०४९ परीक्षित्-चरित-कथनम्

अध्यायः 049 जनमेजयमन्त्रिसंवादमुखेन पुनः परीक्षिच्चरितकथनम्॥1॥

शौनक उवाच। 001
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः। 001a
पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद॥ 001c
सौतिरुवाच। 002
शृणु ब्रह्मन्यथाऽपृच्छन्मन्त्रिणो नृपतिस्तदा। 002a
यथा चाख्यातवन्तस्ते निधनं तत्परिक्षितः॥ 002c
जनमेजय उवाच। 003
जानन्ति स्म भवन्तस्तद्यथावृत्तं पितुर्मम। 003a
आसीद्यथा स निधनं गतः काले महायशाः॥ 003c
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः। 004a
कल्याणं प्रतिपत्स्यामि विपरीतं न जातुचित्॥ 004c
सौतिरुवाच। 005
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना। 005a
सर्वे धर्मविदः प्राज्ञा राजानं जनमेजयम्॥ 005c
मन्त्रिण ऊचुः। 006
शृणु पार्थिव यद्ब्रूषे पितुस्तव महात्मनः। 006a
चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः॥ 006c
धर्मात्मा च महात्मा च प्रजापालः पिता तव। 007a
आसीदिहयथा वृत्तः स महात्मा शृणुष्व तत्॥ 007c
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत। 008a
धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव॥ 008c
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः। 009a
द्वेष्टारस्तस्य नैवासन्स च द्वेष्टि न कंचन॥ 009c
समः सर्वेषु भूतेषु प्रजापतिरिवाभवत्। 010a
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु॥ 010c
स्थिताः सुमनसो राजंस्तेन राज्ञा स्वधिष्ठिताः। 011a
विधवानाथविकलान्कृपणांश्च बभार सः॥ 011c
सुदर्शः सर्वभूतानामासीत्सोम इवापरः। 012a
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः॥ 012c
धनुर्वेदे तु शिष्योऽभून्नृपः शारद्वतस्य सः। 013a
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय॥ 013c
लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः। 014a
परिक्षीणेषु कुरुषु सोत्तरायामजीजनत्॥ 014c
परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली। 015a
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्वृतः॥ 015c
जितेन्द्रियश्चात्मवांश्च मेधावी धर्मसेविता। 016a
षड्वर्गजिन्महाबुद्धिर्नीतिशास्त्रविदुत्तमः॥ 016c
प्रजा इमास्तव पिता षष्टिवर्षाण्यपालयत्। 017a
ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन्॥ 017c
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान्। 018a
इदं वर्षसहस्राणि राज्यं कुरुकुलागतम्। 018c
बाल एवाभिषिक्तस्त्वं सर्वभूतानुपालकः॥ 018e
जनमेजय उवाच। 019
नास्मिन्कुले जातु बभूव राजायो न प्रजानां प्रियकृत्प्रियश्च। 019a
विशेषतः प्रेक्ष्य पितामहानांवृत्तं महद्वृत्तपरायणानाम्॥ 019c
कथं निधनमापन्नः पिता मम तथाविधः। 020a
आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः॥ 020c
सौतिरुवाच। 021
एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम्। 021a
ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहितैषिणः॥ 021c
मन्त्रिण ऊचुः। 022
स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः। 022a
बभूव मृगयाशीलस्तव राजन्पिता सदा॥ 022c
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि। 023a
अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः॥ 023c
स कदाचिद्वनगतो मृगं विव्याध पत्रिणा। 024a
विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने॥ 024c
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान्। 025a
न चाससाद गहने मृगं नष्टं पिता तव॥ 025c
परिश्रान्तो वयस्थश्च षष्टिवर्षो जरान्वितः। 026a
क्षुधितः स महारण्ये ददर्श मुनिसत्तमम्॥ 026c
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रते स्थितम्। 027a
न च किंचिदुवाचेदं पृष्टोऽपि समुनिस्तदा॥ 027c
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम्। 028a
मौनव्रतधरं शान्तं सद्यो मन्युवशं गतः॥ 028c
न बुबोध च तं राजा मौनव्रतधरं मुनिम्। 029a
स तं क्रोधसमाविष्टो धर्षयामास ते पिता॥ 029c
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात्। 030a
तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम॥ 030c
न चोवाच स मेधावी तमथो साध्वसाधु वा। 031a
तस्थौ तथैव चाक्रुद्धः सर्पं स्कन्धेन धारयन्॥॥ 031c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनपञ्चाशत्तमोऽध्यायः॥49॥ 1-49-4 कल्याणं सर्वलोकहितं चेत्प्रतिपत्स्यामि प्रतीकारं करिष्यामि॥1-49-6 ब्रूषे पृच्छसि। निष्ठां समाप्तिम्॥1-49-11 स्वधिष्ठिताः सुष्ठुपालिताः॥1-49-13 शारद्वतस्य कृपाचार्यस्य॥1-49-14 सोत्तरायमिति पादपूरणार्थः सन्धिः। अजीजनज्जातः॥1-49-17 षष्टिवषाणि जन्मतः षष्टिपर्वपर्यन्तं न तु राज्यलाभात्॥1-49-18 वर्षसहस्राणि चिरकालमित्यर्थः। पालयितुमिति शेषः॥1-49-20 आचक्षध्वं भ्वादेराकृतिगणत्वाच्छपो न लुक्॥1-49-26 वयस्थो वृद्धः॥ एकोनपञ्चाशत्तमोऽध्यायः॥49॥