सृष्टिकथा

निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसा वृते । 042a
बृहदण्डमभूदेकं प्रजानां बीजमव्ययम् ॥ 042c
युगस्यादिनिमित्तं तन्महद्दिव्यं प्रचक्षते । 043a
यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥ 043c
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् । 044a
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥ 044c
यस्मिन्पितामहो जज्ञे प्रभुरेकः प्रजापतिः । 045a
ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥ 045c
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त वै । 046a
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥ 046c
पुरुषश्चाप्रमेयात्मा यं सर्वऋषयो विदुः । 047a
विश्वेदेवास्तथाऽऽदित्या वसवोऽथाश्विनावपि ॥ 047c
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा । 048a
ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षिसत्तमाः ॥ 048c
महर्षयश्च बहवः सर्वैः समुदिता गुणैः । 049a
आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥ 049c
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् । 050a
यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ॥ 050c

कालचक्रम्

यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम् । 051a
पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥ 051c
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । 052a
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ 052c
एवमेतदनाद्यन्तं भूतसङ्घातकारकम् । 053a
अनादिनिधनं लोके चक्रं सम्परिवर्तते ॥ 053c

मानवराजसृष्टिः

त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । 054a
त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा ॥ 054c
दिवः पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः । 055a
सविता स ऋचीकोऽर्को भानुराशावहो रविः ॥ 055c
पुत्रा विवस्वतः सर्वे मनुस्तेषां तथाऽवरः । 056a
देवभ्राट् तनयस्तस्य सुभ्राडिति ततः स्मृतः ॥ 056c
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः । 057a
दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च ॥ 057c
दशपुत्रसहस्राणि दशज्योतेर्महात्मनः । 058a
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥ 058c
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः । 059a
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥ 059c
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः । 060a
सम्भूता बहवो वंशा भूतसर्गाः सुविस्तराः ॥ 060c

शास्त्रोत्पत्तिः

भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् । 061a
वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च ॥ 061c
धर्मार्थकामयुक्तानि शास्त्राणि विविधानि च । 062a
लोकयात्राविधानं च सर्वं तद्दृष्टवानृषिः ॥ 062c
'नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः ।' 063a
इतिहासाः सहव्याख्या विविधाः श्रुतयोऽपि च ॥ 063c