०२३ गरुडोत्पत्तिः

अध्यायः 023 *गरुडोत्पत्तिः॥1॥ देवकृतस्तुत्या गरुडकृतं स्वतेजस्संहरणम्॥2॥ सौतिरुवाच। तं समुद्रमतिक्रम्य कद्रूर्विनतया सह। 001a
न्यपतत्तुरगाभ्याशे न चिरादिव शीघ्रगा॥ 001b
ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम्। 002a
शशाङ्ककिरणप्रख्यं कालवालमुभे तदा॥ 002b
निशाम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान्। 003a
विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत्॥ 003b
ततः सा विनता तस्मिन्पणितेन पराजिता। 004a
अभवद्दुःखसंतप्ता दासीभावं समास्थिता॥ 004b
एतस्मिन्नन्तरे चापि गरुडः काल आगते। 005a
विना मात्रा महातेजा विदार्याण्डमजायत॥ 005b
महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः। 006a
कामरूपः कामगमः कामवीर्यो विहंगमः॥ 006b
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः। 007a
विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः॥ 007b
प्रवृद्धः सहसा पक्षी महाकायो नभोगतः। 008a
घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः॥ 008b
तं दृष्ट्वा शरणं जग्मुर्देवाः सर्वे विभावसुम्। 009a
प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम्॥ 009b
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि। 010a
असौ हि राशिः सुमहान्समिद्धस्तव सर्पति॥ 010b
अग्निरुवाच। नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः। 011a
गरुडो बलवानेष मम तुल्यश्च तेजसा॥ 011b
जातः परमतेजस्वी विनतानन्दवर्धनः। 012a
तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत्॥ 012b
नागक्षयकरश्चै काश्यपेयो महाबलः। 013a
देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम्॥ 013b
न भीः कार्या कथं चात्र पश्यध्वं सहिता मया। 014a
सौतिरुवाच। एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन्॥ 014b
ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा। 015a
देवा ऊचुः। त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः॥ 015b
त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः। 016a
त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः॥ 016b
त्वं मुखं पद्मजो विप्रस्त्वमग्निः पवनस्तथा। 017a
त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः॥ 017b
त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः। 018a
त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्॥ 018b
'त्वं गतिः सततं त्वत्तः कथं नः प्राप्नुयाद्भयम्।' 019a
बलोर्मिमान्साधुरदीनसत्त्वः समृद्धिमान्दुर्विषहस्त्वमेव। 019b
त्वत्तः सृतं सर्वमहीनकीर्ते ह्यनागतं चोपगतं च सर्वम्॥ 019c
त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे। 020a
समाक्षिपन्भानुमतः प्रभां मुहुस्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम्॥ 020b
दिवाकरः परिकुपितो यथा दहेत्प्रजास्तथा दहसि हुताशनप्रभ। 021a
भयंकरः प्रलय इवाग्निरुत्थितो विनाशयन्युगपरिवर्तनान्तकृत्॥ 021b
खगेश्वरं शरणमुपागता वयं महौजसं ज्वलनसमानवर्चसम्। 022a
तडित्प्रभं वितिमिरमभ्रगोचरं महाबलं गरुडमुपेत्य खेचरम्॥ 022b
परावरं वरदमजय्यविक्रमं तवौजस सर्वमिदं प्रतापितम्। 023a
जगत्प्रभो तप्तसुवर्णवर्चसा त्वं पाहि सर्वांश्च सुरान्महात्मनः॥ 023b
भयान्विता नभसि विमानगामिनो विमानिता विपथगतिं प्रयान्ति ते। 024a
ऋषेः सुतस्त्वमसि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह॥ 024b
स मा क्रुधः कुरु जगतो दयां परां त्वमीश्वरः प्रशममुपैहि पाहि नः। 025a
महाशनिस्फुरितसमस्वनेन ते दिशोऽम्बरं त्रिदिवमियं च मेदिनी॥ 025b
चलन्ति नः खग हृदयानि चानिशं निगृह्यतां वपुरिदमग्निसन्निभम्। 026a
तव द्युतिं कुपितकृतान्तसन्निभां निशाम्य नश्चलति मनोऽव्यवस्थितम्। 026b
प्रसीद नः पतगपते प्रयाचतां शिवश्च नो भव भगवन्सुखावहः॥ 026c
सौतिरुवाच। एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा। 027a
तेजसः प्रतिसंहारमात्मनः स चकार ह॥॥ 027b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रयोविंशोऽध्यायः॥23॥ *1-23-2 शशाङ्ककिरणवत्प्रख्या दीप्तिर्यस्य तं तादृशमपि कालवालं कृष्णकेशम्॥1-23-8 और्वो वडवाग्निः॥1-23-9 विभावसुं अग्निम्॥1-23-10 अग्ने मात्वमिति देवानां भ्रमवर्णनं अग्निगरुडयोरति सादृश्यकथनार्थम्॥1-23-25 चलन्तीत्युत्तरादपकृष्यते॥1-23-26 निगृत्यतां संक्षिप्यताम्॥ त्रयोविंशोऽध्यायः॥23॥