अध्यायः 021
*उच्चैःश्रवसो दर्शार्थं कद्रूविनतयोर्गमनम्॥1॥
सौतिरुवाच। 001
ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ। 001a
कद्रूश्च विनता चैव भगिन्यौ ते तपोधन॥ 001b
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा। 002a
सागरस्य परं पारं वेलावनविभूषितम्।' 002b
जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात्॥ 002c
ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम्। 003a
महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्॥ 003b
तिमिंगिलझषाकीर्णं मकरैरावृतं तथा। 004a
सत्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्॥ 004b
भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा। 005a
उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्॥ 005b
आकरं सर्वरत्नानामालयं वरुणस्य च। 006a
नागानामालयं रम्यमुत्तमं सरितां पतिम्॥ 006b
पातालज्वलनावासमसुराणां च बान्धवम्। 007a
भयंकरं च सत्त्वानां पयसां निधिमर्णवम्॥ 007b
शुभं दिव्यममर्त्यानाममृतस्याकरं परम्। 008a
अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्॥ 008b
घोरं जलचरारावरौद्रं भैरवनिःस्वनम्। 009a
गम्भीरावर्तकलिलं सर्वभूतभयंकरम्॥ 009b
वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम्। 010a
वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः॥ 010b
चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिसमाकुलम्। 011a
पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्॥ 011b
गां विन्दता भगवता गोविन्देनामितौजसा। 012a
वराहरूपिणा चान्तर्विक्षोभितजलाविलम्॥ 012b
ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा। 013a
अनासादितगाधं च पातालतलमव्ययम्॥ 013b
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः। 014a
युगादिकालशयनं विष्णोरमिततेजसः॥ 014b
वज्रपातनसंत्रस्तमैनाकस्याभयप्रदम्। 015a
डिम्बाहवार्दितानां च असुराणां परायणम्॥ 015b
बडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम्। 016a
अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्॥ 016b
महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः। 017a
अभिसार्यमाणमनिशं ददृशाते महार्णवम्। 017b
आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः॥ 017c
गम्भीरं तिमिमकरोग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः। 018a
विस्तीर्णं ददृशतुरम्बरप्रकाशंतेऽगाधंनिधिमुरुमम्भसामनन्तम्॥ 018b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकविंशतितमोऽध्यायः॥21॥ *1-21-3 क्षोभ्यमाणं मकरादिभिः॥1-21-7 पातालज्वलनो बडवाग्निः॥1-21-12 गां पृथ्वीं विन्दता लम्बमानेन॥1-21-15 डिम्बो भयवतामाक्रन्दस्तद्वति आहवे॥1-21-18 ते कद्रूविनते॥ एकविंशतितमोऽध्यायः॥21॥