०३० वालखिल्य-रक्षा

अध्यायः 030 *भग्नशाखाया अधोभागे लम्बमानवालखिल्यरक्षणार्थं मुखेन शाखाग्रहणम् ॥ 1 ॥ कश्यपाज्ञया हिमालयं गत्वा तत्र शाखां परित्यज्य तत्रैव स्थित्वा गजकच्छपभक्षणम् ॥ 2 ॥ उत्पातान्दृष्ट्वा देवैः कृतोऽमृतरक्षणोपायः ॥ 3 ॥ सौतिरुवाच । 001
स्पष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा । 001a
अभज्यत तरोः शाखा भग्नां चैकामधारयत् ॥ 001b
तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन् । 002a
अथात्रं लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ॥ 002b
ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन् । 003a
तपोरतांल्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः ॥ 003b
हन्यादेतान्संपतन्ती शाखेत्यथ विचिन्त्य सः । 004a
नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ ॥ 004b
स तद्विनाशसंत्रासादभिपत्य स्वगाधिपः । 005a
शाखामास्येन जग्राह तेषामेवान्ववेक्षया ॥ 005b
अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः । 006a
विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे ॥ 006b
गुरुं भारं समासाद्योड्डीन एष विहङ्गमः । 007a
गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः ॥ 007b
ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन् । 008a
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः ॥ 008b
दयार्थं वालखिल्यानां न च स्थानमविन्दत । 009a
स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा ॥ 009b
ददर्श कश्यपं तत्र पितरं तपसि स्थितम् । 010a
ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् ॥ 010b
तेजोवीर्यबलोपेतं मनोमारुतरंहसम् । 011a
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् ॥ 011b
अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम् । 012a
महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम् ॥ 012b
अप्रधृष्यमजेयं च देवदानवराक्षसैः । 013a
भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम् ॥ 013b
लोकसंलोडनं घोरं कृतान्तसमदर्शनम् । 014a
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा । 014b
विदित्वा चास्यं संकल्पमिदं वचनमब्रवीत् ॥ 014c
कश्यप उवाच । 015
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् । 015a
मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः ॥ 015b
सौतिरुवाच । 016
ततः प्रसादयामास कश्यपः पुत्रकारणात् । 016a
वालखिल्यान्महाभागांस्तपसा हतकल्मषान् ॥ 016b
कश्यप उवाच । 017
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः । 017a
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥ 017b
सौतिरुवाच । 018
एवमुक्ता भगवता मुनयस्ते समभ्ययुः । 018a
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्त तपोऽर्थिनः ॥ 018b
ततस्तेष्वपयातेषु पितरं विनतासुतः । 019a
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ॥ 019b
भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम् । 020a
वर्जितं मानुषैर्देशमाख्यातु भगवान्मम ॥ 020b
सौतिरुवाच । 021
ततो निःपुरुषं शैलं हिमसंरुद्धकन्दरम् । 021a
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ॥ 021b
तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः । 022a
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥ 022b
न तां वध्री परिणहेच्छतचर्मा महातनुम् । 023a
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ॥ 023b
स ततः शतसाहस्रं योजनान्तरमागतः । 024a
कालेन नातिमहता गरुडः पतगेश्वरः ॥ 024b
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः । 025a
अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः ॥ 025b
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् । 026a
मुमोच पुष्पवर्षं च समागलितपादप ॥ 026b
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः । 027a
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥ 027b
शाखिनो बहवश्चापि शाखयाऽभिहतास्तया । 028a
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥ 028b
ते हेमविकचा भूमौ युताः पर्वतधातुभिः । 029a
व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ॥ 029b
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः । 030a
भक्षयामास गरुडस्तावुभौ गजकच्छपौ ॥ 030b
तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ । 031a
ततः पर्वतकूटाग्रादुत्पपात महाजवः ॥ 031b
प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः । 032a
इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः ॥ 032b
सधूमा न्यपतत्सार्चिर्दिवोल्का नभसश्च्युता । 033a
तथा वसूनां रुद्राणामादित्यानां च सर्वशः ॥ 033b
साध्यानां मरुतां चैव ये चान्ये देवतागणाः । 034a
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥ 034b
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च । 035a
ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः ॥ 035b
निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम् । 036a
देवानामपि यो देवः सोऽप्यवर्षत शोणितम् ॥ 036b
मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि । 037a
उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु ॥ 037b
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् । 038a
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः । 038b
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ॥ 038c
किमर्थं भगवन्घोरा उत्पाताः सहसोत्थिताः । 039a
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥ 039b
बृहस्पतिरुवाच । तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो । 040a
तपसा वालखिल्यानां महर्षीणां महात्मनाम् ॥ 040b
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः । 041a
हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृक् ॥ 041b
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः । 042a
सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत् ॥ 042b
सौतिरुवाच । 043
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः । 043a
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥ 043b
युष्मान्संबोधयाम्येष 'गृहीत्वावरणायुधान् । 044a
परिवार्यामृतं सर्वे यूयं मद्वचनादिह ॥ 044b
रक्षध्वं विबुधा वीरा' यथा न स हरेद्बलात् । 045a
अतुलं हि बलं तस्य बृहस्पतिरुवाच ह ॥ 045b
सौतिरुवाच । 046
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः । 046a
परिवार्यामृतं तस्थूर्वज्री चेन्द्रः प्रतापवान् ॥ 046b
धारयन्तो विचित्राणि काञ्चनानि मनस्विनः । 047a
कवचानि महार्हाणि वैदूर्यविकृतानि च ॥ 047b
चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च । 048a
विविधानि च शस्त्राणि घोररूपाण्यनेकशः ॥ 048b
शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमः । 049a
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः ॥ 049b
चक्राणि परघांश्चैव त्रिशूलानि परश्वधान् । 050a
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् । 050b
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ॥ 050c
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः । 051a
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ॥ 051b
अनुपमबलवीर्यतेजसोधृतमनसः परिरक्षणेऽमृतस्य । 052a
असुरपुरविदारणाः सुराज्वलनसमिद्धवपुःप्रकाशिनः ॥ 052b
इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम् । 053a
विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे ॥ ॥ 053b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥ *1-30-6 अतिदैवं देवैरपि कर्तुमशक्यम् ॥ 1-30-7 गुरुशब्दपूर्वाड्डीङ्विहायसागतावित्यस्माड्डः आदेरकारश्च पृषोदरादित्वात् गरुडशब्दो निष्पन्न इत्यर्थः ॥ 1-30-18 शाखां मुक्त्वा गिरिं समभ्ययुरिति संबन्धः ॥ 1-30-19 शाखया मुखस्थया व्याक्षिप्तं वदनं वचनक्रिया यस्य स तथा ॥ 1-30-23 शतचर्मा शतगोचर्मणा कृता । वध्री रज्जुः । न परिणहेत् परितो न बध्नीयात् ॥ 1-30-29 विकचाः हेमवदुज्ज्वलाः ॥ 1-30-33 दिवा अह्नि ॥ 1-30-36 देवानां देवः पर्जन्यः ॥ 1-30-42 अन्येषामसाध्यमप्ययं साधयेत् ॥ 1-30-48 भानुमन्ति दीप्तिमन्ति ॥ 1-30-50 स्वदेहरूपाणि स्वदेहानुरूपाणि ॥ 1-30-52 ज्वलनवत्समिद्धैर्दीप्यमानैर्वपुर्भिः प्रकाशिनः ॥ त्रिंशोऽध्यायः ॥ 30 ॥