००३

मूलम् (समाप्तिः)

[व्यर्थ जन्म, दान और जीवनका वर्णन, सात्त्विक दानोंका लक्षण, दानका योग्य पात्र और ब्राह्मणकी महिमा]

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

एवं श्रुत्वा वचस्तस्य धर्मपुत्रोऽच्युतस्य तु।
पप्रच्छ पुनरप्यन्यं धर्मं धर्मात्मजो हरिम्॥

मूलम्

एवं श्रुत्वा वचस्तस्य धर्मपुत्रोऽच्युतस्य तु।
पप्रच्छ पुनरप्यन्यं धर्मं धर्मात्मजो हरिम्॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! धर्मपुत्र राजा युधिष्ठिर इस प्रकार भगवान् अच्युतके वचन सुनकर फिर भी श्रीहरिसे अन्य धर्म पूछने लगे—॥

विश्वास-प्रस्तुतिः

वृथा च कति जन्मानि वृथा दानानि कानि च।
वृथा च जीवितं केषां नराणां पुरुषोत्तम॥

मूलम्

वृथा च कति जन्मानि वृथा दानानि कानि च।
वृथा च जीवितं केषां नराणां पुरुषोत्तम॥

अनुवाद (हिन्दी)

‘पुरुषोत्तम! कितने जन्म व्यर्थ समझे जाते हैं? कितने प्रकारके दान निष्फल होते हैं? और किन-किन मनुष्योंका जीवन निरर्थक माना गया है?॥

विश्वास-प्रस्तुतिः

कीदृशासु ह्यवस्थासु दानं दत्तं जनार्दन।
इह लोकेऽनुभवति पुरुषः पुरुषोत्तम॥
गर्भस्थः किं समश्नाति किं बाल्ये वापि केशव।
यौवनस्थेऽपि किं कृष्ण वार्धके वापि किं भवेत्॥

मूलम्

कीदृशासु ह्यवस्थासु दानं दत्तं जनार्दन।
इह लोकेऽनुभवति पुरुषः पुरुषोत्तम॥
गर्भस्थः किं समश्नाति किं बाल्ये वापि केशव।
यौवनस्थेऽपि किं कृष्ण वार्धके वापि किं भवेत्॥

अनुवाद (हिन्दी)

‘पुरुषोत्तम! जनार्दन! मनुष्य किस अवस्थामें दिये हुए दानके फलका इस लोकमें अनुभव करता है। केशव! गर्भमें स्थित हुआ मनुष्य किस दानका फल भोगता है? श्रीकृष्ण! बाल, युवा और वृद्ध-अवस्थाओंमें मनुष्य किस-किस दानका फल भोगता है?॥

विश्वास-प्रस्तुतिः

सात्त्विकं कीदृशं दानं राजसं कीदृशं भवेत्।
तामसं कीदृशं देव तर्पयिष्यति किं प्रभो॥

मूलम्

सात्त्विकं कीदृशं दानं राजसं कीदृशं भवेत्।
तामसं कीदृशं देव तर्पयिष्यति किं प्रभो॥

अनुवाद (हिन्दी)

‘भगवन्! सात्त्विक, राजस और तामस दान कैसे होते हैं? प्रभो! उनसे किसकी तृप्ति होती है?॥

विश्वास-प्रस्तुतिः

उत्तमं कीदृशं दानं तेषां वा किं फलं भवेत्।
किं दानं नयति ह्यूर्ध्वं किं गतिं मध्यमां नयेत्।
गतिं जघन्यामथ वा देवदेव वदस्व मे॥

मूलम्

उत्तमं कीदृशं दानं तेषां वा किं फलं भवेत्।
किं दानं नयति ह्यूर्ध्वं किं गतिं मध्यमां नयेत्।
गतिं जघन्यामथ वा देवदेव वदस्व मे॥

अनुवाद (हिन्दी)

‘उत्तम दानका स्वरूप क्या है? और उससे मनुष्योंको किस फलकी प्राप्ति होती है? कौन-सा दान ऊर्ध्वगतिको ले जाता है? कौन-सा मध्यम गतिको और कौन-सा नीच गतिको ले जाता है? देवाधिदेव! यह मुझे बतानेकी कृपा कीजिये॥

