०४६ जरत्कारु-दारान्वेषणम्

अध्यायः 046 जरत्कारोः स्वपितृसंवादानन्तरं दारान्वेषणम्॥1॥

सौतिरुवाच। 001
एतच्छ्रुत्वा जरत्कारुर्भृशं शोकपरायणः। 001a
उवाच तान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा॥ 001c
जरत्कारुरुवाच। 002
मम पूर्वे भवन्तो वै पितरः सपितामहाः। 002a
तद्ब्रूत यन्मया कार्यं भवतां प्रियकाम्यया॥ 002c
अहमेव जरत्कारुः किल्बिषी भवतां सुतः। 003a
ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः॥ 003c
पितर ऊचुः। 004
पुत्र दिष्ट्याऽसि संप्राप्त इमं देशं यदृच्छया। 004a
किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः॥ 004c
जरत्कारुरुवाच। 005
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते। 005a
ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै॥ 005c
न दारान्वै करिष्येऽहमिति मे भावितं मनः। 006a
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः॥ 006c
मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः। 007a
करिष्ये वः प्रियं कामं निवेक्ष्येऽहमसंशयम्॥ 007c
सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन। 008a
भविष्यति च या काचिद्भैक्ष्यवत्स्वयमुद्यता॥ 008c
प्रतिग्रहीता तामस्मि न भरेयं च यामहम्। 009a
एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि। 009c
अन्यथा न करिष्येऽहं सत्यमेतत्पितामहाः॥ 009e
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै। 010a
शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम॥ 010c
सौतिरुवाच। 011
एवमुक्त्वा तु स पितॄंश्चचार पृथिवी मुनिः। 011a
न च स्म लभते भार्यां वृद्धोऽयमिति शानक॥ 011c
यदा निर्वेदमापन्नः पितृभिश्चोदिस्तथा। 012a
तदाऽरण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः॥ 012c
सत्वरण्यगतः प्राज्ञः पितॄणा हितकाम्यया। 013a
उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः॥ 013c
यानि भूतानि सन्तीह स्थावराणि चराणि च। 014a
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः॥ 014c
उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम्। 015a
निविशस्वेति दुःखार्ताः सन्तानस्य चिकीर्षया॥ 015c
निवेशायाखिलां भूमिं कन्याभैक्ष्यं चरामि भोः। 016a
दरिद्रो दुःखशीलश्च पितृभिः सन्नियोजितः॥ 016c
यस्य कन्याऽस्ति भूतस्य ये मयेह प्रकीर्तिताः। 017a
ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम्॥ 017c
मम कन्या सनाम्नी या भैक्ष्यवच्चोदिता भवेत्। 018a
भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत॥ 018c
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः। 019a
तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन्॥ 019c
तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलङ्कृताम्। 020a
प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः॥ 020c
तत्र तां भैक्ष्यवत्कन्यां प्रादात्तस्मै महात्मने। 021a
नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत॥ 021c
असनामेति वै मत्वा भरणे चाविचारिते। 022a
मोक्षभावे स्थितश्चापि मन्दीभूतः परिग्रहे॥ 022c
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन। 023a
वासुकिं भरणं चास्या न कुर्यामित्युवाच ह॥॥ 023c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्चत्वारिंशोऽध्यायः॥46॥ 1-46-7 निवेक्ष्ये निवेशं विवाहं करिष्ये॥1-46-9 न भरेयं धारणपोषणे न कुर्याम्॥1-46-19 जरत्कारौ जरत्कारोरन्वेषणे। समाहिताः यत्ताः॥ षट्चत्वारिंशोऽध्यायः॥46॥