अध्यायः 050 शून्यारण्ये वृत्तस्य काश्यपतक्षकवृत्तान्तस्योपलब्धिप्रकारकथनम्॥1॥
मन्त्रिण ऊचुः। 001
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम्। 001a
मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः॥ 001c
ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः। 002a
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः॥ 002c
ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह। 003a
सोऽनुज्ञातस्ततस्तत्र शृङ्गी शुश्राव तं तदा॥ 003c
सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा। 004a
मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम्॥ 004c
वहन्तं राजशार्दूल स्कन्धेनानपकारिणम्। 005a
तपस्विनमतीवाथ तं मुनिप्रवरं नृप॥ 005c
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम्। 006a
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा॥ 006c
शुभाचारं शुभकथं सुस्थितं तमलोलुपम्। 007a
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्। 007c
शरण्यं सर्वभूतानां पित्रा विनिकृतं तव॥ 007e
शशापाथ महातेजाः पितरं ते रुषान्वितः। 008a
ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः॥ 008c
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह। 009a
पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव॥ 009c
अनागसि गुरौ यो मे मृतं सर्पवासृजत्। 010a
तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति॥ 010c
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः। 011a
सप्तरात्रादितः पापं पश्य मे तपसो बलम्॥ 011c
इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत्। 012a
दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्॥ 012c
स चापि मुनिशार्दूलः प्रेरयामास ते पितुः। 013a
शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्॥ 013c
आचख्यौं सत्त्व विश्रान्तो राज्ञः सर्वमशेषतः। 014a
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते॥ 014c
तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति। 015a
श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय॥ 015c
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्। 016a
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते॥ 016c
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत। 017a
तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा॥ 017c
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम्। 018a
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति॥ 018c
काश्यप उवाच। 019
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज। 019a
तक्षकेण भुजंगेन धक्ष्यते किल सोऽद्य वै॥ 019c
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्। 020a
मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति॥ 020c
तक्षक उवाच। 021
किमर्थं तं मया दष्टं संजीवयितुमिच्छसि। 021a
अहं त तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम्॥ 021c
न शक्तस्त्वं मया दष्टं तं संजीवयितुं नृपम्। 022a
मन्त्रिण ऊचुः। 022
इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम्॥ 022c
स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः। 023a
काश्यपश्च ततो राजन्नजीवयत तं नगम्॥ 023c
ततस्तं लोभयामास कामं ब्रूहीति तक्षकः। 024a
स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः॥ 024c
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः। 025a
तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा॥ 025c
यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम्। 026a
गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ॥ 026c
स एवमुक्तो नागेन काश्यपो द्विपदां वरः। 027a
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्॥ 027c
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः। 028a
तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव॥ 028c
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना। 029a
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः॥ 029c
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम। 030a
अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम्॥ 030c
श्रुत्वा चैतं नरश्रेष्ठ पार्थिवस्य पराभवम्। 031a
अस्य चर्षेरुदङ्कस्य विधत्स्व यदनन्तरम्॥ 031c
सौतिरुवाच। 032
एतस्मिन्नेव काले तु स राजा जनमेजयः। 032a
उवाच मन्त्रिणः सर्वानिदं वाक्यमरिंदमः॥ 032c
जनमेजय उवाच। 033
अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ। 033a
आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा॥ 033c
यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै। 034a
नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात्॥ 034c
चिन्तयामास पापात्मा मनसा पन्नगाधमः। 035a
दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति॥ 035c
तक्षकः संहतविषो लोके यास्यति हास्यताम्। 036a
विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै॥ 036c
भविष्यति ह्युपायेन यस्य दास्यामि यातनाम्। 037a
एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने॥ 037c
संवादं पन्नगेन्द्रस्य काश्यपस्य च कस्तदा। 038a
श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम्। 038c
श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरीं मतिम्॥ 038e
मन्त्रिण ऊचुः। 039
शृणु राजन्यथास्माकं येन तत्कथितं पुरा। 039a
समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि॥ 039c
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव। 040a
विचिन्वन्पूर्वमारूढः शुष्कशाखावनस्पतौ॥ 040c
न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ। 041a
सह तेनैव वृक्षेण भस्मीभूतोऽभवन्नृप॥ 041c
द्विजप्रभावाद्राजेन्द्र व्यजीवत्स वनस्पतिः। 042a
तेनागम्य द्विजश्रेष्ठ पुंसाऽस्मासु निवेदितम्॥ 042c
यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च। 043a
एतत्ते कथितं राजन्यथादृष्टं श्रुतं च यत्। 043c
श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम्॥ 043e
सौतिरुवाच। 044
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः। 044a
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करं करे॥ 044c
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः। 045a
मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः॥ 045c
उवाच च महीपालो दुःखशोकसमन्वितः। 046a
दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि॥ 046c
मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः। 047a
अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत्॥ 047c
जनमेजय उवाच। 048
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति। 048a
निश्चितेयं मम मतिर्या च तां मे निबोधत। 048c
अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने॥ 048e
प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता। 049a
शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम्॥ 049c
इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत्। 050a
यद्यागच्छेत्स वै विप्रो ननु जीवेत्पिता मम॥ 050c
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः। 051a
काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च॥ 051c
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्। 052a
संजिजीवयिषुं प्राप्तं राजानमपराजितम्॥ 052c
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः। 053a
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति॥ 053c
उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम्। 054a
भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः॥॥ 054c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चाशत्तमोऽध्यायः॥50॥
1-50-6 अङ्गेषु बागादिषु यतं नियतं शमदमवन्तमित्यर्थः॥1-50-7 अक्षुद्रं गम्भीरं। तव पित्रा विनिकृतमपकृतम्॥1-50-20 अभिपन्नं त्रातं धऱ्षयिष्यत्यमिभविष्यति॥1-50-24 कामं काम्यमानमर्थम्॥1-50-27 द्विपदा पुस्त्राणाम्॥1-50-36 संहतविषः सम्या हतं नष्टं विषं यस्य स तथा संहृतविष इति पाठे स्पष्टोथः॥1-50-39 समागणं समागमं भावे निष्ठा॥1-50-44 करं कर निधाय प्रत्यपिंषत्॥1-50-52 मोहान्मदीयसमर्थ्याज्ञानात्॥1-50-54 अपचितिं वैरनिर्यातनम्॥ पञ्चाशत्तमोऽध्यायः॥50॥