स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे॥
स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः॥
समागच्छत राजानमुत्तङ्को जनमेजयम्॥
पुरा तक्षशिलातस्तं निवृत्तमपराजितम्॥
सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्॥
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः॥
उवाचैनं वचः काले शब्दसम्पन्नया गिरा॥
अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम॥
बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम॥
एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह॥
जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम्॥
आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि॥
प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम्॥
स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः॥
उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत्॥
तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता॥
तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने॥
कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः॥
तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः॥
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना॥
पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः॥
बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः॥
अकार्यं कृतवान्पापो योऽदशत्पितरं तव॥
राजर्षिवंशगोप्तारममरप्रतिमं नृपम्॥
जघान काश्यपं चैव न्यवर्तयत पापकृत्॥
दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने॥
सर्पसत्रे महाराज त्वयि तद्धि विधीयते॥
एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि॥
मम प्रियं च सुमहत्कृतं राजन्भविष्यति॥
कर्मणः पृथिवीपाल मम येन दुरात्मना॥
विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ॥
एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह॥
उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा॥
अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः॥
उत्तङ्कस्यैव सान्निध्ये पितुः स्वर्गगतिं प्रति॥
तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत्॥
यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा॥