धृतराष्ट्र विलापः

शृणु सञ्जय सर्वं मे नचासूयितुमर्हसि ॥ 163c
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः । 164a
न विग्रहे मम मतिर्न च प्रीये कुलक्षये ॥ 164c
न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु वा । 165a
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः ॥ 165c
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् । 166a
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥ 166c
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः । 167a
तच्चावहसनं प्राप्य सभारोहणदर्शने ॥ 167c
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे । 168a
निरुत्साहश्च सम्प्राप्तुं सुश्रियं क्षत्रियोऽपि सन् ॥ 168c
गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् । 169a
तत्र यद्यद्यथा ज्ञातं मया सञ्जय तच्छृणु ॥ 169c
श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः । 170a
ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ॥ 170c
यदाऽश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् । 171a
कृष्णां हृतां प्रेक्षतां सर्वराज्ञां तदा नाशंसे विजयाय सञ्जय ॥ 171c
यदाऽश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन । 172a
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय सञ्जय ॥ 172c
यदाऽश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन । 173a
अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय सञ्जय ॥ 173c
यदाऽश्रौषं जातुषाद्वेश्मनस्तान्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान् । 174a
युक्तं चैषां विदुरं स्वार्थसिद्ध्यै तदा नाशंसे विजयाय सञ्जय ॥ 174c
यदाऽश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन । 175a
शूरान्पञ्चालान्पाण्डवेयांश्च युक्तांस्तदा नाशंसे विजयाय सञ्जय ॥ 175c
यदाऽश्रौषं मागधानां वरिष्ठं जरासन्धं क्षत्रमध्ये ज्वलन्तम् । 176a
दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय सञ्जय ॥ 176c
यदाऽश्रौषं दिग्जये पाण्डुपुत्रैर्वशीकृतान्भूमिपालान्प्रसह्य । 177a
महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय सञ्जय ॥ 177c
यदाऽश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम् । 178a
रजस्वलां नाथवतीमनाथवत्तदा नाशंसे विजयाय सञ्जय ॥ 178c
यदाऽश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः । 179a
दुःशासनो गतवान्नैव चान्तं तदा नाशंसे विजयाय सञ्जय ॥ 179c
यदाऽश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् । 180a
अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय सञ्जय ॥ 180c
यदाऽश्रौषं विविधास्तत्र चेष्टा धर्मात्मनां प्रस्थितानां वनाय । 181a
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय सञ्जय ॥ 181c
यदाऽश्रौषं स्नातकानां सहस्रैरन्वागतं धर्मराजं वनस्थम् । 182a
भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय सञ्जय ॥ 182c
यदाऽश्रौषमर्जुनं देवदेवं किरातरूपं त्र्यम्बकं तोष्य युद्धे । 183a
अवाप्तवन्तं पाशुपतं महास्त्रं तदा नाशंसे विजयाय सञ्जय ॥ 183c
'यदाऽश्रौषं वनवासेन पार्थान्समागतान्महर्षिभिः पुराणैः । 184a
उपास्यमानान्सगणैर्जातसख्यांस्तदा नाशंसे विजयाय सञ्जय ॥' 184c
यदाऽश्रौषं त्रिदिवस्थं धनञ्जयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् । 185a
अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय सञ्जय ॥ 185c
यदाऽश्रौषं कालकेयास्ततस्ते पौलोमानो वरदानाच्च दृप्ताः । 186a
देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय सञ्जय ॥ 186c
यदाऽश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम् । 187a
कृतार्थं चाप्यागतं शक्रलोकात्तदा नाशंसे विजयाय सञ्जय ॥ 187c
'यदाऽश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं लोमशेन । 188a
बृहदश्वादक्षहृदयं च प्राप्तं तदा नाशंसे विजयाय सञ्जय ॥' 188c
यदाऽश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान् । 189a
तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसे विजयाय सञ्जय ॥ 189c
यदाऽश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन । 190a
स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय सञ्जय ॥ 190c
यदाऽश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत । 191a
प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक्तदा नाशंसे विजयाय सञ्जय ॥ 191c
यदाऽश्रौषं न विदुर्मामकास्तान् प्रच्छन्नरूपान्वसतः पाण्डवेयान् । 192a
विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय सञ्जय ॥ 192c
'यदाऽश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम् । 193a
द्रौपद्यर्थे भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय सञ्जय ॥' 193c
यदाऽश्रौषं मामकानां वरिष्ठान् धनञ्जयेनैकरथेन भग्नान् । 194a
विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय सञ्जय ॥ 194c
यदाऽश्रौषं सत्कृतं मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय । 195a
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय सञ्जय ॥ 195c
यदाऽश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य । 196a
अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय सञ्जय ॥ 196 ॥ 196c
यदाऽश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् । 197a
यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय सञ्जय ॥ 197c
यदाऽश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य । 198a
अहं द्रष्टा ब्रह्मलोके च सम्यक्तदा नाशंसे विजयाय सञ्जय ॥ 198c
यदाऽश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम् । 199a
शमं कुर्वाणमकृतार्थं च यातं तदा नाशंसे विजयाय सञ्जय ॥ 199 ॥ 199c
यदाऽश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य । 200a
तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय सञ्जय ॥ 200c
यदाऽश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् । 201a
आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय सञ्जय ॥ 201c
यदाऽश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम् । 202a
भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय सञ्जय ॥ 202c
यदा कर्णो भीष्ममुवाच वाक्यं नाहं योत्स्ये युध्यमाने त्वयीति । 203a
हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय सञ्जय ॥ 203c
यदाऽश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम् । 204a
त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय सञ्जय ॥ 204c
यदाऽश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै । 205a
कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय सञ्जय ॥ 205c
यदाऽश्रौषं भीष्ममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम् । 206a
नैषां कश्चिद्वध्यते ख्यातरूपस्तदा नाशंसे विजयाय सञ्जय ॥ 206c
यदाऽश्रौषं चापगेयेन सङ्ख्ये स्वयं मृत्युं विहितं धार्मिकेण । 207a
तच्चाकार्षुः पाण्डवेयाः प्रहृष्टास्तदा नाशंसे विजयाय सञ्जय ॥ 207c
यदाऽश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् । 208a
शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय सञ्जय ॥ 208c
यदाऽश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः । 209a
भीष्मं कृत्वा सोमकानल्पशेषांस्तदा नाशंसे विजयाय सञ्जय ॥ 209c
यदाऽश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन । 210a
भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय सञ्जय ॥ 210c
यदाऽश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय । 211a
नित्यं चास्माञ्श्वापदा भीषयन्ति तदा नाशंसे विजयाय सञ्जय ॥ 211c
यदा द्रोणो विविधानस्त्रमार्गान्निदर्शयन्समरे चित्रयोधी । 212a
न पाण्डवाञ्श्रेष्ठतरान्निहन्ति तदा नाशंसे विजयाय सञ्जय ॥ 212c
यदाऽश्रौषं चास्मदीयान्महारथान्व्यवस्थितानर्जुनस्यान्तकाय । 213a
संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय सञ्जय ॥ 213c
यदाऽश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम् । 214a
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय सञ्जय ॥ 214c
यदाऽभिमन्युं परिवार्य बालं सर्वे हत्त्वा हृष्टरूपा बभूवुः । 215a
महारथाः पार्थमशक्नुवन्तस्तदा नाशंसे विजयाय सञ्जय ॥ 215c
यदाऽश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् । 216a
क्रोधादुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय सञ्जय ॥ 216c
यदाऽश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन । 217a
सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय सञ्जय ॥ 217c
यदाऽश्रौषं श्रान्तहये धनञ्जये मुक्त्वा हयान्पाययित्वोपवृत्तान् । 218a
पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय सञ्जय ॥ 218c
यदाऽश्रौषं वाहनेष्वक्षमेषु रथोपस्थे तिष्ठता पाण्डवेन । 219a
सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय सञ्जय ॥ 219c
यदाऽश्रौषं नागबलैः सुदुःसहं द्रोणानीकं युयुधानं प्रमथ्य । 220a
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय सञ्जय ॥ 220c
यदाऽश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः । 221a
धनुष्कोट्याऽऽतुद्य कर्णेन वीरं तदा नाशंसे विजयाय सञ्जय ॥ 221c
यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः । 222a
अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय सञ्जय ॥ 222c
यदाऽश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन । 223a
घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय सञ्जय ॥ 223c
यदाऽश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् । 224a
यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय सञ्जय ॥ 224c
यदाऽश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् । 225a
रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय सञ्जय ॥ 225c
यदाऽश्रौषं द्रौणिना द्वैरथस्थं माद्रीसुतं नकुलं लोकमध्ये । 226a
समं युद्धे मण्डलेभ्यश्चरन्तं तदा नाशंसे विजयाय सञ्जय ॥ 226c
यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् । 227a
नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय सञ्जय ॥ 227c
यदाऽश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य । 228a
निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय सञ्जय ॥ 228c
यदाऽश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् । 229a
तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय सञ्जय ॥ 229c
यदाऽश्रौषं द्रोणपुत्रं च शूरं दुःशासनं कृतवर्माणमुग्रम् । 230a
युधिष्ठिरं धर्मराजं जयन्तं तदा नाशंसे विजयाय सञ्जय ॥ 230c
यदाऽश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत । 231a
सदा सङ्ग्रामे स्पर्धते यस्तु कृष्णं तदा नाशंसे विजयाय सञ्जय ॥ 231c
यदाऽश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन । 232a
हतं सङ्ग्रामे सहदेवेन पापं तदा नाशंसे विजयाय सञ्जय ॥ 232c
यदाऽश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः । 233a
दुर्योधनं विरथं भग्नशक्तिं तदा नाशंसे विजयाय सञ्जय ॥ 233c
यदाऽश्रौषं पाण्डवांस्तिष्ठमानान् गत्वा ह्रदे वासुदेवेन सार्धम् । 234a
अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय सञ्जय ॥ 234c
यदाऽश्रौषं विविधांश्चित्रमार्गान् गदायुद्धे मण्डलशश्चरन्तम् । 235a
मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय सञ्जय ॥ 235c
यदाऽश्रौषं द्रोणपुत्रादिभिस्तैर्हतान्पञ्चालान्द्रौपदेयांश्च सुप्तान् । 236a
कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय सञ्जय ॥ 236c
यदाऽश्रौषं भीमसेनानुयातेनाश्वत्थाम्ना परमास्त्रं प्रयुक्तम् । 237a
