००८ प्रमद्वरा-सर्पदंशः

अध्यायः 008

*रुरुचरितं ॥ 1 ॥ मेनकात्मजायाः प्रमद्वरायाः रुरुणा सह विवाहप्रसङ्गः ॥ 2 ॥ प्रमद्वरायाः सर्पदंशेन रुरोर्दुःखम् ॥ 3 ॥ सौतिरुवाच । स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् । 001a
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ॥ 001b
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् । 002a
रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ॥ 002b
शुनकस्तु महासत्वः सर्वभार्गवनन्दनः । 003a
जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः ॥ 003b
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः । 004a
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ॥ 004b
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः । 005a
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ॥ 005b
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् । 006a
गन्धर्वराजो विप्रर्षे विश्वावसुरिति स्मृतः ॥ 006b
अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन । 007a
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ॥ 007b
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा । 008a
अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा ॥ 008b
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया । 009a
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः ॥ 009b
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् । 010a
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः ॥ 010b
जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च । 011a
ववृधे सा वरारोहा तस्याश्रमपदे शुभे ॥ 011b
जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम् । 012a
स्थूलकेशो महाभागश्चकार सुमहानृषिः ॥ 012b
प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता । 013a
ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ॥ 013b
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् । 014a
बभूव किल धर्मात्मा मदनोपहतस्तदा ॥ 014b
पितरं सखिभिः सोऽथ श्रावयामास भार्गवम् । 015a
प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम् ॥ 015b
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् । 016a
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ॥ 016b
ततः कतिपयाहस्य विवाहे समुपस्थिते । 017a

सखीभिः क्रीडती सार्धं सा कन्यावरवर्णिनी ॥ 017b
नापश्यत्संप्रसुप्तं वै भुजंगं तिर्यगायतम् । 018a
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ॥ 018b
स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा । 019a
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ॥ 019b
सा दष्टा तेन सर्पेण पपात सहसा भुवि । 020a
विवर्णा विगतश्रीका भ्रष्टाभरणचेतना ॥ 020b
निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा । 021a
व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाऽभवत् ॥ 021b
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता । 022a
भूयो मनोहरतरा बभूव तनुमध्यमा ॥ 022b
ददर्श तां पिता चैव ये चैवान्ये तपस्विनः । 023a
विचेष्टमानां पतितां भूतले पद्मवर्चसम् ॥ 023b
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः । 024a
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ॥ 024b
उद्दालकः कठश्चैव श्वेतश्चैव महायशाः । 025a
भरद्वाजः कौणकुत्स्य आर्ष्टिषेणोऽथ गौतमः ॥ 025b
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः । 026a
तां ते कन्यां व्यसुं दृष्ट्वा भुजंगस्य विषार्दिताम् ॥ 026b
रुरुदुः कृपयाऽविष्टा रुरुस्त्वार्तो बहिर्ययौ । 027a
ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा ॥ ॥ 027b

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि अष्टमोऽध्यायः ॥ 8 ॥

*1-8-3 शुनकस्तु शौनकस्त्वमिति पाठान्तरम् ॥ 1-8-6 प्रजज्ञिवान् उत्पादितवान् ॥ 1-8-17 कतिपयाहस्य कतिपयाहस्सु इति पाठान्तरं । कतिपयाहस्सु गतेष्वित्यर्थः ॥ 1-8-19 कालधर्मणा मृत्युना ॥ अष्टमोऽध्यायः ॥ 8 ॥