०१२ सर्प-सत्र-प्रस्तावः

अध्यायः 012 *जनमेजयसर्पसत्रप्रस्तावः॥1॥ रुरुरुवाच। कथं हिंसितवान्सर्पान्स राजा जनमेजयः। 001a
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥ 001b
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता। 002a
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥ 002b
ऋषिरुवाच। 003
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्। 003a
ब्राह्मणानां कथयतां त्वरावान्गमने ह्यहम्॥ 003b
सौतिरुवाच। 004
'इत्युक्त्वान्तर्हिते योगात्तस्मिन्नृषिवरे प्रभौ। 004a
संभ्रमाविष्टहृदयो रुरुर्मेने तदद्भुतम्॥' 004b
बलं परममास्थाय पर्यधावत्समन्ततः। 005a
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥ 005b
स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत्। 006a
तदृषेर्वचनं तथ्यं चिन्तयानः पुनःपुनः॥ 006b
लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा। 007a
पित्रे तु सर्वमाख्याय डुण्डुभस्य वचोऽर्थवत्॥ 007b
अपृच्छत्पितरं भूयः सोस्तीकस्य वचस्तदा। 008a
आख्यापयत्तदाऽऽख्यानं डुण्डुभेनाथ कीर्तितम्॥ 008b
तत्कीर्त्यमानं भगवञ्श्रोतुमिच्छामि तत्त्वतः।' 009a
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥॥ 009b
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि द्वादशोऽध्यायः॥12॥ ॥समाप्तं पौलोमपर्व॥ *1-12-5 नष्टं अन्तर्हितं॥ द्वादशोऽध्यायः॥12॥