०१७ अमृत-मथन-विचारः

अध्यायः 017 अमृतमथनविषये भगवदाज्ञया देवानां विचारः॥1॥ सौतिरुवाच। 001
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन। 001a
अपश्यतां समायान्तमुच्चैः श्रवसमन्तिकात्॥ 001b
यं तु देवगणाः सर्वे हृष्टरूपमपूजयन्। 002a
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥ 002b
अमोघबलमश्वानामुत्तमं जविनां वरम्। 003a
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥ 003b
शौनक उवाच। 004
कथं तदमृतं देवैर्मथितं क्व च शंस मे। 004a
कारणं चात्र मथने संजातममृतात्परम्॥' 004b
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥ 004c
सौतिरुवाच। 005
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्। 005a
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः॥ 005b
कनकाभरणं चित्रं देवगन्धर्वसेवितम्। 006a
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥ 006b
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्। 007a
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥ 007b
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्। 008a
नानापतगसङ्घैश्च नादितं सुमनोहरैः॥ 008b
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्। 009a
अनन्तकल्पमद्वन्द्वं सुराः सर्वे महौजसः॥ 009b
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः। 010a
अमृताय समागम्य तपोनियमसंयुताः॥ 010b
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्। 011a
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥ 011b
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः। 012a
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥ 012b
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह। 013a
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः॥॥ 013b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तदशोऽध्यायः॥17॥ *1-17-9 अनन्तकल्पं अनन्तो विष्णुराकाशो वा तत ईषन्न्यूनम्॥1-17-13 वेत्स्यध्वं लप्स्यध्वम्॥ सप्तदशोऽध्यायः॥17॥