०२४ अरुण-नियोगः

अध्यायः 024 राहुणा कृतोपद्रवस्य सूर्यस्य क्रोधः॥1॥ ब्रह्माज्ञयाऽरुणस्य सूर्यसारथ्यकरणम्॥2॥ सौतिरुवाच। 001
स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्। 001a
शरीरप्रतिसंहारमात्मनः संप्रचक्रमे॥ 001b
सुपर्ण उवाच। 002
न मे सर्वाणि भूतानि विभियुर्देहदर्शनात्। 002a
भीमरूपात्समुद्विग्रास्तस्मात्तेजस्तु संहरे॥ 002b
सौतिरुवाच। 003
ततः कामगमः पक्षी कामवीर्यो विहंगमः। 003a
अरुणं चात्मनः पृष्ठमारोप्य स पितुर्गृहात्॥ 003b
मातुरन्तिकमागच्छत्परं तीरं महोदधेः। 004a
तत्रारुणश्च निक्षिप्तो पुरोदेशे महाद्युतेः॥ 004b
सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा। 005a
रुरुरुवाच। 005
किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा॥ 005b
किमस्यापहृतं देवैर्येनेमं मन्युराविशत्। 006a
प्रमतिरुवाच। 006
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिबन्॥ 006b
वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदाऽनघ। 007a
बाध्यमानं ग्रहेणाथ ह्यादित्यं मन्युराविशत्॥ 007b
सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति। 008a
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्॥ 008b
सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते। 009a
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः॥ 009b
तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः। 010a
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्॥ 010b
तस्माल्लोकविनाशाय संतापयत भास्करः। 011a
ततो देवानुपागम्य प्रोचुरेवं महर्षयः॥ 011b
अद्यार्धरात्रसमये सर्वलोकभयावहः। 012a
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः॥ 012b
ततो देवाः सर्षिगणा उपगम्य पितामहम्। 013a
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्॥ 013b
न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च। 014a
उदिते भगवन्भानौ कथनेतद्भविष्यति॥ 014b
पितामह उवाच। 015
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः। 015a
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति॥ 015b
तस्य प्रतिविधानं च विहितं पूर्वमेव हि। 016a
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः॥ 016b
महाकायो महातेजाः स स्थास्यति पुरो रवेः। 017a
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति॥ 017b
लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्। 018a
प्रमतिरुवाच। 018
ततः पितामहाज्ञातः सर्वं चक्रे तदाऽरुणः॥ 018b
उदितश्चैव सविता ह्यरुणेन समावृतः। 019a
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्॥ 019b
अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः। 020a
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्॥॥ 020b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुर्विंशोऽध्यायः॥24॥ *1-24-2 समुद्विग्नाः समुद्विग्नानि॥1-24-7 चन्द्रादित्यौ प्रतीति शेषः॥1-24-12 किमुत सूर्ये उदिते इति शेषः॥ चतुर्विंशोऽध्यायः॥24॥