(अथ पौष्यपर्व ॥ 3 ॥)
जनमेजयं प्रति सरमाख्यदवेशुनीशापः ॥ 1 ॥ शापनिवारणार्थमृषेः सोमश्रवसः पौरोहित्येन वरणम् ॥ 2 ॥ आरुण्युपमन्युबैदाख्यानां धौम्यशिष्याणामुपाख्यानम् ॥ 3 ॥ बैदशिष्यस्योत्तङ्कस्योपाख्यानम् ॥ 4 ॥ पौष्यस्य राज्ञ उपाख्यानम् ॥ 5 ॥
पाठः
सरमाशापः
सौतिरुवाच । 001
जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते । 001A
तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति । 001B
तेषु तत्सत्रमुपासीनेष्वभ्यागच्छत्सारमेयः ॥ 001C
जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् ॥ 002A
तं माता रोरूयमाणमुवाच । 003A
किं रोदिषि केनास्यभिहत इति ॥ 003B
स एवमुक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति ॥ 004A
तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति ॥ 005A
स तां पुनरुवाच नापराध्यामि किंचिन्नावेक्षे हवींषि नावलिह इति ॥ 006A
तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते ॥ 007A
स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किंचिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति ॥ 008A
न किंचिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति॥ 009A
जनमेजय एवमुक्तो देवशुन्या सरमया भृशं संभ्रान्तो विषण्णश्चासीत् ॥ 010A
सोमश्रवोवरणम्
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति ॥ 011A
स कदाचिन्मृगयां गतः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषय आश्रममपश्यत् ॥ 012A
तत्र कश्चिदृपिरासाञ्चक्रे श्रुतश्रवा नाम । 013A
तस्य तपस्यभिरतः पुत्र आस्ते सोमश्रवा नाम ॥ 013B
तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे ॥ 014A
स नमस्कृत्य तमृषिमुवाच भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति ॥ 015A
स एवमुक्तः प्रत्युवाच जनमेजयं भो जनमेजय पुत्रोऽयं मम सर्प्यां जातो महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ जातः ॥ 016A
समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् ॥ 017A
अस्य त्वेकमुपांशुव्रतं यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयं यद्येतदुत्सहसे ततो नयस्वैनमिति ॥ 018A
तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच भगवंस्तत्तथा भविष्यतीति ॥ 019A
स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच मयाऽयं वृत उपाध्यायो यदयं ब्रूयात्तत्कार्यमविचारयद्भिर्भवद्भिरिति। 020A
तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः । 020B
स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास ॥ 020C