विश्वास-प्रस्तुतिः

एतदिच्छामि विज्ञातुं परं कौतूहलं हि मे।
त्वदीयं वचनं सत्यं पुण्यं च मधुसूदन॥

मूलम्

एतदिच्छामि विज्ञातुं परं कौतूहलं हि मे।
त्वदीयं वचनं सत्यं पुण्यं च मधुसूदन॥

अनुवाद (हिन्दी)

‘मधुसूदन! मैं इस विषयको जानना चाहता हूँ और इसे सुननेके लिये मेरे मनमें बड़ी उत्कण्ठा है; क्योंकि आपके वचन सत्य और पुण्यमय हैं’॥

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

शृणु राजन् यथान्यायं वचनं तथ्यमुत्तमम्।
कथ्यमानं मया पुण्यं सर्वपापप्रणाशनम्॥

मूलम्

शृणु राजन् यथान्यायं वचनं तथ्यमुत्तमम्।
कथ्यमानं मया पुण्यं सर्वपापप्रणाशनम्॥

अनुवाद (हिन्दी)

श्रीभगवान्‌ने कहा— राजन्! मैं तुम्हें न्यायके अनुसार यथार्थ एवं उत्तम उपदेश सुनाता हूँ, ध्यान देकर सुनो। यह विषय परम पवित्र और सम्पूर्ण पापोंको नष्ट करनेवाला है॥

विश्वास-प्रस्तुतिः

वृथा च दश जन्मानि चत्वारि च नराधिप।
वृथा दानानि पञ्चाशत्पञ्चैव च यथाक्रमम्॥
वृथा च जीवितं येषां ते च षट् परिकीर्तिताः।
अनुक्रमेण वक्ष्यामि तानि सर्वाणि पार्थिव॥

मूलम्

वृथा च दश जन्मानि चत्वारि च नराधिप।
वृथा दानानि पञ्चाशत्पञ्चैव च यथाक्रमम्॥
वृथा च जीवितं येषां ते च षट् परिकीर्तिताः।
अनुक्रमेण वक्ष्यामि तानि सर्वाणि पार्थिव॥

अनुवाद (हिन्दी)

नरेश्वर! चौदह जन्म व्यर्थ समझे जाते हैं। क्रमशः पचपन प्रकारके दान निष्फल होते हैं और जिन-जिन मनुष्योंका जीवन निरर्थक होता है, उनकी संख्या छः बतलायी गयी है। भूपाल! इन सबका मैं क्रमशः वर्णन करूँगा॥

विश्वास-प्रस्तुतिः

धर्मघ्नानां वृथा जन्म लुब्धानां पापिनां तथा।
वृथा पाकं च येऽश्नन्ति परदाररताश्च ये।
पाकभेदकरा ये च ये च स्युः सत्यवर्जिताः॥

मूलम्

धर्मघ्नानां वृथा जन्म लुब्धानां पापिनां तथा।
वृथा पाकं च येऽश्नन्ति परदाररताश्च ये।
पाकभेदकरा ये च ये च स्युः सत्यवर्जिताः॥

अनुवाद (हिन्दी)

जो धर्मका नाश करनेवाले, लोभी, पापी, बलिवैश्वदेव किये बिना भोजन करनेवाले, परस्त्रीगामी, भोजनमें भेद करनेवाले और असत्यभाषी हैं, उनका जन्म वृथा है॥

विश्वास-प्रस्तुतिः

मृष्टमश्नाति यश्चैकः क्लिश्यमानैस्तु बान्धवैः।
पितरं मातरं चैव उपाध्यायं गुरुं तथा।
मातुलं मातुलानीं च यो निहन्याच्छपेत वा॥
ब्राह्मणश्चैव यो भूत्वा संध्योपासनवर्जितः।
निःस्वाहो निःस्वधश्चैव शूद्राणामन्नभुग्‌ द्विजः॥
मम वा शंकरस्याथ ब्रह्मणो वा युधिष्ठिर।
अथवा ब्राह्मणानां तु ये न भक्ता नराधमाः।
वृथा जन्मान्यथैतेषां पापिनां विद्धि पाण्डव॥

