+००१ अनुक्रमणिका-पर्व

अध्यायः 001 (अनुक्रमणिकापर्व ॥ 1 ॥) आदौ मङ्गलाचरणम् ॥ 1 ॥ नैमिशारण्ये दीर्घसत्रे शौनकादीन्प्रति सौतेरागमनम् ॥ 2 ॥ तत्र शौनकादिभिः सौतिं प्रति भारतकथनचोदना ॥ 3 ॥ सौतिना श्रीमन्नारायणनमस्कारपूर्वकं व्यासस्य भारतनिर्माणकथनम् ॥ 4 ॥ पर्वानुक्रमणिका ॥ 5 ॥ ॥ श्रीवेदव्यासाय नमः ॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 001a
देवीं सरस्वतीं चैव(व्यासं) ततो जयमुदीरयेत् ॥ 001c
'नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च । 002a
त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम्' ॥ 002c
'नमो धर्माय महते नमः कृष्णाय वेधसे । 003a
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्' ॥ 003c
ओं नमो भगवते वासुदेवाय । ओं नमः पितामहाय । ओं नमः प्रजापतिभ्यः । 004a
ओं नमः कृष्णद्वैपायनाय ।ओं नमः सर्वविघ्नविनायकेभ्यः ॥ 004c
रोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे 005A
सुखासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् । 006a
विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥ 006c
तमाश्रममनुप्राप्य नैमिशारण्यवासिनः । 007a
'उवाच तानृषीन्सर्वान्धन्यो वोऽस्म्यद्य दर्शनात् ॥ 007c
वेद वैयासिकीः सर्वाः कथा धर्मार्थसंहिताः । 008a
वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः ॥ 008c
तस्य तद्वचनं श्रुत्वा नैमिशारण्यवासिनः ।' 009a
चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥ 009c
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः । 010a
अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिपूजितः ॥ 010c
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु । 011a
निर्दिष्टमासनं भेजे विनयाद्रौमहर्षणिः ॥ 011c
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च । 012a
अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥ 012c
कुत आगम्यते सौते क्वचायं विहृतस्त्वया । 013a
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥ 013c
एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौमहर्षणिः । 014a
वाक्यं वचनसम्पन्नस्तेषां च चरिताश्रयम् ॥ 014c
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम् । 015a
सौतिरुवाच । 015
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः ॥ 015c
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च । 016a
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः ॥ 016c
कथिताश्चापि विधिवद्या वैशम्पायनेन वै । 017a
श्रुत्वाऽहं ता विचित्रार्था महाभारतसंश्रिताः ॥ 017c
बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च । 018a
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् ॥ 018c
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा । 019a
कुरूणां पाण्डवानां च सर्वेषां महीक्षिताम् ॥ 019c
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह । 020a
आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः । 020c
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः ॥ 020e
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः । 021a
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥ 021c
पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः । 022a
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥ 022c
ऋषय ऊचुः । 023
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा । 023a
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥ 023c
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः । 024a
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥ 024c
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् । 025a
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥ 025c
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् । 026a
यथावत्स ऋषिः पृष्टः सत्रे द्वैपायनाज्ञया ॥ 026c
वेदैश्चतुर्भिः संयुक्तां व्यासस्याद्भुतकर्मणः । 027a
संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम् ॥ 027c
सौतिरुवाच । 028
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् । 028a
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ 028c
असच्च सच्चैव च यद्विश्वं सदसतः परम् । 029a
परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ 029c
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् । 030a
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ 030c
महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः । 031a
प्रवक्ष्यामि मतं पुण्यं व्यासस्याद्भुतकर्मणः ॥ 031c
'नमो भगवते तस्मै व्यासायामिततेजसे । 032a
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥ 032c
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् । 033a
न तथा फलदं सूते नारायणकथा यथा ॥ 033c
नास्ति नारायणसमं न भूतं न भविष्यति । 034a
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम्' ॥ 034c
आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे । 035a
आख्यास्यन्ति तथैवान्य इतिहासमिमं भुवि ॥ 035c
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् । 036a
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥ 036c
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः । 037a
छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥ 037c
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् । 038a
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥ 038c
'पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये । 039a
विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः ॥ 039c
शुचिः सनियमो व्यासः शान्तात्मा तपसि स्थितः । 040a
भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् ॥ 040c
प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः ॥' 041ac

इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् । 064a
'संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम् ॥' 064c
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत् । 065a
इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ 065c
मन्वादि भारतं केचिदास्तीकादि तथाऽपरे । 066a
तथोपरिचराद्यन्ये विप्राः सम्यगधीयिरे ॥ 066c
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः । 067a
व्याख्यातुं कुशलाः केचिद्ग्रन्थान्धारयितुं परे ॥ 067c
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् । 068a
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥ 068c
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः । 069a
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥ 069c
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा । 070a
त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥ 070c
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च । 071a
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ 071c
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् । 072a
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥ 072c
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः । 073a
शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥ 073c
स सदस्यैः सहासीनं श्रावयामास भारतम् । 074a
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥ 074c
विस्तारं कुरुवंशस्य गान्धार्या धर्मशीलताम् । 075a
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥ +++(५)+++ 075c
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् । 076a
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥ 076c
इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम् । 077a
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् ॥ 077c
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् । 078a
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥ 078c
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः । 079a
अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम् ॥ 079c

अनुक्रमणिकाकथनम्

ब्रह्मागतिः

तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः । 080a
कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत् ॥ 080c
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च । 081a
तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम् ॥ 081c
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया । 082a
तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः ॥ 082c
आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः ॥ 083ac
हिरण्यगर्भमासीनं तस्मिंस्तु परमासने । 084a
परिवृत्यासनाभ्याशे वासवेयः+++(=व्यासः)+++ स्थितोऽभवत् ॥ 084c
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना । 085a
निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः ॥ 085c

काव्यप्रशंसा

उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् । 086a
कृतं मयेदं भगवन्काव्यं परमपूजितम् ॥ 086c
ब्रह्मन्वेदरहस्यं च यच्चान्यत् स्थापितं मया । 087a
साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया ॥ 087c
इतिहासपुराणानामुन्मेषं निमिषं च यत् । 088a
भूतं भव्यं भविष्यच्च त्रिविधं कालसंज्ञितम् ॥ 088c
जरामृत्युभयव्याधिभावाभावविनिश्चयः । 089a
विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम् ॥ 089c
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः । 090a
तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः ॥ 090c
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह । 091a
ऋचो यजूंषि सामानि वेदाध्यात्मं तथैव च ॥ 091c
न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा । 092a
इति नैकाश्रयं जन्म दिव्यमानुषसंज्ञितम् ॥ 092c
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम् । 093a
नदीनां पर्वतानां च वनानां सागरस्य च ॥ 093c
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम् +++(प्रतिपादितम्)+++ । 094a
वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः ॥ 094c
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम् । 095a
परं न लेखकः कश्चिदेतस्य भुवि विद्यते ॥ 095c
ब्रह्मोवाच । 096
तपोविशिष्टादपि वै वसिष्ठान्मुनिपुङ्गवात् । 096a
मन्ये श्रेष्ठतमं त्वां वै रहस्यज्ञानवेदनात् ॥ 096c
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम् । 097a
त्वया च काव्यमित्युक्तं तस्मात्काव्यं भविष्यति ॥ 097c
अस्य काव्यस्य कवयो न समर्था विशेषणे । 098a
विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः ॥+++(४)+++ 098c
'जडान्धबधिरोन्मत्तं तमोभूतं जगद्भवेत् । 099a
यदि ज्ञानहुताशेन त्वया नोज्ज्वलियं भवेत् ॥ 099c
तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः । 100a
ज्ञानाञ्जनशलाकाभिर्बुद्धिनेत्रोत्सवः+++(४)+++ कृतः' ॥ 100c
धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः । 101a
त्वया भारतसूर्येण नृणां विनिहतं तमः ॥ 101c
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना । 102a
नृणां कुमुदसौम्यानां कृतं बुद्धिप्रसादनम् ॥ 102c
इतिहासप्रदीपेन मोहावरणघातिना । 103a
लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम् ॥ +++(५)+++ 103c

