अध्यायः 020
*कद्रूविनतयोः पणबन्धः॥1॥ सर्पाणां कद्रूशापः॥2॥ ब्रह्मणा कश्यपाय विषहरविद्यादानं॥3॥
सौतिरुवाच। 001
एतत्ते कथितं सर्वममृतं मथितं यथा। 001a
यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः॥ 001b
तं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत्। 002a
उच्चैःश्रवा हि किंवर्णो भद्रे प्रब्रूहि मा चिरम्॥ 002b
विनतोवाच। 003
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे। 003a
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे॥ 003b
कद्रूरुवाच। 004
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते। 004a
एहि सार्धं मया दीव्य दासीभावाय भामिनि॥ 004b
सौतिरुवाच। 005
एवं ते समयं कृत्वा दासीभावाय वै मिथः। 005a
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह॥ 005b
ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती। 006a
आज्ञापयामास तदा वाला भूत्वाऽञ्जनप्रभाः॥ 006b
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा। 007a
नावपद्यन्त ये वाक्यं ताञ्शशाप भुजंगमान्॥ 007b
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति। 008a
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः॥ 008b
शापमेनं तु शुश्राव स्वयमेव पितामहः। 009a
अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि॥ 009b
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत। 010a
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया॥ 010b
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः। 011a
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च॥ 011b
युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्। 012a
अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये॥ 012b
तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते। 013a
एवं संभाष्य देवस्तु पूज्य कद्रूं च तां तदा॥ 013b
आहूय कश्यपं देव इदं वचनमब्रवीत्। 014a
यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ॥ 014b
विषोल्बणा महाभोगा मात्रा शप्ताः परंतप। 015a
तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन॥ 015b
दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्। 016a
इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम्। 016b
प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने॥ 016c
एवं शप्तेषु नागेषु कद्र्वातु द्विजसत्तम। 017a
अद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकोऽब्रवीत्॥ 017b
मातरं परमप्रीतस्तथा भुजगसत्तमः। 018a
आविश्य वाजिनं मुख्यं बालो भूत्वाञ्जनप्रभः॥ 018b
दर्शयिष्यामि तत्राहमात्मानं काममाश्वस। 019a
एवमस्त्विति सा पुत्रं प्रत्युवाच यशस्विनी'॥॥ 019b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकर्पणि विंशोऽध्यायः॥20॥
*1-20-3 विपणावहे पणं कुर्वहे॥1-20-6 जिह्मं कौटिल्यं। वालाः लोमानि॥1-20-7 नावपद्यन्त नानुमोदितवन्तः॥ विंशोऽध्यायः॥20॥