पाण्डुनन्दन युधिष्ठिर! जो बन्धु-बान्धवोंको क्लेश देकर अकेले ही मिठाई खानेवाले हैं, जो माता-पिता, अध्यापक, गुरु और मामा-मामीको मारते या गाली देते हैं, जो ब्राह्मण होकर भी संध्योपासनसे रहित हैं, जो अग्निहोत्रका त्याग करनेवाले हैं, जो श्राद्ध-तर्पणसे दूर रहनेवाले हैं, जो ब्राह्मण होकर शूद्रका अन्न खानेवाले हैं तथा जो मेरे, शंकरजीके, ब्रह्माजीके अथवा ब्राह्मणोंके भक्त नहीं हैं—ये चौदह प्रकारके मनुष्य अधम होते हैं। इन्हीं पापियोंके जन्मको व्यर्थ समझना चाहिये॥

विश्वास-प्रस्तुतिः

अश्रद्धयापि यद् दत्तमवमानेन वापि यत्।
दम्भार्थमपि यद् दत्तं यत् पाखण्डिहितं नृप॥
शूद्राचाराय यद् दत्तं यद् दत्त्वा चानुकीर्तितम्।
रोषयुक्तं च यद् दत्तं यद् दत्तमनुशोचितम्॥
दम्भार्जितं च यद् दत्तं यच्च वाप्यनृतार्जितम्।
ब्राह्मणस्वं च यद् दत्तं चौर्येणाप्यर्जितं च यत्॥
अभिशस्ताहृतं यत्तु यद् दत्तं पतिते द्विजे।
निर्ब्रह्माभिहृतं यत्तु यद् दत्तं सर्वयाचकैः॥
व्रात्यैस्तु यद्‌धृतं दानमारूढपतितैश्च यत्।
यद् दत्तं स्वैरिणीभर्त्तुः श्वशुराननुवर्त्तिने॥
यद् ग्रामयाचकहृतं यत् कृतघ्नहृतं तथा।
उपपातकिने दत्तं वेदविक्रयिणे च यत्॥
स्त्रीजिताय च यद् दत्तं यद् दत्तं राजसेविने।
गणकाय च यद् दत्तं यच्च कारणिकाय च॥
वृषलीपतये दत्तं यद् दत्तं शस्त्रजीविने।
भृतकाय च यद् दत्तं व्यालग्राहिहृतं च यत्॥
पुरोहिताय यद् दत्तं चिकित्सकहृतं च यत्।
यद् वणिक्कर्मिणे दत्तं क्षुद्रमन्त्रोपजीविने॥
यच्छूद्रजीविने दत्तं यच्च देवलकाय च।
देवद्रव्याशिने दत्तं यद् दत्तं चित्रकर्मिणे॥
रङ्गोपजीविने दत्तं यच्च मांसोपजीविने।
सेवकाय च यद् दत्तं यद् दत्तं ब्राह्मणब्रुवे॥
अद्देशिने च यद् दत्तं दत्तं वार्धुशिकाय च।
यदनाचारिणे दत्तं यत्तु दत्तमनग्नये॥
असंध्योपासिने दत्तं यच्छूद्रग्रामवासिने ।
यन्मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत्॥
नास्तिकाय च यद् दत्तं धर्मविक्रयिणे च यत्।
वराकाय च यद् दत्तं यद् दत्तं कूटसाक्षिणे॥
ग्रामकूटाय यद् दत्तं दानं पार्थिवपुङ्गव।
वृथा भवति तत्सर्वं नात्र कार्या विचारणा॥