सङ्ग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान् । 104a
सम्भवस्कन्धविस्तारः सभापर्वविटङ्क+++(=नीड)+++वान् ॥ 104c
आरण्यपर्वरूपाढ्यो विराटोद्योगसारवान् । 105a
भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् ॥ 105c
कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः । 106a
स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः ॥ 106c
अश्वमेधामृतरसस्त्वाश्रमस्थानसंश्रयः । 107a
मौसलश्रुतिसंक्षेपः शिष्टद्विजनिषेवितः ॥ 107c
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति । 108a
पर्जन्य इव भूतानामक्षयो भारद्रुमः ॥ 108c

गणेशनियोगः

काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने । 109ac
सौतिरुवाच । 110
एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् । 110a
भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह ॥ 110c
ततः सस्मार हेरम्बं+++(=हे शिवे र/लम्बतीति)+++ व्यासः सत्यवतीसुतः ॥ 111ac
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः । 112a
तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः ॥ 112c
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ । 113a
लेखको भारतस्यास्य भव त्वं गणनायक ॥ 113c
मयैव प्रोच्यमानस्य मनसा कल्पितस्य च ॥ 113e
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम् । 114a
लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥ 114c
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित् । 115a
ओमित्युक्त्वा गणेशोऽपि बभूव किल लेखकः ॥ 115c
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् । 116a
यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम् ॥ 116c
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च । 117a
अहं वेद्मि शुको वेत्ति सञ्जयो वेत्ति वा न वा ॥ 117c
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने । 118a
भेत्तुं न शक्यतेऽर्थस्य गूढत्वात्प्रश्रितस्य च ॥ 118c
सर्वज्ञोऽपि गणेशो यत्क्षणमास्ते विचारयन् । 119a
तावच्चकार व्यासोऽपि श्लोकानन्यान्बहूनपि ॥ 119c
तस्य वृक्षस्य वक्ष्यामि शाखापुष्पफलोदयम् । 120a
स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि ॥ 120c
अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम् । 121a
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् ॥ 121c
ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः । 122a
षष्टिं शतसहस्राणि चकारान्यां स संहिताम् । 122c
त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम् ॥ 122e
पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश । 123a
एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम् ॥ 123c
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । 124a
गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ 124c
'वैशम्पायनविप्रर्षिः श्रावयामास पार्थिवम् । 125a
पारिक्षितं महात्मानं नाम्ना तु जनमेजयम्' ॥ 125c
अस्मिंस्तु मानुषे लोके वैशम्पायन उक्तवान् । 126a
शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः ॥ 126c
एकं शतसहस्रं तु मयोक्तं वै निबोधत ॥ 127a
दुर्योधनो मन्युमयो महाद्रुमः कर्णः स्कन्धः शकुनिस्तस्य शाखाः । 128a
दुश्शासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥ 128c
युधिष्ठिरे धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । 129a
माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ 129c

पण्डवोत्पत्तिः

पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च । 130a
अरण्ये मृगयाशीलो न्यवसत्सजनस्तथा ॥ 130c
मृगव्यवाय+++(=आच्छादन)+++ननिधनात्कृच्छ्रां प्राप स आपदम् । 131a
जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥ 131a
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति। 132a
धर्मस्य वायोः शक्रस्य देवयोश्च तथाऽश्विनोः ॥ 132c
'ततो धर्मोपनिषदं +++(मन्त्रविशेषं [प्रयुञ्जाना])+++ भूत्वा भर्तुः प्रिया पृथा । 133a
धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया ॥ 133c
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च । 134a
जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः ।' 134c
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः ॥ 134e
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च । 135a
'तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु ॥ 135c
माद्र्या तु सह सङ्गम्य ऋषिशापप्रभावतः । 136a
मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ ॥' 136c

कौरवप्रतिक्रिया

ऋषिभिश्च समानीता धार्तराष्ट्रान्प्रति स्वयम् । 137a
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥ 137c
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः । 138a
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥ 138c
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा । 139a
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥ 139c
आहुः केचिन्न तस्यैते तस्यैत इति चापरे । 140a
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥ 140c
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् । 141a
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥ 141c
तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन् । 142a
अन्तर्हितानां भूतानां निःस्वनस्तुमुलोऽभवत् ॥ 142c
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः । 143a
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥ 143c
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः । 144a
शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥ 144c
तेऽधीत्य निखिलान्वेदाञ्शास्त्राणि विविधानि च । 145a
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥ 145c
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् । 146a
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥ 146c
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च । 147a
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥ 147c
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् । 148a
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥ 148c
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् । 149a
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥ 149c

