०५१ दीक्षा-ग्रहणम्

अध्यायः 051 जनमेजयस्य सर्पसत्रप्रतिज्ञा॥1॥ यज्ञसामग्रीसंपादनम्॥2॥ दीक्षाग्रहणम्॥3॥

सौतिरुवाच। 001
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः। 001a
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः॥ 001c
ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा। 002a
पुरोहितमथाहूय ऋत्विजो वसुधाधिपः॥ 002c
अब्रवीद्वाक्यसंपन्नः कार्यसंपत्करं वचः। 003a
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्॥ 003c
प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे। 004a
अपि तत्कर्म विदितं भवतां येन पन्नगम्॥ 004c
तक्षकं संप्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम्। 005a
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना॥ 005c
तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम्॥ 006ac
ऋत्विज ऊचुः। 007
अस्ति राजन्महात्सत्रं त्वदर्थं देवनिर्मितम्। 007a
सर्वसत्रमिति ख्यातं पुराणे परिपठ्यते॥ 007c
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप। 008a
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः॥ 008c
एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम्। 009a
हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम॥ 009c
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा। 010a
आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे॥ 010c
सौतिरुवाच। 011
ततस्त ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम। 011a
तं देशं मापयामासुर्यज्ञायतनकारणात्॥ 011c
यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः। 012a
ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम्॥ 012c
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम्। 013a
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्॥ 013c
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा। 014a
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति॥ 014c
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा। 015a
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्॥ 015c
स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः। 016a
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा॥ 016c
यस्मिन्देशे च काले च मापनेयं प्रवर्तिता। 017a
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः॥ 017c
एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत्। 018a
क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति॥॥ 018c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकपञ्चाशत्तमोऽध्यायः॥51॥ 1-51-5 मह्यं मम॥1-51-7 त्वत् त्वत्तो नान्योस्ति॥1-51-9 आहरिष्यामि करिष्यामि। संभ्रियन्तु संभ्रियन्ताम्॥1-51-13 भविष्यति भाविनि॥1-51-15 सूतो जात्या पौराणिकः शिल्पागमवेत्ता॥1-51-16 नायं संस्थास्यते न समाप्स्यते॥1-51-17 दीक्षाकालस्य प्रागिति प्राग्दी क्षाकालं क्षत्तारं द्वास्थम्॥ एकपञ्चाशत्तमोऽध्यायः॥51॥