०२ उत्तङ्क-शिक्षा

स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास॥
“भो उत्तङ्क यत्किञ्चिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमि"ति॥
स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम॥
अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म॥

स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः॥
“उपाध्यायिनी ते ऋतुमती॥
उपाध्यायश्च प्रोषितः॥
अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम्॥ एतद्विषीदती"ति॥
स एवमुक्तस्ताः स्त्रियः प्रत्युवाच॥
“न मया स्त्रीणां वचनादिदमकार्यं कार्यम्॥
न ह्यहमुपाध्यायेन सन्दिष्टः॥
अकार्यमपि त्वया कार्यमि"ति॥

गुरुदक्षिणाकथनम्

तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात्॥
स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत्॥
उवाच चैनम्॥
“वत्सोत्तङ्क किं ते प्रियं करवाणी"ति॥
“धर्मतो हि शुश्रूषितोऽस्मि भवता॥
तेन प्रीतिः परस्परेण नौ संवृद्धा॥
तदनुजाने भवन्तम्॥
सर्वामेव सिद्धिं प्राप्स्यसि॥
गम्यतामि"ति॥
स एवमुक्तः प्रत्युवाच॥
“किं ते प्रियं करवाणी"ति॥
एवं ह्याहुः॥
“यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति॥
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति॥
सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमि"ति॥
तेनैवमुक्त उपाध्यायः प्रत्युवाच॥
“वत्सोत्तङ्क उष्यतां तावदि"ति॥
स कदाचित्तमुपाध्यायमाहोत्तङ्कः॥
“आज्ञापयतु भवान्॥
किं ते प्रियमुपहरामि गुर्वर्थमि"ति॥
तमुपाध्यायः प्रत्युवाच॥
“वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति॥
तद्गच्छ॥
एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति॥
एषा यद्ब्रवीति तदुपहरस्वे"ति॥
स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत्॥
“भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम्॥
तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम्॥
तदाज्ञापयतु भवती॥
किमुपहरामि गुर्वर्थमि"ति॥
सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच॥
गच्छ पौष्यं राजानम्॥
“भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले॥
ते आनयस्व॥
इतश्चतुर्थेऽहनि पुण्यकं भविता॥
ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि॥
शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व॥
श्रेयो हि ते स्यात्क्षणं कुर्वत” इति॥

स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः॥
स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव॥
स पुरुष उत्तङ्कमभ्यभाषत॥
“उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वे"ति॥
स एवमुक्तो नैच्छत्॥
तमाह पुरुषो भूयः॥
“भक्षयस्वोत्तङ्क॥
मा विचारय॥
उपाध्यायेनापि ते भक्षितं पूर्वमि"ति॥
स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः सम्भ्रमाढुत्थित एवापोऽनुस्पृश्य प्रतस्थे यत्र स क्षत्रियः पौष्यः॥

तमुपेत्यापश्यदुत्तङ्क आसीनम्॥
स तमुपेत्याशीर्भिरभिनन्द्योवाच॥
“अर्थी भवन्तमुपगतोऽस्मी"ति॥
स एनमभिवाद्योवाच॥
“भगवन्पौष्यः खल्वहम्॥
किं करवाणी"ति॥
तमुवाचोत्तङ्कः॥
“गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हती"ति॥
तं पौष्यः प्रत्युवाच॥
“प्रविश्यान्तःपुरं क्षत्रिया याच्यतामि"ति॥

स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत्॥
स पौष्यं पुनरुवाच॥
“न युक्तं भवता वयमनृतेनोपचरितुम्॥
न हि ते क्षत्रियान्तःपुरे सन्निहिता॥
नैनां पश्यामी"ति॥
स एवमुक्तः पौष्यस्तं प्रत्युवाच॥
“सम्प्रति भवानुच्छिष्टः॥
स्मर तावत्॥
न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम्॥
पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैती"ति॥
अथैवमुक्त उत्तङ्कः स्मृत्वोवाच॥
“अस्ति खलु मयोत्थितेनोपस्पृष्टं शीघ्रं गच्छता चे"ति॥
तं पौष्यः प्रत्युवाच॥
“एतत्तदेवं हि॥
न गच्छतोपस्पृष्टं भवति न स्थितेने"ति॥

अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य
सुप्रक्षालितपाणिपादवदनो
ऽशब्दाभिर् हृदयङ्गमाभिरद्भिरुपस्पृश्य
त्रिः पीत्वा द्विः परिमृज्य
+++(इन्द्रियाणि)+++ स्वान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत्॥
सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच॥
“स्वागतं ते भगवन्॥
आज्ञापय किं करवाणी"ति॥
स तामुवाच॥
“एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसी"ति॥
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत्॥
आह चैनम्॥
“एते कुण्डले तक्षको नागराजः प्रार्थयति॥
अप्रमत्तो नेतुमर्हसी"ति॥
स एवमुक्तस्तां क्षत्रियां प्रत्युवाच॥
“भवति सुनिर्वृता भव॥
न मां शक्तस्तक्षको नागराजो धर्षयितुमि"ति॥
स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत्॥

पौष्यश्राद्धम्

स तं दृष्ट्वोवाच॥
“भोः पौष्य प्रीतोऽस्मी"ति॥
तं पौष्यः प्रत्युवाच॥
“भगवंश्चिरस्य पात्रमासाद्यते॥
भवांश्च गुणवानतिथिः॥
तत्करिष्ये श्राद्धम्॥
क्षणः क्रियतामि"ति॥
तमुत्तङ्कः प्रत्युवाच॥
“कृतक्षण एवास्मि॥
शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवते"ति॥
स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास॥
अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच॥
“यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसी"ति॥
तं पौष्यः प्रत्युवाच॥
“यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसी"ति॥

तमुत्तङ्कः प्रत्युवाच॥ “न युक्तं भवताऽन्नमशुचि दत्त्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु॥”
सोऽथ पौष्यस् तस्याशुचिभावम् अन्नस्यागमयामास॥
अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास॥
“भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च॥
तत्क्षामये भवन्तम्॥
न भवेयमन्ध” इति॥

तमुत्तङ्कः प्रत्युवाच॥
न मृषा ब्रवीमि॥
“भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसी"ति॥
“ममापि शापो न भवेद्भवता दत्त” इति॥
तं पौष्यः प्रत्युवाच॥
“नाहं शक्तः शापं प्रत्यादातुम्॥
न हि मे मन्युरद्याप्युपशमं गच्छति॥
किं चैतद्भवता न ज्ञायते यथा॥
नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः॥
विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम्॥
इति॥
तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम्॥
गम्यतामि"ति॥

तमुत्तङ्कः प्रत्युवाच॥
“भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः॥
प्राक्च तेऽभिहितम्॥
यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति॥
दुष्टे चान्ने नैष मम शापो भविष्यती"ति॥
“साधयामस्तावदि"त्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा॥

तक्षकानुसरणम्

सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च॥
अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे॥
एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत्॥
तमुत्तङ्कोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात्॥
तमुत्तङ्कोऽभिसृहीत्य जग्राह॥
गृहीतमात्रस् स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश॥
प्रविश्य च नागलोकं स्वभवनमगच्छत्॥

अथोत्तङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत्॥
स तद्बिलं दण्डकाष्ठेन चखान न चाशकत्॥
तं क्लिश्यमानमिन्द्रोऽपश्यत्, स वज्रं प्रेषयामास॥
गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति॥
अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्बिलमदारयत्॥

तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन॥
प्रविश्य च नागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसङ्कुलमुच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत्।

नागस्तुतिः

नागानस्तुवदेभिः श्लोकैः॥

य ऐरावतराजानः सर्पाः समितिशोभनाः । 134c
क्षरन्त इव जीमूताः सविद्युत्पवनेरिताः ॥ 134e
सुरूपा बहुरूपाश्च तथा कल्माषकुण्डलाः । 135a
आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ॥ 135c
बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे । 136a
तत्रस्थानपि संस्तौमि महतः पन्नगानहम् ॥ 136c
इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना । 137a
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः ॥ 137c
सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदैजति । 138a
ये चैनमुपसर्पन्ति ये च दूरपथं गताः ॥ 138c
अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः । 139a
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्पुरा ॥ 139c
तं नागराजमस्तौषं कुण्डलार्थाय तक्षकम् । 140a
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ ॥ 140c
कुरुक्षेत्रं च वसतां नदीमिक्षुमतीमनु । 141a
जघन्यजस्तक्षकस्य श्रुतसेनेति यः सुतः ॥ 141c
अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् । 142a
करवाणि सदा चाहं नमस्तस्मै महात्मने ॥ 142c