राजसूयः

स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् । 150a
आजहारार्जुनो राज्ञो राजसूयं महाक्रतुम् ॥ 150c
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः । 151a
युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ॥ 151c
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च । 152a
घातयित्वा जरासन्धं चैद्यं+++(=शिशुपालं)+++ च बलगर्वितम् ॥ 152c

ईर्ष्या

दुर्योधनं समागच्छन्नर्हणानि ततस्ततः । 153a
मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥ 153c
विचित्राणि च वासांसि प्रावारा+++(=उत्तरीया)+++वरणानि च । 154a
कम्बलाजिनरत्नानि राङ्कवा+++(=हरिणविशेषोत्पन्ना)+++स्तरणानि च ॥ 154c
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् । 155a
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥ 155c
विमानप्रतिमां तत्र मयेन सुकृतां सभाम् । 156a
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥ 156c
तत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात् । 157a
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥ 157c

द्यूतप्रस्तावः

स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च । 158a
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥ 158c
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः । 159a
तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥ 159c
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत । 160a
द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत ॥ 160c
निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम् । 161a
विग्रहे तुमुले तस्मिन्दहन्+++(?)+++ क्षत्रं परस्परम् ॥ 161c
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् । 162a
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ॥ 162c
धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् । 163a

फलस्तुतिः

लोकानां च हितार्थाय कारुण्यान्मुनिसत्तमः । 279a
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् ॥ 279c
विद्वद्भिः कथ्यते लोक पुराणे कविसत्तमैः । 280a
भारताध्ययनं पुण्यमपि पादमधीयतः । 280c
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥ 280e
देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः । 281a
कीर्त्यन्ते शुमकर्माणस्तथा यक्षा महोरगाः ॥ 281c
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः । 282a
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥ 282c
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् । 283a
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥ 283c
असत्सत्सदसच्चैव यस्माद्विश्वं प्रवर्तते । 284a
सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः ॥ 284c
अध्यात्मं श्रूयते यत्र पञ्चभूतगुणात्मकम् । 285a
अव्यक्तादि परं यच्च स एव परिगीयते ॥ 285c
यं ध्यायन्ति सदा मुक्ता ध्यानयोगबलान्विताः । 286a
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥ 286c
श्रद्दधानः सदा युक्तः सदा धर्मपरायणः । 287a
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥ 287c
अनुक्रमणिकाध्यायं भारतस्येममादितः । 288a
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥ 288c
उभे सन्ध्ये जपन्किञ्चित्सद्यो मुच्येत किल्बिषात् । 289a
अनुक्रमण्या यावत्स्यादह्ना रात्र्या च सञ्चितम् ॥ 289c
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च । 290a
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥ 290c
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा । 291a
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥ 291c
यथैतानीतिहासानां तथा भारतमुच्यते । 292a
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ॥ 292c
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते । 293a
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥ 293c
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति । 294a
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥ 294c
भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम् । 295a
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि ॥ 295c
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः । 296a
यश्चैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः ॥ 296c
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः । 297a
एकतश्चतुरो वेदा भारतं चैतदेकतः ॥ 297c
पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम् । +++(र५)+++ 298a
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा ॥ 298c
तदाप्रभृति लोकेऽस्मिन्महाभारतमुच्यते । 299a
महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम् ॥ 299c
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते । 300a
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ 300c
तपो नकल्कोऽध्ययनं नकल्कः स्वाभाविको वेदविधिर्नकल्कः+++(=दुष्टः)+++ । 301a
प्रसह्य वित्ताहरणं नकल्कस्तान्येव भावोपहतानि कल्कः ॥ +++(५)+++ 301c

इति श्रीमन्माहाभारते आदिपर्वणि अनुक्रमणिकापर्वणि प्रथमोऽध्यायः ॥ 1 ॥ ॥ अनुक्रमणिकापर्व समाप्तम् ॥

