०१९ दैत्य-पराजयः

अध्यायः 019 देवानाममृतपानं॥1॥ देवरूपेणामृतं पिबतो राहोः शिरश्छेदनं॥2॥ देवदैत्ययोर्युद्धं। तत्र दैत्यपराजयः॥3॥ सौतिरुवाच। अथावरणमुख्यानि नानाप्रहरणानि च। 001a
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः॥ 001b
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्। 002a
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः॥ 002b
ततो देवगणाः सर्वे पपुस्तदमृतं तदा। 003a
विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति॥ 003b
पाययत्यमृतं देवान्हरौ बाहुबलान्नरः। 004a
निरोधयति चापेन दूरीकृत्य धनुर्धरान्। 004b
ये येऽमृतं पिबन्ति स्म ते ते युद्ध्यन्ति दानवैः;'॥ 004c
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्। 005a
राहुर्विबुधरूपेण दानवः प्रापिबत्तदा॥ 005b
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा। 006a
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया॥ 006b
ततो भगवता तस्य शिरश्छिन्नमलंकृतम्। 007a
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा॥ 007b
तच्छैलशृह्गप्रतिमं दानवस्य शिरो महत्। 008a
चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम्॥' 008b
चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्। 009a
तत्कबन्धं पपातास्य विस्फुरद्धरणीतले॥ 009b
त्रयोदश सहस्राणि चतुरश्रं समन्ततः। 010a
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्॥ 010b
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै। 011a
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ॥ 011b
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः। 012a
नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत्॥ 012b
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः। 013a
सुराणामसुराणां च सर्वघोरतरो महान्॥ 013b
प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः। 014a
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च॥ 014b
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु। 015a
असिशक्तिगदारुग्णा निपेतुर्धरणीतले॥ 015b
छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः। 016a
तप्तकाञ्चनमालीनि निपेतुरनिशं तदा॥ 016b
रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः। 017a
अद्रीणामिव कूटानि धातुरक्तानि शेरते॥ 017b
हाहाकारः समभवत्तत्र तत्र सहस्रशः। 018a
अन्योन्यंछिन्दतां शस्त्रैरादित्ये लोहितायति॥ 018b
परिंघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः। 019a
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्॥ 019b
छिन्धिभिन्धि प्रधाव त्वं पातयाभिसरेति च। 020a
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः॥ 020b
एवं सुतुमुले युद्धे वर्तमाने महाभये। 021a
नरनारायणौ देवौ समाजग्मतुराहवम्॥ 021b
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि। 022a
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्॥ 022b
ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम्। 023a
विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम्॥ 023b
तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः। 024a
मुमोच वै प्रबलवदुग्रवेगवान्महाप्रभं परनगरावदारणम्॥ 024b
तदन्तकज्वलनसमानवर्चसं पुनःपुनर्न्यपतत वेगवत्तदा। 025a
विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे॥ 025b
दहत्क्वचिज्ज्वलन इवावलेलिहत्प्रसह्य तानसुरगणान्न्यकृन्तत। 026a
प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत्॥ 026b
तथाऽसुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमार्दयंस्तदा। 027a
महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्यह॥ 027b
अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः। 028a
महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः॥ 028b
ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः। 029a
परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसंप्रवर्तिते॥ 029b
नरस्ततो वरकनकाग्रभूषणैर्महेषुभिर्गगनपथं समावृणोत्। 030a
विदारयन्गिरिशिखराणि पत्रिभिर्महाभयेऽसुरगणविग्रहे तदा॥ 030b
ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः। 031a
वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य ते॥ 031b
ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः। 032a
विनाद्य खं दिवमपि चैव सर्वशस्ततो गताः सलिलधरा यथागतम्॥ 032b
ततोऽमृतं सुनिहितमेव चक्रिरे सुराः पुरां मुदमभिगम्य पुष्कलाम्। 033a
ददो च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह॥॥ 033b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनविंशोऽध्यायः॥19॥ *1-19-1 आवरणमुख्यानि कवचाग्र्याणि॥1-19-3 संभ्रमे उभयेषाममृतादरे सति। सङ्ग्रामे इति पाठान्तरं॥1-19-26 प्रवेरितं प्रेरितं॥1-19-27 विगलितमेघाः रिक्तमेघाः॥1-19-32 सलिलधराः अमृतभृतो देवाः॥1-19-33 किरीटिने नराय॥ एकोनविंशोऽध्यायः॥19॥