सौतिरुवाच । 143
एवं स्तुत्वा स विप्रर्षिरुत्तङ्को भुजगोत्तमान् । 143a
नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत् ॥ 143c

पुरन्दरस्तुतिः

एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभद्
अथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ॥
तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः॥
चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम्॥
पुरुषं चापश्यद्दर्शनीयम्॥
स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः॥
“त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्॥
चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति॥
तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ॥
कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव॥
वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता॥
कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके॥
यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः॥
नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरन्दराय॥”

ततः स एनं पुरुषः प्राह॥
प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण॥
“किं ते प्रियं करवाणीति॥”
स तमुवाच॥
“नागा मे वशमीयुरि"ति॥
स एनं पुरुषः पुनरुवाच॥
“एतमश्वमपाने धमस्वे"ति॥
स तमश्वमपानेऽधमत्॥
अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः॥
ताभिर्नागलोको धूपितः॥
अथ ससम्भ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच॥
“एते कुण्डले प्रतिगृह्णातु भवानि"ति॥
स ते प्रतिजग्राहोत्तङ्कः॥

कुण्डलार्पणम्

कुण्डले प्रतिगृह्याचिन्तयत्॥
“अद्य तत्पुण्यकमुपाध्यायिन्याः॥
दूरं चाहमभ्यागतः॥
कथं नु खलु सम्भावयेयमि"ति॥
तत एनं चिन्तयानमेव स पुरुष उवाच॥
उत्तङ्क एनमश्वमधिरोह॥
एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति॥
स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम्॥
उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे॥
अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत्॥
ते चास्यै कुण्डले प्रायच्छत्॥
सा चैनं प्रत्युवाच॥
“उत्तङ्क देशे कालेऽभ्यागतः॥
स्वागतं ते वत्स॥
मनागसि मया न शप्तः॥
श्रेयस्तवोपस्थितम्॥
सिद्धिमाप्नुहीति॥”

वेदस्पष्टीकरणम्

अथोत्तङ्क उपाध्यायमभ्यवादयत्॥
तमुपाध्यायः प्रत्युवाच॥
वत्सोत्तङ्क स्वागतं ते॥
“किं चिरं कृतमि"ति॥
तमुत्तङ्क उपाध्यायं प्रत्युवाच॥
“भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि॥
तेनास्मि नागलोकं नीतः॥
तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ॥
तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः॥
किं तत्॥
तत्र च मया चक्रं दृष्टं द्वादशारम्॥
षट्चैनं कुमाराः परिवर्तयन्ति॥
तदपि किम्॥
पुरुषश्चापि मया दृष्टः॥
स पुनः कः॥
अश्वश्चातिप्रमाणयुक्तः॥
स चापि कः॥
पथि गच्छता मया ऋषभो दृष्टः॥
तं च पुरुषोऽधिरूढः॥
तेनास्मि सोपचारमुक्तः॥
उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय॥
उपाध्यायेनापि ते भक्षितमिति॥
ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम्॥
तदिच्छामि भवतोपदिष्टं किं तदि"ति॥

तेनैवमुक्त उपाध्यायः प्रत्युवाच॥
“ये ते स्त्रियौ धाता विधाता च॥
ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी॥
यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम्॥
यः पुरुषः स पर्जन्यः॥
योऽश्वः सोऽग्निः॥
य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः॥
यश्चैनमधिरूढः स इन्द्रः॥
यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम्॥
तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने॥
स चापि मम सखा इन्द्रः॥
तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि॥
तत्सौम्य गम्यताम्॥
अनुजाने भवन्तम्॥
श्रेयोऽवाप्स्यसी"ति॥