1-1-1 श्रीलक्ष्मीनृसिंहाय नमः ॥ श्रीहयग्रीवाय नमः ॥ श्रीवेदव्यासाय नमः ॥ इह खलु भगवान्पाराशर्यः परमकारुणिको मन्दमतीननुग्रहीतुं चतुर्दशविद्यास्थानान्येकत्र दिदर्शयिषुर्महाभारताख्यमितिहासं प्रणेष्यन्प्रारिप्सितस्य निष्प्रत्यूहपरिपूरणाय प्रचयगमनाय च मङ्गलं रचयन् शिष्यशिक्षायै श्लोकरूपेण निबध्नन्नर्थात्तत्र प्रेक्षावत्प्रवृत्त्यङ्गमभिधेयादि दर्शयति ॥ नारायणमिति ॥ नरोत्तमं पुरुषोत्तमं नारायणं नरं देवी सरस्वतीं (व्यासं) चैव नमस्कृत्य जयं भारताख्यमितिहासं उदीरयेत् ॥ 1-1-2 लक्षालङ्कारव्याख्यानरीत्यायमाद्यः श्लोकः ॥ 1-1-3 कतिपयकोशरीत्यायमाद्यः ॥ 3 ॥ 1-1-5 रोमहर्षणपुत्रः रोमाणि हर्षयाञ्चके श्रोतॄणां यः स्वभाषितैः । कर्मणा प्रथितस्तेन रोमहर्षणसंज्ञया । इति कौर्मे निरुक्तार्थनाम्नः पुत्रः । उग्रश्रवाः उग्रस्य नृसिंहस्य श्रवः श्रवणं यस्य सः । पौराणिकः पुराणे कृतश्रमः । नैमिशारण्ये वायवीये । एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते । यत्रास्य शीर्यते नेमिः स देशस्तपसः शुभः । इत्युक्त्वा सूर्यसङ्काशं चक्रं सृष्ट्वा मनोमयम् । प्रणिपत्य महादेवं विससर्ज पितामहः । तेऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् । प्रययुस्तस्य चक्रस्य यत्र नेमिर्व्यशीर्यत । तद्वनं तेन विख्यातं नैमिशं मुनिपूजितम् । इति उक्तरूपे । नैमिषेति पाठे तु वाराहे । एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा । उवाच निमिषेणेदं निहतं दानवं बलं । अरण्येऽस्मिंस्ततस्त्वेतन्नैमिषारण्यसंज्ञितं । इति निर्वचनं द्रष्टव्यं । शुनकस्य मुनेरपत्यं शौनकः । कुलपतेः । एको दशसहस्राणि योऽन्नदानादिना भरेत् । स वै कुलपतिः इत्युक्तलक्षणस्य । सत्रे ये यजमानास्तएव ऋत्विजो यस्मिन्बहुकर्तृके क्रतौ स सत्रसंज्ञः तस्मिन् ॥ 5 ॥ 1-1-7 नैमिशारण्यवासिनः तान्सर्वानृषीनुवाचेत्यन्वयः ॥ 7 ॥ 1-1-8 अहं वैयासिकीः सर्वाः कथा वेद जानामि ॥ 8 ॥ 1-1-11 निर्दिष्टं इहोपविश्यतामिति दर्शितम् ॥ 11 ॥ 1-1-12 प्रस्तावयन् उपोद्धातयन् ॥ 12 ॥ 1-1-13 विहृतः नीतः ॥ 13 ॥ 1-1-14 तेषां मुनीनां चादन्येषां राजादीनां च यानि चरितानि तेषामाश्रयभूतम् । भावितात्मनां शोधितचित्तानाम् ॥ 14 ॥ 1-1-18 समन्तपञ्चकं समन्तात् पञ्चकं परशुरामकृतह्रदपञ्चकं यस्मिंस्तत् । स्यमन्तपञ्चकमित्यपि पाठो दृश्यते ॥ 18 ॥ 1-1-21 ब्रवीमि किमहं द्विजाः अहं च पुराणादिष्वन्यतमं किं ब्रवीमि तदाज्ञापयतेति शेषः ॥ 