राजन्! जो दान अश्रद्धा या अपमानके साथ दिया जाता है, जिसे दिखावेके लिये दिया जाता है, जो पाखण्डीको प्राप्त हुआ है, जो शूद्रके समान आचरणवाले पुरुषको दिया जाता है, जिसे देकर अपने ही मुँहसे बारंबार बखान किया गया है, जिसे रोषपूर्वक दिया गया है तथा जिसको देकर पीछेसे उसके लिये शोक किया जाता है, जो दम्भसे उपार्जित अन्नका, झूठ बोलकर लाये हुए अन्नका, ब्राह्मणके धनका, चोरी करके लाये हुए द्रव्यका तथा कलंकी पुरुषके घरसे लाये हुए धनका दान किया गया है, जो पतित ब्राह्मणको दिया गया है, जो दान वेदविहीन पुरुषोंको और सबके यहाँ याचना करनेवालोंको दिया जाता है तथा जो संस्कारहीन पतितोंको तथा एक बार संन्यास लेकर फिर गृहस्थ-आश्रममें प्रवेश करनेवाले पुरुषोंको दिया जाता है, जो दान वेश्यागामीको और ससुरालमें रहकर गुजारा करनेवाले ब्राह्मणको दिया गया है, जिस दानको समूचे गाँवसे याचना करनेवाले और कृतघ्नने ग्रहण किया है एवं जो दान उपपातकीको, वेद बेचनेवालेको, स्त्रीके वशमें रहनेवालेको, राजसेवकको, ज्योतिषीको, तान्त्रिकको, शूद्रजातिकी स्त्रीके साथ सम्बन्ध रखनेवालेको, अस्त्र-शस्त्रसे जीविका चलानेवालेको, नौकरी करनेवालेको, साँप पकड़नेवालेको और पुरोहिती करनेवालेको दिया जाता है, जिस दानको वैद्यने ग्रहण किया है, राजश्रेष्ठ! जो दान बनियेका काम करनेवालेको, क्षुद्र मन्त्र जपकर जीविका चलानेवालेको, शूद्रके यहाँ गुजारा करनेवालेको, वेतन लेकर मन्दिरमें पूजा करनेवालेको, देवोत्तर सम्पत्तिको खा जानेवालेको, तस्वीर बनानेका काम करनेवालेको, रंगभूमिमें नाच-कूदकर जीविका चलानेवालेको, मांस बेचकर जीवन-निर्वाह करनेवालेको, सेवाका काम करनेवालेको, ब्राह्मणोचित आचारसे हीन होकर भी अपनेको ब्राह्मण बतलानेवालेको, उपदेश देनेकी शक्तिसे रहितको, व्याजखोरको, अनाचारीको, अग्निहोत्र न करनेवालेको, संध्योपासनासे अलग रहनेवालेको, शूद्रके गाँवमें निवास करनेवालेको, झूठे वेश धारण करनेवालेको, सबके साथ और सब कुछ खानेवालेको, नास्तिकको, धर्मविक्रेताको, नीच वृत्तिवालेको, झूठी गवाही देनेवालेको तथा कूटनीतिका आश्रय लेकर गाँवके लोगोंमें लड़ाई-झगड़ा करानेवाले ब्राह्मणको दिया जाता है, वह सब निष्फल होता है, इसमें कोई विचारणीय बात नहीं है॥

विश्वास-प्रस्तुतिः

विप्रनामधरा एते लोलुपा ब्राह्मणाधमाः।
नात्मानं तारयन्त्येते न दातारं युधिष्ठिर॥

मूलम्

विप्रनामधरा एते लोलुपा ब्राह्मणाधमाः।
नात्मानं तारयन्त्येते न दातारं युधिष्ठिर॥

अनुवाद (हिन्दी)

युधिष्ठिर! ये सब विषयलोलुप, विप्रनामधारी ब्राह्मण अधम हैं, ये न तो अपना उद्धार कर सकते हैं और न दाताका ही॥

विश्वास-प्रस्तुतिः

एतेभ्यो दत्तमात्राणि दानानि सुबहून्यपि।
वृथा भवन्ति राजेन्द्र भस्मन्याज्याहुतिर्यथा॥

मूलम्

एतेभ्यो दत्तमात्राणि दानानि सुबहून्यपि।
वृथा भवन्ति राजेन्द्र भस्मन्याज्याहुतिर्यथा॥

अनुवाद (हिन्दी)

राजेन्द्र! उपर्युक्त ब्राह्मणोंको दिये हुए दान बहुत हों तो भी राखमें डाली हुई घीकी आहुतिके समान व्यर्थ हो जाते हैं॥

विश्वास-प्रस्तुतिः

एतेषु यत् फलं किंचिद् भविष्यति कथंचन।
राक्षसाश्च पिशाचाश्च तद् विलुम्पन्ति हर्षिताः॥

मूलम्

एतेषु यत् फलं किंचिद् भविष्यति कथंचन।
राक्षसाश्च पिशाचाश्च तद् विलुम्पन्ति हर्षिताः॥

अनुवाद (हिन्दी)

उन्हें दिये गये दानका जो कुछ फल होनेवाला होता है, उसे राक्षस और पिशाच प्रसन्नताके साथ लूट ले जाते हैं॥

विश्वास-प्रस्तुतिः

वृथा ह्येतानि दत्तानि कथितानि समासतः।
जीवितं तु तथा ह्येषां तच्छृणुष्व युधिष्ठिर॥

