०१३ जरत्कारु-पितृ-संवादः

अध्यायः 013 (अथास्तीकपर्व॥5॥) आस्तीकजरत्कार्वोराख्यानं॥1॥ जरत्कारोस्तत्पितॄणां च संवादः॥2॥ शौनक उवाच। किमर्थं राजशार्दूलः स राजा जनमेजयः। 001a
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे॥ 001b
निखिलेन यथातत्त्वं सौते सर्वमशेषतः। 002a
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः॥ 002b
मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः। 003a
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्॥ 003b
स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे। 004a
सौतिरुवाच। महदाक्यानमास्तीकं यथैतत्प्रोच्यते द्विज॥ 004b
सर्वमेतदशेषेण शृणु मे वदतां वर। 005a
शौनक उवाच। श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्॥ 005b
आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः। 006a
सौतिरुवाच। इतिहासमिमं विप्राः पुराणं परिचक्षते॥ 006b
कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु। 007a
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः॥ 007b
शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान्। 008a
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्॥ 008b
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते। 009a
कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्॥ 009b
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः। 010a
ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा॥ 010b
जरत्कारुरिति ख्यात ऊर्ध्वरेता महातपाः। 011a
यायावराणां प्रवरो धर्मज्ञः संशितव्रतः॥ 011b
स कदाचिन्महाभागस्तपोबलसमन्वितः। 012a
चचार पृथिवीं सर्वां यत्रसायंगृहो मुनिः॥ 012b
तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः। 013a
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः॥ 013b
वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः। 014a
इतस्ततः परिचरन्दीप्तपावकसप्रभः॥ 014b
अटमानः कदाचित्स्वान्स ददर्श पितामहान्। 015a
लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान्॥ 015b
तानब्रवीत्स दृष्ट्वै जरत्कारुः पितामहान्। 016a
के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः॥ 016b
वीरणस्तम्भके लग्नाः सर्वतः परिभक्षिते। 017a
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना॥ 017b
पितर ऊचुः। यायावरा नाम वयमृषयः संशितव्रताः। 018a
संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्॥ 018b
अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः। 019a
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः॥ 019b
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति। 020a
तेन लम्बामहे गर्ते संतानस्य क्षयादिह॥ 020b
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा। 021a
येषां तु संततिर्नास्ति मर्त्यलोके सुखावहा॥ 021b
न ते लभन्ते वसतिं स्वर्गे पुण्यकृतोऽपि हि।' 022a
कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम॥ 022b
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः। 023a
किमर्थं चैव नः शोच्याननुशोचसि सत्तम॥ 023b
जरत्कारुरुवाच। मम पूर्वे भवन्तो वै पितरः सपितामहाः। 024a
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्॥ 024b
पितर ऊचुः। यतस्व यत्नवांस्तात संतानाय कुलस्य नः। 025a
आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो॥ 025b
न हि धर्मफलैस्तात न तपोऽभिः सुसंचितैः। 026a
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै॥ 026b
तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु। 027a
पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्॥ 027b
जरत्कारुरुवाच। न दारान्वै करिष्येऽहं न धनं जीवितार्थतः। 028a
भवतां तु हितार्थाय करिष्ये दारसंग्रहम्॥ 028b
समयेन च कर्ताऽहमनेन विधिपूर्वकम्। 029a
तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम्॥ 029b
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः। 030a
भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः॥ 030b
दरिद्राय हि मे भार्यां को दास्यति विशेषतः। 031a
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति॥ 031b
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः। 032a
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा॥ 032b
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै। 033a
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम॥॥ 033b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रयोदशोऽध्यायः॥13॥ *1-13-11 यायावराणां ग्रामैकरात्रवासिनां गृहस्थानां॥1-13-12 यत्रैव सायंकालस्तत्रैव गृहमस्येति यत्रसायंगृहः॥1-13-30 उपयंस्येपरिणेष्ये॥ त्रयोदशोऽध्यायः॥13॥