०४५ जरत्कारु-पितृ-संवादः

अध्यायः 045 जरत्कारोः स्वपितॄणां दर्शनं तद्भाषणं च॥1॥

सौतिरुवाच। 001
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः। 001a
चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः॥ 001c
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः। 002a
तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह॥ 002c
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः। 003a
सं ददर्श पितॄन्गर्ते लम्बमानानधोमुखान्॥ 003c
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान्। 004a
तं तन्तुं च शनैराखुमाददानं बिलेशयम्॥ 004c
निराहारान्कृशान्दीनान्गर्ते स्वत्राणमिच्छतः। 005a
उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत॥ 005c
के भवन्तोऽवलम्बन्ते वीरमस्तम्बमाश्रिताः। 006a
दुर्बलं खादितैर्मूलैराखुना बिलवासिना॥ 006c
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्। 007a
तद्भप्ययं शनैराखुरादत्ते दशनैः शितैः॥ 007c
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव। 008a
ततस्तु पतितारोऽत्र गर्ते व्यक्तमधोमुखाः॥ 008c
अत्र मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्। 009a
कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः॥ 009c
तपसोऽस्य चतुर्थेन तृतीयेनाथ वा पुनः। 010a
अर्धेन वापि निस्तर्तुमापदं ब्रूत मा चिरम्॥ 010c
अथवापि समग्रेण तरन्तु तपसा मम। 011a
भवन्तः सर्व एवेह काममेवं विधीयताम्॥ 011c
पितर ऊचुः। 012
कुतो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छसि। 012a
न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम्॥ 012c
अस्ति नस्तात तपसः फलं प्रवदतां वर। 013a
संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ॥ 013c
सन्तानं हि परो धर्मं एवमाह पितामहः। 014a
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै॥ 014c
येन त्वां नाभिजानीमो लोके विख्यातपौरुषम्। 015a
वृद्धो भवान्महाभागोयोनः शोच्यान्सुदुःखितान्॥ 015c
शोचते चैव कारुण्याच्छृणु ये वै वयं द्विज। 016a
यायावरा नाम वयमृषयः संशितव्रताः॥ 016c
लोकात्पुम्यादिह भ्रष्टाः सन्तानप्रक्षयान्मुने। 017a
प्रणष्टं नस्तपस्तीव्रं न हि नस्तन्तुरस्ति वै॥ 017c
अस्तित्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा। 018a
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः॥ 018c
जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः। 019a
नियतात्मा महात्मा च सुव्रतः सुमहातपाः॥ 019c
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम्। 020a
न तस्य भार्या पुत्रो वा बान्धवो वाऽस्ति कश्चन॥ 020c
तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत्। 021a
स वक्तव्यस्त्वया दृष्टो ह्यस्माकं नाथवत्तया॥ 021c
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः। 022a
साधु दारान्कुरुष्वेति प्रजायस्वेति चाभि भोः॥ 022c
कुलतन्तुर्हि नः शिष्टः स एकैकस्तपोधन। 023a
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रयम्॥ 023c
एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः। 024a
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः॥ 024c
एते नस्तन्तवस्तात कालेन परिभक्षिताः। 025a
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम्॥ 025c
यत्र लम्बामहे गर्ते सोऽप्येकस्तप आस्थितः। 026a
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः॥ 026c
स तं तपोरतं मन्दं शनैः क्षपयते तुदन्। 027a
जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम्॥ 027c
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम। 028a
छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः॥ 028c
अधः प्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा। 029a
अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः॥ 029c
छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः। 030a
तपो वाऽप्यथ चा यज्ञो यच्चान्यत्पावनं महत्॥ 030c
तत्सर्वं न समं तात संतत्येति सतां मतम्। 031a
स तात दृष्ट्वा ब्रूयास्तं जरत्कारुं तपोधन॥ 031c
यथा दृष्टमिदं चात्र त्वयाऽऽख्येयमशेषतः। 032a
यथा दारान्प्रकुर्यात्स पुत्रानुत्पादयेद्यथा॥ 032c
तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया। 033a
बान्धवानां हितस्येह यथा चात्मकुलं तथा॥ 033c
कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम। 034a
श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति॥॥ 034c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चचत्वारिंशोऽध्यायः॥45॥ 1-45-5 स्वत्राणं स्वरक्षाम्॥1-45-8 पतितारः पतिष्यथा॥1-45-12 एतत् अस्मदीयं कृच्छ्रं व्यपोहितुं अपनेतुम्॥ पञ्चचत्वारिंशोऽध्यायः॥45॥