अध्यायः 011
*डुण्डुभचरितम्॥1॥
डुण्डुभ उवाच।
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः। 001a
भृशं संशितवाक्तात तपोबलसमन्वितः॥ 001b
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजंगमम्। 002a
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै॥ 002b
लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः। 003a
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥ 003b
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया। 004a
तथावीर्यो भुजंगस्त्वं मम शापाद्भविष्यसि॥ 004b
तस्याहं तपसो वीर्यं जानन्नासं तपोधन। 005a
भृशमुद्विग्नहृदयस्तमवोचमहं तदा॥ 005b
प्रणतः संभ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः। 006a
सखेति हसतेदं ते नर्मार्थं वै कृतं मया॥ 006b
क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम्। 007a
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्॥ 007b
मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः। 008a
नानृतं वै मया प्रोक्तं भवितेदं कथंचन॥ 008b
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन। 009a
श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदाऽनघ॥ 009b
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः। 010a
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव। 010b
एवमुक्तस्तु तेनाहमुरगत्वमवाप्तवान्॥' 010c
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च। 011a
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्॥ 011b
सौतिरुवाच। 012
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा। 012a
स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः॥ 012b
इदं चोवाच वचनं रुरुमप्रतिमौजसम्। 013a
अहिंसा परमो धर्मः सर्वप्राणभृतां वर॥ 013b
तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित्। 014a
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः॥ 014b
वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः। 015a
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्॥ 015b
ब्राह्मणस्य परो धर्मो वेदानां धारणापि च। 016a
क्षत्रियस्य हि यो धर्मः स नेहेष्येत वै तव॥ 016b
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्। 017a
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो॥ 017b
जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा। 018a
परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि॥ 018b
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्। 019a
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम॥॥ 019b
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि एकादशोऽध्यायः॥11॥
*1-11-1 संशितवाक् तीक्ष्णवचनः॥1-11-2 तार्णं तृणमयम्॥1-11-14 सौम्यः अतीक्ष्णस्वभावः॥1-11-18 परित्राणं दृष्टमिति शेषः॥ एकादशोऽध्यायः॥11॥