21 ॥ 1-1-25 संस्कारोपगतां पदादिव्युत्पत्तिमतीम् । ब्राह्मीं वाचं । ब्राह्मी तु भारती भाषेत्यमरः ॥ 25 ॥ 1-1-28 मङ्गलाचरणपूर्वकं मुनिभिः प्रार्थितमर्थं वक्तुं प्रतिजानीते आद्यमित्यादिचतुर्भिः । हरिं नमस्कृत्य महर्षेर्मतं प्रवक्ष्यामीत्यन्वयः । पुरुहूतं पुरुभिर्बहुभिर्होतृभिः हूतं आहूतं । पुरुभिः सामगैः स्तुतं । ऋतं सत्यं । एकश्चासावक्षरश्च तं । एकं अद्वितीयं समाधिकरहितमिति वा । अक्षरं नाशरहितं । व्यक्ताव्यक्तं रामकृष्णादिरूपेण दृश्यं । ज्ञानानन्दादिरूपेण मन्दैरदृश्यं ॥ 28 ॥ 1-1-30 मङ्गल्यं मङ्गलप्रदं ॥ 30 ॥ 1-1-36 ज्ञानं ज्ञानसाधनं इदं भारतं त्रिषु लोकेषु प्रतिष्ठितम् ॥ 36 ॥ 1-1-37 समयैः सङ्केतैः । छन्दोवृत्तैः त्रिष्टुबादिछन्दोन्तर्गतैरिन्द्रवज्रादिभिर्वृत्तैः ॥ 37 ॥ 1-1-45 यस्मिन् ब्रह्माण्डे ॥ 45 ॥ 1-1-52 प्रतिकल्पं सृष्टेः समाननामरूपत्वमाह यथेति ॥ 52 ॥ 1-1-53 कल्पानामानन्त्यमाह एवमिति ॥ 53 ॥ 1-1-54 एवं जडसृष्टिमुक्त्वा चेतनसृष्टिमाह त्रयस्त्रिंशदिति ॥ 54 ॥ 1-1-61 भूतस्थानानि नृणां वासस्थानानि नगरादीनि ॥ 61 ॥ 1-1-64 इह सर्वमनुक्रान्तं अनुक्रमेण उक्तं ॥ 64 ॥ 1-1-65 समासः सङ्क्षेपः । व्यासो विस्तारः ॥ 65 ॥ 1-1-66 भारतारम्भे मतभेदमाह मन्वादीति । मन्वादि मनुर्मन्त्रः नारायणं नमस्कृत्येति । ओं नमो भगवते वासुदेवायेति वा तदादि । आस्तीकं आस्तीकचरितं तदादि । उपरिचरो वसुः तच्चरितादि वा ॥ 66 ॥ 1-1-67 बह्वर्थत्वाद्विविधं संहिताज्ञानं दीपयन्ति प्रकाशयन्ति ॥ 67 ॥ 1-1-69 मातुः सत्यवत्याः । गाङ्गेयस्य भीष्मस्य ॥ 69 ॥ 1-1-70 क्षेत्रे भार्यासु अम्बिकादिषु ॥ 70 ॥ 1-1-71 परमां गतिं मृत्युं ॥ 71 ॥ 1-1-73 शशास त्वमेतान् भारतं श्रावयेत्याज्ञापितवान् ॥ 73 ॥ 1-1-84 वसोः अपत्यं स्त्री वासवी तस्याः अपत्यं वासवेयो व्यासः ॥ 84 ॥ 1-1-85 कृष्णो व्यासः ॥ 85 ॥ 1-1-98 विशेषणे अतिशायने ॥ 98 ॥ 1-1-104 विटङ्काः पक्ष्युपवेशनास्थानानि ॥ 104 ॥ 1-1-105 सारो मज्जा ॥ 105 ॥ 1-1-106 विश्रामः छाया ॥ 106 ॥ 1-1-108 आश्रमस्थानसंश्रयः आश्रमवासिकस्थण्डिलः । मौसलश्रुतिसंक्षेपः मौसलादिग्रन्थः श्रुतिस्थानीयदीर्घशाखान्तः ॥ 108 ॥ 1-1-112 यतः यत्र देशे ॥ 112 ॥ 1-1-115 अबुद्ध्वा अर्थमिति शेषः । ओमित्यङ्गीकारे ॥ 115 ॥ 1-1-116 ग्रन्थग्रन्थिं ग्रन्थे दुर्भेद्यस्थानं ॥ 116 ॥ 