०४८ आस्तीकोत्पत्तिः

अध्यायः 048 वासुकेः तद्भगिन्याश्च संवादः॥1॥ आस्तीकोत्पत्तिः॥2॥ तन्नामनिर्वचनम्॥3॥

सौतिरुवाच। 001
गतमात्रं तु भर्तारं जरत्कारुरवेदयत्। 001a
भ्रातुः सकाशमागत्य यथातथ्यं तपोधन॥ 001c
ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम्। 002a
उवाच भगिनीं दीनां तदा दीनतरः स्वयम्॥ 002c
वासुकिरुवाच। 003
जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत्। 003a
पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि॥ 003c
स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान्। 004a
एवं पितामहः पूर्वमुक्तवांस्तु सुरैः सह॥ 004c
अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात्। 005a
न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः॥ 005c
कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम्। 006a
किंतु कार्यगरीयस्त्वात्ततस्त्वाऽहमचूचुदम्॥ 006c
दुर्वार्यतां विदित्वा च भर्तुस्तेऽतितपस्विनः। 007a
नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम्॥ 007c
आचक्ष्व भद्रे भर्तुः स्वं सर्वमेव विचेष्टितम्। 008a
उद्धरस्व च शल्यं मे घोरं हृदि चिरस्थितम्॥ 008c
जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत। 009a
आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम्॥ 009c
जरत्कारुरुवाच। 010
पृष्टो मयाऽपत्यहेतोः स महात्मा महातपाः। 010a
अस्तीत्युत्तरमुद्दिश्य ममेदं गतवांश्च सः॥ 010c
स्वैरेष्वपि न तेनाहं स्मरामि वितथं वचः। 011a
उक्तपूर्वं कुतो राजन्सांपराये स वक्ष्यति॥ 011c
न संतापस्त्वया कार्यः कार्यं प्रति भुजंगमे। 012a
उत्पत्स्यति च ते पुत्रो ज्वलनार्कसमप्रभः॥ 012c
इत्युक्त्वा स हि मां भ्रातर्गतो भर्ता तपोधनः। 013a
तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम्॥ 013c
सौतिरुवाच। 014
एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा। 014a
एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत॥ 014c
सान्त्वमानार्थदानैश्च पूजया चारुरूपया। 015a
सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः॥ 015c
ततः प्रववृधे गर्भो महातेजा महाप्रभः। 016a
यथा मोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि॥ 016c
अथ काले तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा। 017a
कुमारं देवगर्भाभं पितृमातृभयापहम्॥ 017c
ववृधे स तु तत्रैव नागराजनिवेशने। 018a
वेदांश्चाधिजगे साङ्गान्भार्गवच्यवनात्मजात्॥ 018c
चीर्णव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः। 019a
नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत॥ 019c
अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम्। 020a
वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्॥ 020c
स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान्। 021a
गृहे पन्नगराजस्य प्रयत्नात्परिरक्षितः॥ 021c
भगवानिव देवेशः शूलपाणिर्हिरण्मयः। 022a
विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत्॥॥ 022c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टचत्वारिंशोऽध्यायः॥48॥ 1-48-6 अचूचुदं कार्यसिद्धिं वक्तुं प्रेरितवान्॥1-48-10 ममेदं कार्यमुद्दिश्य अस्तीत्युत्तरं दत्तवानिति शेषः॥1-48-11 वितथं अनृतं तेन उक्तपूर्वं न स्मरामि। सांपराये संकटे॥1-48-17 प्रजज्ञे जनयामास॥1-48-22 हिरण्मयः दीप्तिमान्॥ अष्टचत्वारिंशोऽध्यायः॥48॥