अध्यायः 055 आस्तीककृता जनमेजययज्ञप्रशंसा॥1॥
आस्तीक उवाच। 001
सोमस्य यज्ञो वरुणस्य यज्ञःप्रजापतेर्यज्ञ आसीत्प्रयागे। 001a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 001c
शक्रस्य यज्ञः शतसङ्ख्य उक्त-स्तथापरं तुल्यसङ्ख्यं शतं वै। 002a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 002c
यमस्य यज्ञो हरिमेधसश्चयथा यज्ञो रन्तिदेवस्य राज्ञः। 003a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 003c
गयस्य यज्ञः शशबिन्दोश्च राज्ञोयज्ञस्तथा वैश्रवणस्य राज्ञः। 004a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 004c
नृगस्य यज्ञस्त्वजमीढस्य चासी-द्यथा यज्ञो दाशरथेश्च राज्ञः। 005a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 005c
यज्ञः श्रुतो दिवि देवस्य सूनो-र्युधिष्ठिरस्याजमीढस्य राज्ञः। 006a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 006c
कृष्णस्य यज्ञः सत्यवत्याः सुतस्यस्वयं च कर्म प्रचकार यत्र। 007a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 007c
इमे च ते सूर्यसमानवर्चसःसमासते वृत्रहणः क्रतुं यथा। 008a
नैषां ज्ञातुं विद्यते ज्ञानमद्यदत्तं येभ्यो न प्रणश्येत्कदाचित्॥ 008c
ऋत्विक्समो नास्ति लोकेषु चैवद्वैपायनेनेति विनिश्चितं मे। 009a
एतस्य शिष्या हि क्षितिं संचरन्तिसर्वर्त्विजः कर्मसु स्वेषु दक्षाः॥ 009c
विभावसुश्चित्रभानुर्महात्माहिरण्यरेता हुतभुक्कृष्णवर्त्मा। 010a
प्रदक्षिणावर्तशिखः प्रदीप्तोहव्यं तवेदं हुतभुग्वष्टि देवः॥ 010c
नैह त्वदन्यो विद्यते जीवलोकेसमो नृपः पालयिता प्रजानाम्। 011a
धृत्या च ते प्रतीमनाः सदाहंत्वं वा वरुणो धर्मराजो यमो वा॥ 011c
शक्रः साक्षाद्वज्रपाणिर्यथेहत्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम्। 012a
मतस्त्वं नः पुरुषेन्द्रेह लोकेन च त्वदन्यो भूपतिरस्ति जज्ञे॥ 012c
खट्वाङ्गनाभगदिलीपकल्पययातिमान्धातृसमप्रभाव। 013a
आदित्यतेजःप्रतिमानतेजाभीष्मो यथा राजसि सुव्रतस्त्वम्॥ 013c
वाल्मीकिवत्ते निभृतं स्ववीर्यंवसिष्ठवत्ते नियतश्च कोपः। 014a
प्रभुत्वमिन्द्रत्वसमं मतं मेद्युतिश्च नारायणवद्विभाति॥ 014c
यमो यथा धर्मविनिश्चयज्ञःकृष्णो यथा सर्वगुणोपपन्नः। 015a
श्रियां निवासोऽसि यथा वसूनांनिधानभूतोऽसि तथा क्रतूनाम्॥ 015c
दम्भोद्भवेनासि समो बलेनरामो यथा शस्त्रविदस्त्रविच्च। 016a
और्वत्रिताभ्यामसि तुल्यतेजादुष्प्रेक्षणीयोऽसि भगीरथेन॥ 016c
सौतिरुवाच। 017
एवं स्तुताः सर्व एव प्रसन्नाराजा सदस्या ऋत्विजो हव्यवाहः। 017a
तेषां दृष्ट्वा भावितानीङ्गितानिप्रोवाच राजा जनमेजयोऽथ॥॥ 017c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चपञ्चाशत्तमोऽध्यायः॥55॥
1-55-6 देवस्य धर्मराजस्य॥1-55-8 ज्ञानशब्दः कर्मव्युत्पन्नो ज्ञेयवचनः अद्य संप्रति ज्ञातुं ज्ञेयं न विद्यते सर्वस्य ज्ञातत्वादित्यर्थः॥1-55-10 अग्निं स्तौति विभावसुरिति। वष्टि कामयते॥1-55-12 न च त्वदन्यस्त्राता भूपतिरस्ति इदानीं न च जज्ञे प्रागपि॥1-55-14 निभृतं गुप्तं। नियतो निगृहीतः॥1-55-15 वसवोऽष्टौ तत्संबन्धिनीनां श्रियाम्॥1-55-16 रामो भार्गवः और्वत्रितावृषी॥1-55-17 भावितानि मनसि संकल्पितानि। भारतस्त्विङ्गितानीति पाठे भारतो राजा भरतवंशजत्वात्॥ पञ्चपञ्चाशत्तमोऽध्यायः॥55॥