०२९ गरुड-भक्षानुवर्तनम्

अध्यायः 029 *कण्ठं दहतो ब्राह्मणस्य विषादीसहितस्य परित्राणम् ॥ 1 ॥ गरुडस्य कश्यपेन संवादः ॥ 2 ॥ गजकच्छपपूर्ववृत्तान्तकथनम् ॥ 3 ॥ कश्यपाज्ञया गरुडस्य गजकच्छपग्रहणम् ॥ 4 ॥ रोहिणवृक्षशाखाभङ्गः ॥ 5 ॥ सौतिरुवाच । 001
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया । 001a
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ॥ 001b
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् । 002a
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥ 002b
सौतिरुवाच । 003
ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत । 003a
निषादी मम भार्येयं निर्गच्छतु मया सह ॥ 003b
गरुड उवाच । 004
एतामपि निषादीं त्वं परिगृह्याशु निष्पत । 004a
तूर्णं संभावयात्मानमजीर्णं मम तेजसा ॥ 004b
सौतिरुवाच । 005
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा । 005a
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ॥ 005b
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् । 006a
वितत्य पक्षावाकाशमुत्पपात मनोजवः ॥ 006b
ततोऽपश्यत्स्वपितरं पृष्टश्चाख्यातवान्पितुः । 007a
यथान्यायममेयात्मा तं चोवाच महानृषिः ॥ 007b
कश्यप उवाच । 008
कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत । 008a
कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु ॥ 008b
क्व गन्तास्यतिवेगेन मम त्वं वक्तुमर्हसि ॥' 008c
गरुड उवाच । 009
माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम् । 009a
न हि मे कुशलं तात भोजने बहुले सदा ॥ 009b
अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम् । 010a
मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ॥ 010b
मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह । 011a
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ॥ 011b
तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे । 012a
यद्भुक्त्वाऽमृतमाहर्तुं समर्थः स्यामहं प्रभो ॥ 012b
क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान् । 013a
कश्यप उवाच । 013
इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम् ॥ 013b
यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः । 014a
तयोर्जन्मान्तरे वैरं संप्रवक्ष्याम्यसोषतः ॥ 014b
तन्मे तत्त्वं निबोधस्व यत्प्रमाणौ च तावुभौ । 015a
शृणु त्वं वत्स भद्रं ते कथां वैराग्यवर्धिनीम् ॥ 015b
पित्रोरर्थविभागे वै समुत्पन्नां पुराण्डज ।' 016a
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् ॥ 016b
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः । 017a
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः ॥ 017b
विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः । 018a
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः ॥ 018b
विभागे बहवो दोषा भविष्यन्ति महातपः ।' 019a
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः । 019b
ततो विभक्तास्त्वन्योन्यं नाद्रियन्तेऽर्थमोहिताः ॥ 019c
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः । 020a
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ॥ 020b
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ । 021a
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ॥ 021b
तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः । 022a
एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम् ॥ 022b
एवं निर्बध्यमानस्तु शशापैनं विभावसुः।' 023a
गुरुशास्त्रेऽनिबद्धानामन्योन्येनाभिशङ्किनाम् ॥ 023b
नियन्तु न हि शक्यस्त्वं भेदतो धनमिच्छसि । 024a
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ॥ 024b
कश्यप उवाच । 025
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् । 025a
त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि ॥ 025b
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू । 026a
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ॥ 026b
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि । 027a
परस्परद्वेषरतौ प्रमाणबलदर्पितौ ॥ 027b
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ । 028a
तयोरन्यतरः श्रीमान्समुपैति महागजः ॥ 028b
यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः । 029a
उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः ॥ 029b
तं दृष्ट्वाऽऽवेष्टितकरः पतत्येष गजो जलम् । 030a
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ॥ 030b
विक्षोभयंस्ततो नागः सरो बहुझषाकुलम् । 031a
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ॥ 031b
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः । 032a
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥ 032b
तावुभौ युद्धसंमत्तौ परस्परवधैषिणौ । 033a
उपयुज्याशु कर्मेदं साधये हितमात्मनः ॥ 033b
महाभ्रघनसंकाशं तं भुक्त्वामृतमानय । 034a
महागिरिसमप्रख्यं घोररूपं च हस्तिनम् ॥ 034b
सौतिरुवाच । 025
इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा । 035a
युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम् ॥ 035b
पूर्णकुम्भो द्विजा गावो यच्चान्यत्किंचिदुत्तमम् । 036a
शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डजा ॥ 036b
युध्यमानस्य सङ्ग्रामे देवैः सार्धं महाबल । 037a
ऋचो यजूंषि सामानि पवित्राणि हवींषि च ॥ 037b
रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम् । 038a
वर्धयिष्यन्ति समरे भविष्यति खगोत्तम ।' 038b
इत्युक्तो गरुडः पित्रा गतस्तं ह्वदमन्तिकात् ॥ 038c
अपश्यन्निर्मलजलं नानापक्षिसमाकुलम् । 039a
स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः ॥ 039b
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् । 040a
समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः ॥ 040b
सोऽलम्बं तीर्थणासाद्य देववृक्षानुपागमत् । 041a
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः ॥ 041b
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः । 042a
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान् ॥ 042b
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः । 043a
काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः । 043b
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ॥ 043c
'तेषां मध्ये महानासीत्पादपः सुमनोहरः । 044a
सहस्रयोजनोत्सेधो बहुशाखासमन्वितः ॥ 044b
खगानामालयो दिव्यो नाम्ना रौहिणपादपः । 045a
यस्य छायां समाश्रित्य सद्यो भवति निर्वृतः' ॥ 045b
तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः । 046a
अतिप्रवृद्धः समुहानापतन्तं मनोजवम् ॥ 046b
रौहिण उवाच । 047
यैषा मम महाशाखा शतयोजनमायता । 047a
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ॥ 047b
सौतिरुवाच । 048
ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन् । 048a
खगोत्तमो द्रुतमभिपत्य वेगवान्बभञ्ज तामविरलपत्रसंचयाम् ॥ ॥ 048b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥ *1-29-4 संभावय संजीवय ॥ 1-29-7 ततोऽपश्यत्स्वपितरं काश्यपं दीप्ततेजसम् । तं श्रेष्ठं पततां श्रेष्ठो ब्रह्म ब्रह्मविदां वरम् । पृष्टश्च पित्रा बलवान्वैनतेयः प्रतापदान् । इति पाठान्तरम् ॥ 7 ॥ 1-29-9 भोजने बहुले मम कुशलं न हि ॥ 1-29-10 सोमं अमृतम् ॥ 1-29-14 कूर्माग्रजं कूर्मभूतं ज्येष्ठभ्रातरम् ॥ 1-29-21 अन्तरेषु छिद्रेषु ॥ 1-29-30 आवेष्टितकरः कुण्डलीकृतशुण्डादण्डः ॥ 1-29-33 उपयुज्य भुक्त्वा ॥ 1-29-38 भविष्यति समरे ॥ एकोनत्रिंशोऽध्यायः ॥ 29 ॥