०१६ काश्यपोद्भवः

अध्यायः 016 आस्तीकाख्यानविस्तरः॥1॥ कद्रूविनतयोः कश्यपाद्वरलाभः॥2॥ कद्र्वाः सर्पोत्पत्तिर्विनताया अरुणोत्पत्तिश्च॥3॥ शौनक उवाच। सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः। 001a
आस्तीकस्य कवेःसाधोः शुश्रूषा परमा हि नः॥ 001b
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया। 002a
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥ 002b
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव। 003a
आचष्टैतद्यथाऽऽख्यानं पिता ते त्वं तथा वद॥ 003b
सौतिरुवाच। 004
आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते। 004a
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥ 004b
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे। 005a
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ॥ 005b
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह। 006a
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥ 006b
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः। 007a
वरातिसर्गं श्रुत्वैवं कश्यपादुत्तमं च ते॥ 007b
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ। 008a
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥ 008b
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले। 009a
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥ 009b
तस्यै भर्ता वरं प्रादादीदृशौ ते भविष्यतः। 010a
एवमस्त्विति तं चाह कश्यपं विनता तदा॥ 010b
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा। 011a
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ॥ 011b
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्। 012a
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः॥ 012b
ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत्। 013a
सौतुरिवाच। कालेन महता कद्रूरण्डानां दशतीर्दश॥ 013b
जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा। 014a
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः॥ 014b
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च। 015a
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः॥ 015b
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत। 016a
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी॥ 016b
अण्डं बिभेद विनता तत्र पुत्रमपश्यत। 017a
पूर्वार्धकायसंपन्नमितरेणाप्रकाशता॥ 017b
स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः। 018a
योऽहमेवं कृतो मातस्त्वया लोभपरीतया॥ 018b
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि। 019a
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह॥ 019b
एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति। 020a
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्॥ 020b
न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्। 021a
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया॥ 021b
विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः। 022a
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः॥ 022b
अरुणोऽदृश्यत ब्रह्मन्प्रभातसमये तदा। 023a
उद्यन्नथ सहस्रांशुर्दृष्ट्वा तमरुणं प्रभुः॥ 023b
स्वतेजसा प्रज्वलन्तमात्मनः समतेजसम्। 024a
सारथ्ये कल्पयामास प्रीयमाणस्तमोनुदः॥ 024b
सोऽपि तं रथमारुह्य भानोरमिततेजसः। 025a
सर्वलोकप्रदीपस्य ह्यमरोऽप्यरुणोऽभवत्॥' 025b
गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः। 026a
स जातमात्रो विनतां परित्यज्य खमाविशत्॥ 026b
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्। 027a
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥॥ 027b
इति श्रीमन्महाभारते आदिपर्वाणि आस्तीकपर्वणि षोडशोऽध्यायः॥16॥ *1-16-15 सोपस्वेदेषु ऊष्मवत्सु॥ षोडशोऽध्यायः॥16॥