०१८ अमृतोद्भवः

अध्यायः 018 *मोहितैर्दैत्यैर्मोहिन्या अमृतकलशदानम्॥1॥ सौतिरुवाच। 001
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्। 001a
मन्दरं पर्वतवरं लताजालसमाकुलम्॥ 001b
नानाविहंगसंघुष्टं नानादंष्ट्रिसमाकुलम्। 002a
किंनरैरप्सरोभिश्च देवैरपि च सेवितम्॥ 002b
एकादश सहस्राणि योजनानां समुच्छ्रितम्। 003a
अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्॥ 003b
तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा। 004a
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्॥ 004b
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्। 005a
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः॥ 005b
सौतिरुवाच। 006
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव। 006a
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः॥ 006b
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः। 007a
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्॥ 007b
अथ पर्वतराजानं तमनन्तो महाबलः। 008a
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्॥ 008b
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे। 009a
तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम्॥ 009b
अपांपतिरथोवाच ममाप्यंशो भवेत्ततः। 010a
सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति॥ 010b
ऊचुश्च कूर्मराजानमकूपारे सुरासुराः। 011a
अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति॥ 011b
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्। 012a
तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत्॥ 012b
मन्थानं मन्दरं कृत्वा तथा योक्रं च वासुकिम्। 013a
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्। 013b
अमृतार्थे पुरा ब्रह्मंस्तथैवासुरदानवाः॥ 014a
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः॥ 014b
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः। 015a
अनन्तो भगवान्देवो यतो नारायणः स्थितः॥ 015b
वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः'। 016a
शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन्॥ 016b
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः। 017a
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्॥ 017b
वासुकेर्मथ्यमानस्य निःसृतेन विषेण च। 018a
अभवन्मिश्रितं तोयं तदा भार्गवनन्दन॥ 018b
मथनान्मन्दरेणाथ देवदानवबाहुभिः। 019a
विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्॥ 019b
देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह। 020a
अपाक्रामंस्ततो भीता विषादमगमंस्तदा॥ 020b
ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः। 021a
मथ्यमानेऽमृते जातं विषं कालानलप्रभम्॥ 021b
तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह। 022a
एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम्॥ 022b
त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम्। 023a
तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ॥ 023b
तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः। 024a
तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया॥ 024b
अपिबत्तद्विषं रुद्रः कालानलसमप्रभम्। 025a
कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया॥ 025b
यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः। 026a
पीतमात्रे विषे तत्र रुद्रेणामिततेजसा॥ 026b
देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा। 027a
मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः॥ 027b
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः। 028a
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्॥' 028b
ते धूमसङ्घाः संभूता मेघसङ्घाः सविद्युतः। 029a
अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान्॥ 029b
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः। 030a
सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्॥ 030b
बभूवात्र महान्नादो महामेघरवोपमः। 031a
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः॥ 031b
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा। 032a
विलयं समुपाजग्मुः शतशो लवणाम्भसि॥ 032b
वारुणानि च भूतानि विविधानि महीधरः। 033a
पातालतलवासीनि विलयं समुपानयत्॥ 033b
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्। 034a
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः॥ 034b
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः। 035a
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्॥ 035b
ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान्। 036a
विगतासूनि सर्वाणि सत्त्वानि विविधानि च॥ 036b
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः। 037a
वारिणा मेघजेनेन्द्रः शमयामास सर्वशः॥ 037b
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि। 038a
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः॥ 038b
तेषाममृतवीर्याणां रसानां पयसैव च। 039a
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात्॥ 039b
ततस्तस्य समुद्रस्य तञ्जातमुदकं पयः। 040a
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम्॥ 040b
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्। 041a
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्॥ 041b
ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः। 042a
चिरारब्धमिदं चापि सागरस्यापि मन्थनम्॥ 042b
ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम्। 043a
सौतिरुवाच। 043
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः'॥ 043b
ततो नारायणं देवं वचनं चेदमब्रवीत्। 044a
विधत्स्वैषां बलं विष्णो भवानत्र परायणम्॥ 044b
विष्णुरुवाच। 045
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः। 045a
क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम्॥ 045b
सौतिरुवाच। 046
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः। 046a
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्॥ 046b
तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः। 047a
प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता। 047b
कृष्णरूपधरा देवी सर्वाभरणभूषिता॥' 047c
ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात्। 048a
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः॥ 048b
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी। 049a
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा॥ 049b
कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः। 050a
मरीचिविकचः श्रीमान्नारायणउरोगतः॥ 050b
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः। 051a
पारिजातश्च तत्रैव सुरभिश्च महामुने। 051b
जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ॥ 051c
ततो जज्ञे महाकायश्चतुर्दन्तो महागजः। 052a
कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः।' 052b
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः॥ 052c
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत। 053a
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति॥ 053b
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः। 054a
अमृतार्थे महान्नादो ममेदमिति जल्पताम्॥ 054b
ततो नारायणो मायां मोहिनीं समुपाश्रितः। 055a
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः॥ 055b
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः। 056a
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः॥ 056b
सा तु नारायणी माया धारयन्ती कमण्डलुम्। 057a
आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः॥ 057b
देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः॥॥ 058ab
इति श्रीमन्महाबारते आदिपर्वणि आस्तीकपर्वणि अष्टादशोऽध्यायः॥18॥ *1-18-11 अकूपारे समुद्रसमीपे। अधिष्ठानं आधारः॥1-18-12 कूर्मेण तु तथेत्युक्ते पृष्ठे त्वस्य समर्पितः। सशैलस्तस्य चाग्रं वै वज्रेणेन्द्रोऽभ्यपीडयत्। इति पाठान्तरं॥1-18-13 योक्त्रं मन्थनरज्जुम्॥1-18-14 एकमन्तं एकं प्रदेशं मुखभागम्॥1-18-33 वारुणानि वरुणलोकस्थानि आप्यांशप्रधानशरीराणि॥1-18-40 लवणाम्भसि कुतो दुग्धमित्यत आह। तत इति। ततः तेषां निःस्रवं प्राप्य। समुद्रस्य तत्क्षारं उदकं पयः क्षीरं जातम्॥1-18-50 मरीचिविकचः रश्मिभिरुज्ज्वलः। नारायणउरोगत इत्यसन्धिरार्षः॥1-18-55 अभिसंश्रितः संमुखः स्थितः मोहनार्थमिति शेषः॥ अष्टादशोऽध्यायः॥18॥