अध्यायः 010
*रुरुडुण्डुभसंवादः ॥ 1 ॥
रुरुरुवाच ।
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह । 001a
तत्र मे समयो घोर आत्मनोरग वै कृतः ॥ 001c
भुजंगं वै सदा हन्यां यं यं पश्येयमित्युत । 002a
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे ॥ 002c
डुण्डुभ उवाच । 003
अन्ये ते भुजगा ब्रह्मन्ये दश्न्तीह मानवान् । 003a
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ॥ 003c
एकानर्थान्पृथग्धर्मानेकदुःखान्पृथक्सुखान् । 004a
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ॥ 004a
सौतिरुवाच । 005
इति श्रुत्वा वचस्तस्य डुण्डुभस्य रुरुस्तदा । 005a
नावधीद्भयसंविग्नमृषिं मत्त्वाऽथ डुण्डुभम् ॥ 005a
उवाच चैनं भगवान्रुरुः संशमयन्निव । 006a
केन त्वं भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥ 006a
डुण्डुभ उवाच । 007
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् । 007a
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥ 007a
रुरुरुवाच । 008
किमर्थं शप्तवान्कुद्धो द्विजस्त्वां भुजगोत्तम । 008a
कियन्तं चैव कालं ते वपुरेतद्भविष्यसि ॥ ॥ 008a
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि दशमोऽध्यायः ॥ 10 ॥
*1-10-3 अहिगन्धेन सर्पसादृश्यमात्रेण ॥ 1-10-4 एकानर्थान् एकः समानः अनर्थः जनकर्तृकहिंसादिरूपो येषां तान् । पृथक् सर्पजात्युचितप्राणहरणादिविलक्षणो धर्मो लक्षणं येषां ते । एकं तुल्यं बिलेशयत्वादिरूपं दुःखं येषां तान् । पृथक् हविर्भागादिभ्यो भिन्नं भेकभक्षणादि सुखं येषां तान् । धर्मवित् कृतापराधस्यैव दण्डो नत्वन्यस्येति धर्मस्तज्ज्ञः ॥ दशमोऽध्यायः ॥ 10 ॥