अध्यायः 022
सर्पौर्मातृवचनादुच्चैःश्रवःपुच्छवेष्टनम्॥1॥
सौतिरुवाच। 001
नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः। 001a
निःस्नेहा वै दहेन्माता असंप्राप्तमनोरथा॥ 001b
प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी। 002a
कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः॥ 002b
इति निश्चित्य ते तस्य कृष्णा वाला इव स्थिताः। 003a
एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा॥ 003b
ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम। 004a
जग्मतुः परया प्रीत्या परं पारं महोदधेः॥ 004b
कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा। 005a
आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम्॥ 005b
वायुनाऽतीव सहसा क्षोभ्यमाणं महास्वनम्। 006a
तिमिंगिलसमाकीर्णं मकरैरावृतं तथा॥ 006b
संयुतं बहुसाहस्रैः सत्वैर्नानाविधैरपि। 007a
घोरर्घोरमनाधृष्यं गम्भीरमतिभैरवम्॥ 007b
आकरं सर्वरत्नानामालयं वरुणस्य च। 008a
नागानामालयं चापि सुरम्यं सरितां पतिम्॥ 008b
पातालज्वलनावासमसुराणां तथालयम्। 009a
भयंकराणां सत्त्वानां पयसो निधिमव्ययम्॥ 009b
शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम्। 010a
अप्रमेयमचिन्त्यं च सुपुण्यजलसंमितम्॥ 010b
महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः। 011a
आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः॥ 011b
इत्येवं तरलतरोर्मिसंकुलं ते गम्भीरं विकसितमम्बरप्रकाशम्। 012a
पातालज्वलनशिखाविदीपिताङ्गं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते॥॥ 012b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि द्वाविंशोऽध्यायः॥22॥
*1-22-1 संविदं मिथ आलोचनम्॥1-22-3 पणिते पणं कृत वत्यौ॥3॥ द्वाविंशोऽध्यायः॥22॥