ॥ 058c
शुकी च जनयामास शुकानेव यशस्विनी । 059a
कल्याणगुणसंपन्ना सर्वलक्षणपूजिता ॥ 059c
नव क्रोधवशा नारीः प्रजज्ञे क्रोधसंभवाः । 060a
मृगी च मृगमन्दा च हरी भद्रमना अपि ॥ 060c
मातङ्गी त्वथ शार्दूली श्वेता सुरभिरेव च । 061a
सर्वलक्षणसंपन्ना सुरसा चैव भामिनी ॥ 061c
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम । 062a
ऋक्षाश्च मृगमन्दायाः सृमराश्च परंतप ॥ 062c
ततस्त्वैरावतं नागं जज्ञे भद्रमनाः सुतम् । 063a
ऐरावतः सुतस्तस्या देवनागो महागजः ॥ 063c
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः । 064a
गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ॥ 064c
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याग्राननेकशः । 065a
द्वीपिनश्च महासत्वान्सर्वानेव न सशंयः ॥ 065c
मातङ्ग्यपि च मातङ्गानपत्यानि नराधिप । 066a
दिशां गजं तु श्वेताख्यं श्वेताऽजनयदाशुगम् ॥ 066c
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत । 067a
रोहिणी चैव भद्रं ते गन्धर्वी तु यशस्विनी ॥ 067c
विमलामपि भद्रं ते अनलामपि भारत । 068a
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ॥ 068c
'इरायाः कन्यका जातास्तिस्रः कमललोचनाः । 069a
वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः ॥ 069c
लतारुहे च द्वे प्रोक्ते वीरुधां चैव ताः स्मृताः । 070a
गृह्णन्ति ये विना पुष्पं फलानि तरवः पृथक् ॥ 070c
लतासुतास्ते विज्ञेयास्तानेवाहुर्वनस्पतीन् । 071a
पुष्पैः फलग्रहान्वृक्षान्रुहायाः प्रसवं विदुः ॥ 071c
लतागुल्मानि वृक्षाश्च त्वक्सारतृणजन्तवः । 072a
वीरुधो याः प्रजास्तस्यास्तत्र वंशः समाप्यते ॥ 072c
सप्तपिण्डफलान्वृक्षाननलापि व्यजायत ॥ 073ac
अनलायाः शुकी पुत्री कंकस्तु सुरसासुतः । 074a
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ ॥ 074c
संपातिं जनयामास वीर्यवन्तं जटायुषम् । 075a
सुरसाऽजनयन्नागान्कद्रूः पुत्रांस्तु पन्नगान् ॥ 075c
द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ । 076a
इत्येष सर्वभूतानां महतां मनुजाधिप । 076c
प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ॥ 076e
यं श्रुत्वा पुरुषः सम्यङ्मुक्तो भवति पाप्मनः । 077a
सर्वज्ञतां च लभते रतिमग्र्यां च विन्दति ॥ ॥ 077c
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तषष्टितमोऽध्यायः ॥ 67 ॥

1-67-1 ब्रह्मण इति षण्महर्षयः स्थाणुश्च सप्तम इति बोध्यम् । तत्रादौ स्थाणुसंततिमेवाह एकादशेति । एकादश तथा रुद्राः स्थाणोश्चैव हि मानसाः इति पाठान्तरम् । अत्र स्थिरत्वात्स्थाणुर्ब्रह्मा ॥ 1-67-5 बृहस्पतिरुचथ्यश्चेति पाठान्तरम् ॥ 1-67-8 ईहामृगाः वृकाः ॥ 1-67-9 पतङ्गसहचारिणः सूर्यसहचरा वालखिल्याः ॥ 1-67-16 नयने ज्ञापने ॥ 1-67-17 नक्षत्रयोगिन्यो नक्षत्रनामयुक्ताः । विधानतः विधानार्थमभवन् । पैतामहो देवो धर्मः पितामहस्तनाज्जातत्वात् । तस्य पितामहस्य पुत्रो दक्षः तदङ्गुष्ठाज्जातत्वात् । तस्य संबन्धिनी वसुनाम्नी कन्या तस्यां धर्माद्वसवोष्टौ जाता इत्यर्थः । वसोस्तु वसवः पुत्रा इत्यन्यत्रोक्तेः ॥ 1-67-19 धूम्राय इति वसोरेव धूम्रादीनि नामान्तराणि कल्पभेदात् । अन्या एता न दक्षकन्या इति वा ॥ 1-67-24 कृत्तिकानां षण्णां मातृत्वेनाभ्युपपत्तेरङ्गीकारात् ॥ 1-67-35 बडवा अश्वा अन्तरिक्षे अश्विनावसूत नासिकायां शुक्रप्रक्षेपात् ॥ 1-67-37 त्रयस्त्रिंशत् अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च ॥ 1-67-43 योगाचार्य इति । चापी व्यस्तौ । सुराणामपि च गुरुरिति संबन्धः । देवानां गुरुरेव योगाचार्यो योगबलेन कायद्वयं कृत्वा दैत्यानामप्याचार्योऽभवदित्यर्थः ॥ 1-67-73 पिण्डफलान्सप्त । खर्जूरतालहिंताला ताली खर्जूरिका तथा । गुवाकानारिकेलश्च सप्त पिण्डफला द्रुमाः इत्युक्तरूपान् । इह पुराणान्तरविरोधो नामभेदात्कल्पभेदाद्वापनेयः ॥ सप्तषष्टितमोऽध्यायः ॥ 67 ॥