मूलम्

वृथा ह्येतानि दत्तानि कथितानि समासतः।
जीवितं तु तथा ह्येषां तच्छृणुष्व युधिष्ठिर॥

अनुवाद (हिन्दी)

युधिष्ठिर! ये सब वृथा दान संक्षेपमें बताये गये। अब जिन-जिन मनुष्योंका जीवन व्यर्थ है, उनका परिचय दे रहा हूँ; सुनो॥

विश्वास-प्रस्तुतिः

ये मां न प्रतिपद्यन्ते शङ्करं वा नराधमाः।
ब्राह्मणान्‌ वा महीदेवान् वृथा जीवन्ति ते नराः॥

मूलम्

ये मां न प्रतिपद्यन्ते शङ्करं वा नराधमाः।
ब्राह्मणान्‌ वा महीदेवान् वृथा जीवन्ति ते नराः॥

अनुवाद (हिन्दी)

जो नराधम मेरी, भगवान् शंकरकी अथवा भूमण्डलके देवता ब्राह्मणोंकी शरण नहीं लेते, वे मनुष्य व्यर्थ ही जीते हैं॥

विश्वास-प्रस्तुतिः

हेतुशास्त्रेषु ये सक्ताः कुदृष्टिपथमाश्रिताः।
देवान् निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः॥

मूलम्

हेतुशास्त्रेषु ये सक्ताः कुदृष्टिपथमाश्रिताः।
देवान् निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः॥

अनुवाद (हिन्दी)

जिनकी कोरे तर्कशास्त्रमें ही आसक्ति है, जो नास्तिक-पथका अवलम्बन करते हैं, जिन्होंने आचार त्याग दिया है तथा जो देवताओंकी निन्दा करते हैं, वे मनुष्य व्यर्थ ही जी रहे हैं॥

विश्वास-प्रस्तुतिः

कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः।
विप्रान् निन्दन्ति यज्ञांश्च वृथा जीवन्ति ते नराः॥

मूलम्

कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः।
विप्रान् निन्दन्ति यज्ञांश्च वृथा जीवन्ति ते नराः॥

अनुवाद (हिन्दी)

जो नराधम नास्तिकोंके शास्त्र पढ़कर ब्राह्मण और यज्ञोंकी निन्दा करते हैं, वे व्यर्थ ही जीवन धारण करते हैं॥

विश्वास-प्रस्तुतिः

ये दुर्गां वा कुमारं वा वायुमग्निं जलं रविम्।
पितरं मातरं चैव गुरुमिन्द्रं निशाकरम्।
मूढा निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः॥

मूलम्

ये दुर्गां वा कुमारं वा वायुमग्निं जलं रविम्।
पितरं मातरं चैव गुरुमिन्द्रं निशाकरम्।
मूढा निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः॥

अनुवाद (हिन्दी)

जो मूढ़ दुर्गा, स्वामी कार्तिकेय, वायु, अग्नि, जल, सूर्य, माता-पिता, गुरु, इन्द्र तथा चन्द्रमाकी निन्दा करते और आचारका पालन नहीं करते, वे मनुष्य भी निरर्थक ही जीवन व्यतीत करते हैं॥

विश्वास-प्रस्तुतिः

विद्यमाने धने यस्तु दानधर्मविवर्जितः।
मृष्टमश्नाति यश्चैको वृथा जीवति सोऽपि च।
वृथा जीवितमाख्यातं दानकालं ब्रवीमि ते॥

मूलम्

विद्यमाने धने यस्तु दानधर्मविवर्जितः।
मृष्टमश्नाति यश्चैको वृथा जीवति सोऽपि च।
वृथा जीवितमाख्यातं दानकालं ब्रवीमि ते॥

अनुवाद (हिन्दी)

जो धन होनेपर भी दान और धर्म नहीं करता तथा दूसरोंको न देकर अकेले ही मिठाई खाया करता है, वह भी व्यर्थ ही जीता है। इस प्रकार व्यर्थ जीवनकी बात बतायी गयी। अब दानका समय बताता हूँ॥

विश्वास-प्रस्तुतिः

तमोनिविष्टचित्तेन दत्तं दानं तु यद् भवेत्।
तदस्य फलमश्नाति नरो गर्भगतो नृप॥

मूलम्

तमोनिविष्टचित्तेन दत्तं दानं तु यद् भवेत्।
तदस्य फलमश्नाति नरो गर्भगतो नृप॥

अनुवाद (हिन्दी)

