अध्यायः 015
*आस्तीकोत्पत्तिः॥1॥ संक्षेपेण सर्पमोचनवृत्तान्तश्च॥2॥
सौतिरुवाच। 001
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर। 001a
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः॥ 001b
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः। 002a
स्वसारमृषये तस्मै सुव्रताय महात्मने॥ 002b
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा। 003a
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः॥ 003b
तपस्वी च महात्मा च वेदवेदाङ्गपारगः। 004a
समः सर्वस्य लोकस्य पितृमातृभयापहः॥ 004b
अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः। 005a
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः॥ 005b
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै। 006a
मोचयामास ताञ्शापादास्तीकः सुमहातपाः॥ 006b
भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान्। 007a
पितॄंश्च तारयामास संतत्या तपसा तथा॥ 007b
व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्। 008a
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः॥ 008b
ऋषींश्च ब्रह्मचर्येम सन्तत्या च पितामहान्। 009a
अपहृत्य गुरं भारं पितॄणां संशितव्रतः॥ 009b
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः। 010a
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः॥ 010b
जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्। 011a
एतदाख्यानमास्तीकं यथावत्कथितं मया। 011b
प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते॥॥ 011c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चदशोऽध्यायः॥15॥