एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः॥
तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति॥ 021A
आरुणिकथा
स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास॥
“गच्छ केदारखण्डं बधाने"ति॥
स उपाध्यायेन सन्दिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत्॥
स क्लिश्यमानोऽपश्यदुपायम्॥
“भवत्वेवं करिष्यामी"ति॥
स तत्र संविवेश केदारखण्डे॥
शयाने तस्मिंस्तदुदकं तस्थौ॥
ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत्॥
“क्व आरुणिः पाञ्चाल्यो गत” इति॥
ते प्रत्यूचुः॥
“भगवतैव प्रेषितो गच्छ केदारखण्डं बधाने"ति॥
स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच॥
“तस्मात्सर्वे तत्र गच्छामो यत्र स” इति॥
स तत्र गत्वा तस्याह्वानाय शब्दं चकार॥
“भो आरुणे पाञ्चाल्य क्वासि॥ वत्सैही"ति॥
स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे॥
प्रोवाच चैनम्॥
“अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो, भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं, भवन्तमुपस्थितः॥ तदभिवादये भगवन्तम्॥ आज्ञापयतु भवान्॥ किं करवाणीति॥”
तमुपाध्यायोऽब्रवीत्॥
“यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यती"ति॥
स उपाध्यायेनानुगृहीतः॥
“यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसी"ति॥
“सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणी"ति॥
स एवमुक्त उपाध्यायेनेष्टं देशं जगाम॥
उपन्युकथा
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम॥
तमुपाध्यायः प्रेषयामास॥
“वत्सोपमन्यो गा रक्षस्वेति॥”
स उपाध्यायवचनादरक्षद्गाः॥
स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥
तमुपाध्यायः पीवानमपश्यत्॥
उवाच चैनम्॥
“वत्सोपमन्यो केन वृत्तिं कल्पयसि॥
पीवानसि दृढमि"ति॥
स उपाध्यायं प्रत्युवाच॥
“भैक्षेण वृत्तिं कल्पयामी"ति॥
तमुपाध्यायः प्रत्युवाच॥
“ममानिवेद्य भैक्षं नोपयोक्तव्यमि"ति॥
स तथेत्युक्तो भैक्ष्यं चरित्वोणध्यायन्यवेदयत्॥
स तस्मादुपाध्यायः सर्वमेव भैक्ष्यमगृह्णात्॥
स तथेत्युक्त्वा पुनररक्षद्गाः॥
रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच॥
“वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि॥
केनेदानीं वृत्तिं कल्पयसी"ति॥
स एवमुक्त उपाध्यायेन प्रत्युवाच॥
“भगवते निवेद्य पूर्वमपरं चरामि॥
तेन वृत्तिं कल्पयामी"ति॥
तमुपाध्यायः प्रत्युवाच॥
“नैषा न्याय्या गुरुवृत्तिः॥
अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः॥
लुब्धोऽसी"ति॥
स तथेत्युक्त्वा गा अरक्षत्॥
रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच॥
“अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि॥
पीवानसि॥
केन वृत्तिं कल्पयसी"ति॥
स उपाध्यायं प्रत्युवाच॥
“भो एतासां गवां पयसा वृत्तिं कल्पयामी"ति॥
तमुपाध्यायः प्रत्युवाच॥
“नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमि"ति॥
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे॥
तमुपाध्यायः पीवानमेवापश्यत्॥
उवाच चैनम्॥
“भैक्षं नाश्नासि न चान्यच्चरसि॥ पयो न पिबसि॥ पीवानसि॥ केन वृत्तिं कल्पयसीति॥”
स एवमुक्त उपाध्यायं प्रत्युवाच॥
“भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनं पिबन्त उद्गिरन्ती"ति॥
तमुपाध्यायः प्रत्युवाच॥
“एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति॥
तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः॥
फेनमपि भवान्न पातुमर्हती"ति॥
स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत्॥
तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति॥
पयो न पिबति॥
फेनं नोपयुङ्क्ते॥
स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत्॥
स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत्॥
सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत्॥
अथ तस्मिन्ननागच्छत्युपाध्यायः सूर्ये चास्ताचलावलम्बिनि शिष्यानवोचत्॥
“मयोपमन्युः सर्वतः प्रतिषिद्धः॥
स नियतं कुपितः॥
ततो नागच्छति चिरगतश्चे"ति॥
स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे॥
“भो उपमन्यो क्वासि॥ वत्सैही"ति॥
