अध्यायः 053 ऋत्विगादिनामकथनम्॥1॥ इन्द्रकृतं तक्षकाश्वासनम्॥2॥ वासुकेः स्वभगिन्या संवादः॥3॥
शौनक उवाच। 001
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः। 001a
जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः॥ 001a
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे। 002a
विषादजननेऽत्यर्थं पन्नगानां महाभय॥ 002c
सर्वं विस्तरशस्तात भवाञ्छंसितुमर्हति। 003a
सर्पसत्रविधानज्ञविज्ञेयाः के च सूतज॥ 003c
सौतिरुवाच। 004
हन्त ते कथयिष्यामि नामानीह मनीषिणाम्। 004a
ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा॥ 004c
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः। 005a
च्यवनस्यान्वये ख्यातो जातो वेदविदां वरः॥ 005c
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सौऽथ जैमिनिः। 006a
ब्र्हमाऽभवच्छार्ङ्गरवोऽथाध्वर्युश्चापि पिङ्गलः॥ 006c
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान्। 007a
उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः॥ 007c
असितो देवलश्चैव नारदः पर्वतस्तथा। 008a
आत्रेयः कुण्डजठरौ द्विजः कालघटस्तथा॥ 008c
वात्स्यः श्रुतश्रवा वृद्धो जपस्वाध्यायशीलवान्। 009a
कोहलो देवशर्मा च मौद्गल्यः समसौरभः॥ 009c
एते चान्ये च बहवो ब्राह्मणा वेदपारगाः। 010a
सदस्याश्चाभवंस्तत्र सत्रे पारिक्षितस्य ह॥ 010c
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ। 011a
अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः॥ 011c
वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः। 012a
ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा॥ 012c
पततां चैव नागानां धिष्ठितानां तथाम्बरे। 013a
अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम्॥ 013c
तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम्। 014a
गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम्॥ 014c
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः। 015a
अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम्॥ 015c
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक। 016a
भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कदाचन॥ 016c
प्रसादितो मया पूर्वं तवार्थाय पितामहः। 017a
तस्मात्तव भयं नास्ति व्येतु तेनसो ज्वरः॥ 018a
सौतिरुवाच। 019
एवमाश्वासितस्तेन ततः स भुजगोत्तमः। 019a
उवास भवने तस्मिञ्शक्रस्य मुदितः सुखी॥ 019c
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः। 020a
अल्पशेषपरीवारो वासुकिः पर्यतप्यत॥ 020c
कश्मलं चाविशद्धोरं वासुकिं पन्नगोत्तमम्। 021a
स घूर्णमानहृदयो भगिनीमिदमब्रवीत्॥ 021c
दह्यन्तेऽङ्गानि मे भद्रे न दिशः प्रतिभान्ति माम्। 022a
सीदामीव च संमोहाद्धूर्णतीव च मे मनः॥ 022c
दृष्टिर्भ्राम्यति मेऽतीव हृदयं दीर्यतीव च। 023a
पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ॥ 023c
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया। 024a
व्यक्तं मयाऽभिगन्तव्यं प्रेतराजनिवेशनम्॥ 024c
अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः। 025a
जरत्करौ(पुरा)मयादत्तात्रायस्वास्मान्सबान्धवान्॥ 025c
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे। 026a
प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः॥ 026c
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम्। 027a
ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम्॥॥ 027c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिपञ्चाशत्तमोऽध्यायः॥53॥
1-53-2 सदस्या उपद्रष्टारः॥1-53-3 विधानज्ञेषु विज्ञेयाः श्रेष्ठाः॥1-53-13 पच्यतां पच्यमानानाम्॥1-53-15 आगः अपरांध कृत्वा॥ त्रिपञ्चाशत्तमोऽध्यायः॥53॥