०५४ आस्तीक-प्रेषणम्

अध्यायः 054 आस्तीकस्य स्वमात्रा सवादः। वासुकेराश्वासनं च॥1॥ आस्तीकस्य सर्पसत्रं प्रति गमनम्॥2॥

सौतिरुवाच। 001
तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा। 001a
वासुकेर्नागराजस्य वचनादिदमब्रवीत्॥ 001c
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः। 002a
कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम्॥ 002c
आस्तीक उवाच। 003
किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे। 003a
तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्ताऽस्मि तत्तथा॥ 003c
सौतिरुवाच। 004
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी। 004a
भगिनी नागराजस्य जरत्कारुरविक्लबा॥ 004c
जरत्कारुरुवाच। 005
पन्नगानामशेषाणां माता कद्रूरिति श्रुता। 005a
तया शप्ता रुषितया सुता यस्मान्निबोध तत्॥ 005c
उच्चैः श्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम। 006a
विनतार्थाय पणिते दासभावाय पुत्रकाः॥ 006c
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः। 007a
तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ॥ 007c
तां च शप्तवतीं देवः साक्षाल्लोकपितामहः। 008a
एवमस्त्विति तद्वाक्यं प्रोवाचानु मुमोद च॥ 008c
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा। 009a
अमृते मथिते तात देवाञ्छरणमीयिवान्॥ 009c
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्। 010a
भ्रातरं मे पुरस्कृत्य पितामहमुपागमन्॥ 010c
ते तं प्रसादयामासुः सुराः सर्वेऽब्जसंभवम्। 011a
राज्ञा वासुकिना सार्धं शापोऽसौन भवेदिति॥ 011c
देवा ऊचुः। 012
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात्। 012a
अभिशापः स मातुस्तु भगवन्न भवेत्कथम्॥ 012c
ब्रह्मोवाच। 013
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति। 013a
तत्र जातो द्विजः शापान्मोक्षयिष्यति पन्नगान्॥ 013c
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगोत्तमः। 014a
प्रादान्माममरप्रख्य तव पित्रे महात्मने॥ 014c
प्रागेवानागते काले तस्मात्त्व मय्यजायथाः। 015a
अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि॥ 015c
भ्रातरं चापि मे तस्मात्त्रातुमर्हसि पावकात्। 016a
न मोघं तु कृतं तत्स्याद्यदहं तव धीमते। 016c
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे॥ 016e
सौतिरुवाच। 017
एवमुक्तस्तथेत्युक्त्वा सास्तीको मातरं तदा। 017a
अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव॥ 017c
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम। 018a
तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते॥ 018c
भव स्वस्थमना नाग न हि ते विद्यते भयम्। 019a
प्रयतिष्ये तथा राजन्यथा श्रेयो भविष्यति॥ 019c
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा। 020a
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्॥ 020c
वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल। 021a
यथा स यज्ञो नृपतेर्निवत्रिष्यति सत्तम॥ 021c
स संभावय नागेन्द्र मयि सर्वं महामते। 022a
न ते मयि मनो जातु मिथ्या भवितुमर्हति॥ 022c
वासुकिरुवाच। 023
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते। 023a
दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः॥ 023c
आस्तीक उवाच। 024
न सन्तापस्त्वया कार्यः कथंचित्पन्नगोत्तम। 024a
प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम्॥ 024c
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्। 025a
नाशयिष्यामि माऽत्र त्वं भयंकार्षीः कथंचन॥ 025c
सौतिरुवाच। 026
ततः स वासुकेर्घोरमपनीय मनोज्वरम्। 026a
आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम्॥ 026c
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः। 027a
मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः॥ 027c
स गत्वाऽपश्यदास्तीको यज्ञायतनमुत्तमम्। 028a
वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः॥ 028c
स तत्र वारितो द्वास्थैः प्रविशन्द्विजसत्तमः। 029a
अभितुष्टाव तं यज्ञं प्रवेशार्थी परंतपः॥ 029c
स प्राप्य यज्ञायतनं वरिष्ठंद्विजोत्तमः पुण्यकृतां वरिष्ठः। 030a
तुष्टाव राजानमनन्तकीर्ति-मृत्विक्सदस्यांश्च तथैव चाग्निम्॥॥ 030c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुःपञ्चाशत्तमोऽध्यायः॥54॥ 1-54-4 आचष्ट व्यक्तं कथितवती। अविक्लबा अनाकुला॥1-54-12 अभिशापः शापः॥1-54-17 आस्तीक इति पादपूरणार्थः सुलोपः॥1-54-22 मयि अयमस्मान्मोचयिष्यत्येवरूपो मनःसंकल्पो जातु कदापि मिथ्याऽन्यथा न॥1-54-23 ब्रह्म वेदः मातृदेवो भवेति मातुराज्ञकरत्वविधानपरस्तदन्यथाकरणप्रयुक्तो दण्डो मातृशापरूपो ब्रह्मदण्डः॥1-54-26 वासुकेश्चिन्ताज्वरं स्वयं गृहीत्वेत्यर्थः॥ चतुःपञ्चाशत्तमोऽध्यायः॥54॥