राजन्! तमोगुणमें आविष्ट हुए चित्तवाले मनुष्यके द्वारा जो दान दिया जाता है, उसका फल मनुष्य गर्भावस्थामें भोगता है॥

विश्वास-प्रस्तुतिः

ईर्ष्यामत्सरसंयुक्तो दम्भार्थं चार्थकारणात् ।
ददाति दानं यो मर्त्यो बालभावे तदश्नुते॥

मूलम्

ईर्ष्यामत्सरसंयुक्तो दम्भार्थं चार्थकारणात् ।
ददाति दानं यो मर्त्यो बालभावे तदश्नुते॥

अनुवाद (हिन्दी)

ईर्ष्या और मत्सरतासे युक्त मनुष्य अर्थलोभसे और दम्भपूर्वक जिस दानको देता है, उसका फल वह बाल्यावस्थामें भोगता है॥

विश्वास-प्रस्तुतिः

भोक्तुं भोगमशक्तस्तु व्याधिभिः पीडितो भृशम्।
ददाति दानं यो मर्त्यो वृद्धभावे तदश्नुते॥

मूलम्

भोक्तुं भोगमशक्तस्तु व्याधिभिः पीडितो भृशम्।
ददाति दानं यो मर्त्यो वृद्धभावे तदश्नुते॥

अनुवाद (हिन्दी)

भोगोंको भोगनेमें अशक्त, अत्यन्त व्याधिसे पीड़ित मनुष्य जिस दानको देता है, उसके फलका उपभोग वह वृद्धावस्थामें करता है॥

विश्वास-प्रस्तुतिः

श्रद्धायुक्तः शुचिः स्नातः प्रसन्नेन्द्रियमानसः।
ददाति दानं यो मर्त्यो यौवने स तदश्नुते॥

मूलम्

श्रद्धायुक्तः शुचिः स्नातः प्रसन्नेन्द्रियमानसः।
ददाति दानं यो मर्त्यो यौवने स तदश्नुते॥

अनुवाद (हिन्दी)

जो मनुष्य स्नान करके पवित्र हो मन और इन्द्रियोंको प्रसन्न रखकर श्रद्धाके साथ दान करता है, उसके फलको वह यौवनावस्थामें भोगता है॥

विश्वास-प्रस्तुतिः

स्वयं नीत्वा तु यद् दानं भक्त्या पात्रे प्रदीयते।
तत्सार्वकालिकं विद्धि दानमामरणान्तिकम् ॥

मूलम्

स्वयं नीत्वा तु यद् दानं भक्त्या पात्रे प्रदीयते।
तत्सार्वकालिकं विद्धि दानमामरणान्तिकम् ॥

अनुवाद (हिन्दी)

जो स्वयं देने योग्य वस्तु ले जाकर भक्तिपूर्वक सत्पात्रको दान करता है, उसको मरणपर्यन्त हर समय उस दानका फल प्राप्त होता है, ऐसा समझो॥

विश्वास-प्रस्तुतिः

राजसं सात्त्विकं चापि तामसं च युधिष्ठिर।
दानं दानफलं चैव गतिं च त्रिविधां शृणु॥

मूलम्

राजसं सात्त्विकं चापि तामसं च युधिष्ठिर।
दानं दानफलं चैव गतिं च त्रिविधां शृणु॥

अनुवाद (हिन्दी)

युधिष्ठिर! दान और उसका फल सात्त्विक, राजस और तामस भेदसे तीन-तीन प्रकारका होता है तथा उसकी गति भी तीन प्रकारकी होती है, इसे सुनो॥

विश्वास-प्रस्तुतिः

दानं दातव्यमित्येव मतिं कृत्वा द्विजाय वै।
उपकारवियुक्ताय यद् दत्तं तद्धि सात्त्विकम्॥

मूलम्

दानं दातव्यमित्येव मतिं कृत्वा द्विजाय वै।
उपकारवियुक्ताय यद् दत्तं तद्धि सात्त्विकम्॥

अनुवाद (हिन्दी)

दान देना कर्तव्य है—ऐसा समझकर अपना उपकार न करनेवाले ब्राह्मणको जो दान दिया जाता है, वही सात्त्विक है॥

