अध्यायः 014
वासुकिभगिन्या जरत्कारोर्विवाहः॥1॥
सौतिरुवाच।
ततो निवेशाय तदा स विप्रः संशितव्रतः। 001a
महीं चचार दारार्थी न च दारानविन्दत॥ 001b
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्। 002a
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव॥ 002b
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा। 003a
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्॥ 003b
सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि। 004a
मनो निविष्टमभवज्जरत्कारोर्महात्मनः॥ 004b
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः। 005a
किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम॥ 005b
वासुकिरुवाच। 006
जरत्कारो जरत्कारुः स्वसेयमनुजा मम। 006a
प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम्। 006b
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम॥ 006c
सौतिरुवाच। 007
एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्। 007a
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा॥॥ 007b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुर्दशोऽध्यायः॥14॥
*1-14-1 निवेशाय दारसंग्रहाय॥ चतुर्दशोऽध्यायः॥14॥