1-1-131 कृच्छ्रां आपदं व्यवायकाले मरिष्यसीत्येवं शापरूपां । तत्र आपदि एवं सत्यामपि पार्थानां पाण्डवानां जन्मप्रभृति आचारविधिक्रमः अभूदिति शेषः ॥ 131 ॥ 1-1-132 आचारविधिक्रममेवाह । मात्रोरिति । मात्रोः कुन्तीमाद्र्योः । धर्मोपनिषदं प्रति आपदि अपत्यार्थे विशिष्टः पुमान्प्रार्थनीय इत्येवंरूपं धर्मरहस्यं प्रति । अभ्युपपत्तिः अङ्गीकारः ॥ 132 ॥ 1-1-137 धार्तराष्ट्रान्धृतराष्ट्रसम्बन्धिगृहान् ॥ 137 ॥ 1-1-142 अन्तर्हितानां भूतानां निःस्वनः पाण्डुपुत्रा एवैते इत्येवंरूपा अशरीरवाक् ॥ 142 ॥ 1-1-148 भर्तारं स्वयमेव वृणुत इति भर्तृस्वयंवरां ॥ 148 ॥ 1-1-150 राज्ञो युधिष्ठिरस्य ॥ 150 ॥ 1-1-157 अनभिजातवत् ग्रामीणवत् ॥ 157 ॥ 1-1-160 धृतराष्ट्रो यद्विवादानन्वमोदत यच्चानयानुपैक्षत तस्माद्वासुदेवस्य कोपः समभवत् ॥ 160 ॥ 1-1-161 दहन् अदहत् ॥ 161 ॥ 1-1-173 प्रवृष्टं वर्षणे प्रवृत्तं ॥ 173 ॥ 1-1-181 चेष्टाः बाहुवीक्षणाद्याः ॥ 181 ॥ 1-1-182 स्नातकानां समापितविद्याव्रतानां ब्राह्मणानां ॥ 182 ॥ 1-1-185 शंसितं प्रशास्यं ॥ 185 ॥ 1-1-197 इमां गां पृथिवीं यस्य वासुदेवस्य एकं विक्रमं पदमात्रमाहुः ॥ 197 ॥ 1-1-198 यौ नरनारायणौ ब्रह्मलोके अहं द्रष्टा अद्राक्षं तौ कृष्णार्जुनौ अर्जुनकृष्णौ इति वदतो नारदस्य नारदात् ॥ 198 ॥ 1-1-200 बहुधा विश्वरूपत्वेन ॥ 200 ॥ 1-1-202 तेषां पाण्डवानां ॥ 202 ॥ 1-1-209 सोमकानेव अल्पशेषान्कृत्वा ॥ 209 ॥ 1-1-210 चोदितमर्जुनं च । गां भित्त्वाम्बो वारुणेनाददाने इति पाठान्तरं ॥ 210 ॥ 1-1-223 व्यंसितां व्यर्थीकृतां ॥ 223 ॥ 1-1-237 क्रुद्धेनैषीकं चावधीद्यन्न गर्भं इति पाठान्तरम् ॥ 1-1-280 पूयन्ते नश्यन्ति ॥ 280 ॥ 1-1-294 कार्ष्णं कृष्णेन व्यासेन प्रोक्तं ॥ 294 ॥ 1-1-301 ननु वेदेभ्यः कथमिदमधिकं अत्र युद्धप्रधानानां कर्मणां बन्धनहेतूनां कथनादुपनिषदि तावन्मोक्षसाधनानां धर्माणां ब्रह्मणश्च प्रतिपादनादिति चेत्तत्राह । तप इति । तपः कृच्छ्रचान्द्रायणादि नकल्कः पापनाशकं । स्वाभाविकः स्वस्ववर्णाश्रमादिपुरस्कारेण विहितः । वेदविधिः वेदोक्तो विधिः सन्ध्योपासनादिः । प्रसह्य प्रकर्षेण सोढ्वा क्षुधादिदुःखमपि सोढ्वा । वित्तस्य आहरणं शिलोञ्छादिना अर्जनं । तान्येव तपआदीन्येव भावेन फलानुसन्धानेन उपहतानि प्रतिषिद्धानि । कल्कः पापहेतुः । तथाचात्रापि मोक्षधर्मादिषु तत्रतत्र निष्कामकर्मणां प्रतिपादनं ब्रह्मनिरूपणं चास्त्येव । अतो वेदादप्युत्तमं भारतं ॥ 301 ॥ इति टिप्पणे प्रथमोऽध्यायः ॥ 1 ॥