०२५ काद्रव-सेवा

अध्यायः 025 *विनतया कद्रूवहनं गरुडेन सर्पवहनं च॥1॥ सूर्यातपतप्तस्वपुत्ररक्षार्थं कद्रूकृत इन्द्रस्तवः॥2॥ सौतिरुवाच। 001
ततः कामगमः पक्षी महावीर्यो महाबलः। 001a
मातुरन्तिकमागच्छत्परं पारं महोदधेः॥ 001b
यत्र सा विनता तस्मिन्पणितेन पराजिता। 002a
अतीव दुःखसंतप्ता दासीभावमुपागता॥ 002b
ततः कदाचिद्विनतां प्रणतां पुत्रसन्निधौ। 003a
काले चाहूय वचनं कद्रूरिदमभाषत॥ 003b
नागानामालयं भद्रे सुरम्यं चारुदर्शनम्। 004a
समुद्रकुक्षावेकान्ते तत्र मां विनते नय॥ 004b
सौतिरुवाच। 005
ततः सुपर्णमाता तामवहत्सर्पमातरम्। 005a
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः॥ 005b
स सूर्यमभितो याति वैनतेयो विहंगमः। 006a
सूर्यरश्मिप्रतप्ताश्च मूर्च्छिताः पन्नगाऽभवन्॥ 006b
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्। 007a
नमस्ते सर्वदेवेश नमस्ते बलसूदन॥ 007b
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते। 008a
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव॥ 008b
त्वमेव परमं त्राणमस्माकममरोत्तम। 009a
ईशो असि पयः स्रष्टुं त्वमनल्पं पुरंदर॥ 009b
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे। 010a
त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम्॥ 010b
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः। 011a
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः॥ 011b
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः। 012a
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः॥ 012b
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्। 013a
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः॥ 013b
त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः। 014a
शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा। 014b
संवत्सरर्तवो मासा रजन्यश्च दिनानि च॥ 014c
त्वमुत्तमा सगिरिवना वसुंधरा सभास्करं वितिमिरमम्बरं तथा। 015a
मदोदधिः सतिमितिमिङ्गिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः॥ 015b
महायशास्त्वमिति सदाऽभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः। 016a
अभिष्टुतः पिबसि च सोममध्वरे कषट्कृतान्यपि च हवींषि भूतये॥ 016b
त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च। 017a
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः॥॥ 017b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चविंशोऽध्यायः॥25॥ *1-25-6 अभितः संमुखम्॥1-25-14 बहुलः कृष्णपक्षः॥ पञ्चविंशोऽध्यायः॥25॥