विश्वास-प्रस्तुतिः

श्रोत्रियाय दरिद्राय बहुभृत्याय पाण्डव।
दीयते यत् प्रहृष्टेन तत् सात्त्विकमुदाहृतम्॥

मूलम्

श्रोत्रियाय दरिद्राय बहुभृत्याय पाण्डव।
दीयते यत् प्रहृष्टेन तत् सात्त्विकमुदाहृतम्॥

अनुवाद (हिन्दी)

पाण्डुनन्दन! जिसका कुटुम्ब बहुत बड़ा हो तथा जो दरिद्र और वेदका विद्वान् हो, ऐसे ब्राह्मणको प्रसन्नतापूर्वक जो कुछ दिया जाता है, वह भी सात्त्विक कहा जाता है॥

विश्वास-प्रस्तुतिः

वेदाक्षरविहीनाय यत्तु पूर्वोपकारिणे ।
समृद्धाय च यद् दत्तं तद् दानं राजसं स्मृतम्॥

मूलम्

वेदाक्षरविहीनाय यत्तु पूर्वोपकारिणे ।
समृद्धाय च यद् दत्तं तद् दानं राजसं स्मृतम्॥

अनुवाद (हिन्दी)

परंतु जो वेदका एक अक्षर भी नहीं जानता, जिसके घरमें काफी सम्पत्ति मौजूद है तथा जो पहले कभी अपना उपकार कर चुका है, ऐसे ब्राह्मणको दिया हुआ दान राजस माना गया है॥

विश्वास-प्रस्तुतिः

सम्बन्धिने च यद् दत्तं प्रमत्ताय च पाण्डव।
फलार्थिभिरपात्राय तद् दानं राजसं स्मृतम्॥

मूलम्

सम्बन्धिने च यद् दत्तं प्रमत्ताय च पाण्डव।
फलार्थिभिरपात्राय तद् दानं राजसं स्मृतम्॥

अनुवाद (हिन्दी)

पाण्डव! अपने सम्बन्धी और प्रमादीको दिया हुआ, फलकी इच्छा रखनेवाले मनुष्योंके द्वारा दिया हुआ तथा अपात्रको दिया हुआ दान भी राजस ही है॥

विश्वास-प्रस्तुतिः

वैश्वदेवविहीनाय दानमश्रोत्रियाय च ।
दीयते तस्करायापि तद् दानं तामसं स्मृतम्॥

मूलम्

वैश्वदेवविहीनाय दानमश्रोत्रियाय च ।
दीयते तस्करायापि तद् दानं तामसं स्मृतम्॥

अनुवाद (हिन्दी)

जो ब्राह्मण बलिवैश्वदेव नहीं करता, वेदका ज्ञान नहीं रखता तथा चोरी किया करता है, उसको दिया हुआ दान तामस है॥

विश्वास-प्रस्तुतिः

सरोषमवधूतं च क्लेशयुक्तमवज्ञया ।
सेवकाय च यद् दत्तं तत् तामसमुदाहृतम्॥

मूलम्

सरोषमवधूतं च क्लेशयुक्तमवज्ञया ।
सेवकाय च यद् दत्तं तत् तामसमुदाहृतम्॥

अनुवाद (हिन्दी)

क्रोध, तिरस्कार, क्लेश और अवहेलनापूर्वक तथा सेवकको दिया हुआ दान भी तामस ही बतलाया गया है॥

विश्वास-प्रस्तुतिः

देवा पितृगणाश्चैव मुनयश्चाग्नयस्तथा ।
सात्त्विकं दानमश्नन्ति तुष्यन्ति च नरेश्वर॥

मूलम्

देवा पितृगणाश्चैव मुनयश्चाग्नयस्तथा ।
सात्त्विकं दानमश्नन्ति तुष्यन्ति च नरेश्वर॥

अनुवाद (हिन्दी)

नरेश्वर! सात्त्विक दानको देवता, पितर, मुनि और अग्नि ग्रहण करते हैं तथा उससे इन्हें बड़ा संतोष होता है॥

विश्वास-प्रस्तुतिः

दानवा दैत्यसंघाश्च ग्रहा यक्षाः सराक्षसाः।
राजसं दानमश्नन्ति वर्जितं पितृदैवतैः॥

मूलम्

दानवा दैत्यसंघाश्च ग्रहा यक्षाः सराक्षसाः।
राजसं दानमश्नन्ति वर्जितं पितृदैवतैः॥

अनुवाद (हिन्दी)

