अध्यायः 047 जरत्कारोरुद्वाहः॥1॥ तस्यां गर्भसंभवः॥2॥ समयोल्लङ्घनेन क्रुद्धस्य मुनेः तपोर्थं गमनम्॥3॥
सौतिरुवाच। 001
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा। 001a
सनाम्नी तव कन्येयं स्वसा मे तपसान्विता॥ 001c
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम। 002a
रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन। 002c
त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम॥ 002e
जरत्कारुरुवाच। 003
न भरिष्येऽहमेतां वै एष मे समयः कृतः। 003a
अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम्॥ 003c
सौतिरुवाच। 004
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति। 004a
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह॥ 004c
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः। 005a
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम्॥ 005c
ततो वासगृहं रम्यं पन्नगेन्द्रस्य संमतम्। 006a
जगाम भार्याम दाय स्तूयमानो महर्षिभिः॥ 006c
शयनं तत्र संक्लृप्तं स्पर्ध्यास्तरणसंवृतम्। 007a
तत्र भार्यासहायो वै जरत्कारुरुवास ह॥ 007c
स तत्र समयं चक्रे भार्यया सह सत्तमः। 008a
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन॥ 008c
त्यजेयं विप्रिये च त्वां कृते वासं च ते गृहे। 009a
एतद्गृहाण वचनं मया यत्समुदीरितम्॥ 009c
ततः परमसंविग्ना स्वसा नागपतेस्तदा। 010a
अतिदुःखान्विता वाक्यं तमुवाचैवमस्त्विति॥ 010c
तथैव सा च भर्तारं दुःखशीलमुपचारत्। 011a
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी॥ 011c
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा। 012a
भर्तारं वै यथान्यायमुपतस्थे महामुनिम्॥ 012c
तत्र तस्याः समभवद्गर्भो ज्वलनसन्निभः। 013a
अतीव तेजसा युक्तो वैश्वानरसमद्युतिः॥ 013c
शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः। 014a
ततः कतिपयाहस्तु जरत्कारुर्महायशाः॥ 014c
उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत्। 015a
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम्॥ 015c
अह्नः परिक्षये ब्रह्मंस्ततः साऽचिन्तयत्तदा। 016a
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी॥ 016c
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा। 017a
दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम्॥ 017c
कोपो वा धर्मशीलस्य धर्मलोपोऽथवा पुनः। 018a
धर्मलोपो गरीयान्वै स्यादित्यत्राकरोन्मतिम्॥ 018c
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति। 019a
धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम्॥ 019c
इति निश्चित्य मनसा जरत्कारुर्भुजंगमा। 020a
तमृषिं दीप्ततपसं शयानमनलोपमम्॥ 020c
उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी। 021a
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति॥ 021c
सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः। 022a
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः॥ 022c
सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो। 023a
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः॥ 023c
भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत्। 024a
अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे॥ 024c
समीपे ते न वत्स्यामि गमिष्यामि यथागतम्। 025a
शक्तिरस्ति न वामोरु मयि सुप्ते विभावसोः॥ 025c
अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते। 026a
न चाप्यवमतस्येह वासो रोचेत कस्यचित्॥ 026c
किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा। 027a
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्॥ 027c
अब्रवीद्भगिनी तत्र वासुकेः सन्निवेशने। 028a
नावमानात्कृतवती तवाहं विप्रे बोधनम्॥ 028c
धर्मलोपो न ते विप्र स्यादित्येतन्मया कृतम्। 029a
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः॥ 029c
ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम्। 030a
न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे॥ 030c
समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः। 031a
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे॥ 031c
इतो मयि गते भीरु गतः स भगवानिति। 032a
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि॥ 032c
इत्युक्ता साऽनवद्याङ्गी प्रत्युवाच मुनिं तदा। 033a
जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा॥ 033c
बाष्पगद्गदया वाचा मुखेन परिशुष्यता। 034a
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः॥ 034c
धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता। 035a
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्॥ 035c
धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम्। 036a
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम॥ 036c
तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः। 037a
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम॥ 037c
अपत्यमीप्सितं त्वत्तस्तच्च तावन्न दृश्यते। 038a
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्॥ 038c
संप्रयोगो भवेन्नायां मम मोघस्त्वया द्विज। 039a
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये॥ 039c
इममव्यक्तरूपं मे गर्भमाधाय सत्तम। 040a
कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम्॥ 040c
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत्। 041a
यद्युक्तमनुरूपं च जरत्कारुं तपोधनः॥ 041c
अस्त्ययं सुभगे गर्भस्तव वैश्वानरोपमः। 042a
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः॥ 042c
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः। 043a
उग्राय तपसे भूयो जगाम कृतनिश्चयः॥॥ 043c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तचत्वारिंशोऽध्यायः॥47॥
1-47-7 स्पर्ध्यं बहुमूल्यम्॥1-47-9 विप्रिये कृते त्वां तव गृहे वासं च त्यजेयम्॥1-47-11 श्वतकाकीयैः अनुकूलैः॥1-47-15 उत्सङ्गे अङ्के॥1-47-18 कोपो वा गरीयान्धर्मलोपो वा गरीयानिति कोदिद्वयमुपन्यस्य धर्मलोपमेव गुरुकरोति। कोपो वेति॥1-47-22 प्रादुष्कृतः उद्धृतः अग्निहोत्रोऽग्निः यस्मिन्सः। धर्मसाधनत्वाद्रम्यः। भूतादिप्रचाराद्दारुणः॥1-47-25 विभावसोः सूर्यस्य॥1-47-39 संप्रयोगः संबन्ध। मोघो निष्फलः॥ सप्तचत्वारिंशोऽध्यायः॥47॥