क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय सञ्जय ॥ 237c
यदाऽश्रौषं ब्रह्मशिरोऽर्जुनेन स्वस्तीत्युक्त्वाऽस्त्रमस्त्रेण शान्तम् । 238a
अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय सञ्जय ॥ 238c
यदाऽश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रैः । 239a
सञ्जीवयामीति हरेः प्रतिज्ञां तदा नाशंसे विजयाय सञ्जय ॥ 239c
द्वैपायनः केशवो द्रोणपुत्रं परस्पेरणाभिशापैः शशाप । 240a
बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत सन्तप्ये वै पुत्रपौत्रैश्च हीनः ॥ 240c
शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वा पितृभिर्भ्रातृभिश्च । 241a
कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः ॥ 241c
कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त । 242a
द्व्यूना विंशतिराहताऽक्षौहिणीनां तस्मिन्सङ्ग्रामे भैरवे क्षत्रियाणाम् ॥ 242c
तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम् । 243a
संज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥ 243c
सौतिरुवाच । 244
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहु दुःखितः । 244a
मूर्च्छितः पुनराश्वस्तः सञ्जयं वाक्यमब्रवीत् ॥ 244c
धृतराष्ट्र उवाच । 245
सञ्जयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम् । 245a
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥ 245c
सौतिरुवाच । 246
तं तथा वादिनं दीनं विलपन्तं महीपतिम् । 246a
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः ॥ 246c
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् । 247a
सञ्जय उवाच । 247
श्रुतवानसि वै राजन्महोत्साहान्महाबलान् ॥ 247c
द्वैपायनस्य वदतो नारदस्य च धीमतः । 248a
महत्सु राजवंशेषु गुणैः समुदितेषु च ॥ 248c
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः । 249a
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः ॥ 249c
अस्मिल्ँलोके यशः प्राप्य ततः कालवशं गतान् । 250a
शैब्यं महारथं वीरं सृञ्जयं जयतां वरम् ॥ 250c
सुहोत्रं रन्तिदेवं च काक्षीवन्तमथौशिजम् । 251a
बाह्लीकं दमनं चैद्यं शर्यातिमजितं नलम् ॥ 251c
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् । 252a
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च ॥ 252c
रामं दाशरथिं चैव शशबिन्दुं भगीरथम् । 253a
कृतवीर्यं महाभागं तथैव जनमेजयम् ॥ 253c
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् । 254a
चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥ 254c
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा । 255a
पुत्रशोकाभितप्ताय पुरा श्वैत्याय कीर्तितम् ॥ 255c
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः । 256a
महारथा महात्मानः सर्वैः समुदिता गुणैः ॥ 256c
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः । 257a
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥ 257c
विजयो वीतिहोत्रोऽङ्गो भवः श्वेतो बृहद्गुरुः । 258a
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥ 258c
दम्भोद्भवः परो वेनः सगरः सङ्कृतिर्निमिः । 259a
अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः ॥ 259c
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः । 260a
महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥ 260c
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः । 261a
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुचिव्रतः ॥ 261c
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः । 262a
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥ 262c
अविक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः । 263a
महापुराणसम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ॥ 263c
एते चान्ये च राजानः शतशोऽथ सहस्रशः । 264a
श्रूयन्ते शतशश्चान्ये सङ्ख्याताश्चैव पद्मशः ॥ 264c
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः । 265a
राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तरः ॥ 265c
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च । 266a
माहात्म्यमपि चास्तिक्यं सत्यं शौचं दयाऽर्जवम् ॥ 266c
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः । 267a
सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः ॥ 267c
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना । 268a
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि ॥ 268c
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः । 269a
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥ 269c
निग्रहानुग्रहौ चापि विदितौ ते नराधिप । 270a
नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे ॥ 270c
भवितव्यं तथा तच्च नानुशोचितुमर्हसि । 271a
दैवं पुरुषकारेण को निवर्तितुमर्हति ॥ 271c
विधातृविहितं मार्गं न कश्चिदतिवर्तते । 272a
कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥ 272c
कालः सृजति भूतानि कालः संहरते प्रजाः । 273a
संहरन्तं प्रजाः कालं कालः शमयते पुनः ॥ 273c
कालो विकुरुते भावान्सर्वांल्लोके शुभाशुभान् । 274a
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ॥ 274c
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः । 275a
कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥ 275c
अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् । 276a
तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥ 276c
सौतिरुवाच । 277
इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम् । 277a
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा ॥ 277c
धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत् । 278a
दिष्ट्येदमागतमिति मत्त्वा स प्राज्ञसत्तमः ॥ 278c