स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः॥
“अयमस्मि भो उपाध्याय कूपे पतित” इति॥
तमुपाध्यायः प्रत्युवाच॥
“कथमसि कूपे पतित” इति॥
स तं प्रत्युवाच॥
“अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि॥
अतः कूपे पतित” इति॥
तमुपाध्यायः प्रत्युवाच॥
“अश्विनौ स्तुहि॥
तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजावि"ति॥
अश्विनस्तुतिः
स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः॥
प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ॥
दिव्यौ सुपर्णौ विरजौ विमाना;वधिक्षियन्तौ भुवनानि विश्वा॥
हिरण्मयौ शकुनी साम्परायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ॥
शुक्रं वयन्तौ तरसा सुवेमा;वभि व्ययन्तावसितं विवस्वत्॥
ग्रस्तां सुपर्णस्य बलेन वर्तिका;ममुञ्चतामश्विनौ सौभगाय॥
तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन्॥
षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति॥
नानागोष्ठा विहिता एकदोहना;स्तावश्विनौ दुहतो घर्ममुक्थ्यम्॥
एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः॥
अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी॥
एकं चक्रं वर्तते द्वादशारं प्रधि;षण्णाभिमेकाक्षममृतस्य धारणम्॥
यस्मिन्देवा अधि विश्वे विषक्ता;स्तावश्विनौ मुञ्चतो मा विषीदतम्॥
अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी॥
भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य॥
युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति॥
तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति॥
युवां वर्णान्विकुरुथो विश्वरूपां;स्तेऽधिक्षियन्ति भुवनानि विश्वा॥
ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति॥
तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य॥
तौ नासत्यावमृतावृतावृधा;वृते देवास्तत्प्रपदेन सूते॥
मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते॥
सद्यो जातो मातरमत्ति गर्भ;स्तावश्विनौ मुञ्चथो जीवसे गाः॥
स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः पथि सम्प्रमोहः॥
दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये॥
सौतिरुवाच॥
एवं तेनाभिष्टुतावश्विनावाजग्मतुः॥ आहतुश्चैनम्॥
“प्रीतौ स्वः॥ एष तेऽपूपः॥ अशानैनमि"ति॥
स एवमुक्तः प्रत्युवाच॥
“नानृतमूचतुर्भवन्तौ॥ न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव” इति॥
ततस्तमश्विनावूचतुः॥
“आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः॥
उपयुक्तश्च स तेनानिवेद्य गुरवे॥
त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेने"ति॥
स एवमुक्तः पुनरेव प्रत्युवाचैतौ॥
“प्रत्यनुनये भवन्तावश्विनौ॥
नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमि"ति॥
तमश्विनावाहतुः॥
“प्रीतौ स्वस्तवानया गुरुवृत्त्या॥
उपाध्यायस्य ते कार्ष्णायसा दन्ताः॥
भवतो हिरण्मया भविष्यन्ति॥
चक्षुष्मांश्च भविष्यसि॥
श्रेयश्चावाप्स्यसी"ति॥
स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे॥
स चास्य प्रीतिमानभूत्॥
आह चैनम्॥
“यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति॥
सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणी"ति॥
एषा तस्यापि परीक्षोपमन्योः॥
वेदशिक्षणम्
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम॥
तमुपाध्यायः सन्दिदेश॥
वत्स वेद इहास्यताम्॥
“भवता मद्गृहे कञ्चित्कालं शुश्रूषमाणेन भवितव्यम्॥
श्रेयस्ते भविष्यती"ति॥
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत्॥
गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः॥
तस्य महता कालेन गुरुः परितोषं जगाम॥
तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप॥
एषा तस्यापि परीक्षा वेदस्य॥
स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत॥
तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः॥
स शिष्यान्न किञ्चिदुवाच॥
कर्म वा क्रियतां गुरुशुश्रूषा वेति॥
दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष॥
अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः॥