राजस दानका दानव, दैत्य, ग्रह, यक्ष और राक्षस उपभोग करते हैं, पितर और देवता नहीं करते॥

विश्वास-प्रस्तुतिः

पिशाचाः प्रेतसंघाश्च कश्मला ये मलीमसाः।
तामसं दानमश्नन्ति गतिं च त्रिविधां शृणु॥

मूलम्

पिशाचाः प्रेतसंघाश्च कश्मला ये मलीमसाः।
तामसं दानमश्नन्ति गतिं च त्रिविधां शृणु॥

अनुवाद (हिन्दी)

तामस दानका फल पापी और मलिन कर्म करनेवाले प्रेत एवं पिशाच भोगते हैं। अब त्रिविध गतिका वर्णन सुनो॥

विश्वास-प्रस्तुतिः

सात्त्विकानां तु दानानामुत्तमं फलमश्नुते।
मध्यमं राजसानां तु तामसानां तु पश्चिमम्॥

मूलम्

सात्त्विकानां तु दानानामुत्तमं फलमश्नुते।
मध्यमं राजसानां तु तामसानां तु पश्चिमम्॥

अनुवाद (हिन्दी)

सात्त्विक दानोंका फल उत्तम, राजस दानोंका मध्यम और तामस दानोंका फल अधम होता है॥

विश्वास-प्रस्तुतिः

अभिगम्योपनीतानां दानानां फलमुत्तमम् ।
मध्यमं तु समाहूय जघन्यं याचते फलम्॥

मूलम्

अभिगम्योपनीतानां दानानां फलमुत्तमम् ।
मध्यमं तु समाहूय जघन्यं याचते फलम्॥

अनुवाद (हिन्दी)

जो दान सामने जाकर दिया जाता है, उसका फल उत्तम होता है; जो दानपात्रको बुलाकर दिया जाता है, उसका फल मध्यम होता है और जो याचना करनेवालेको दिया जाता है, उसका फल जघन्य होता है॥

विश्वास-प्रस्तुतिः

अयाचितप्रदाता यः स याति गतिमुत्तमाम्।
समाहूय तु यो दद्यान्मध्यमां स गतिं व्रजेत्।
याचितो यश्च वै दद्याज्जघन्यां स गतिं व्रजेत्॥

मूलम्

अयाचितप्रदाता यः स याति गतिमुत्तमाम्।
समाहूय तु यो दद्यान्मध्यमां स गतिं व्रजेत्।
याचितो यश्च वै दद्याज्जघन्यां स गतिं व्रजेत्॥

अनुवाद (हिन्दी)

जो याचना न करनेवालेको देता है, वह उत्तम गतिको प्राप्त करता है; जो बुलाकर देता है, वह मध्यम गतिको जाता है और जो याचना करनेवालेको देता है, वह नीची गति पाता है॥

विश्वास-प्रस्तुतिः

उत्तमा दैविकी ज्ञेया मध्यमा मानुषी गतिः।
गतिर्जघन्या तिर्यक्षु गतिरेषा त्रिधा स्मृता॥

मूलम्

उत्तमा दैविकी ज्ञेया मध्यमा मानुषी गतिः।
गतिर्जघन्या तिर्यक्षु गतिरेषा त्रिधा स्मृता॥

अनुवाद (हिन्दी)

दैवी गतिको उत्तम समझना चाहिये। मानुषी गति मध्यम है और तिर्यग्योनियाँ नीच गति है—यह इनका तीन प्रकार माना गया है॥

विश्वास-प्रस्तुतिः

पात्रभूतेषु विप्रेषु संस्थितेष्वाहिताग्निषु ।
यत्तु निक्षिप्यते दानमक्षय्यं सम्प्रकीर्तितम्॥

मूलम्

पात्रभूतेषु विप्रेषु संस्थितेष्वाहिताग्निषु ।
यत्तु निक्षिप्यते दानमक्षय्यं सम्प्रकीर्तितम्॥

अनुवाद (हिन्दी)

दानके उत्तम पात्र अग्निहोत्री ब्राह्मणको जो दान दिया जाता है, वह अक्षय बतलाया गया है॥

विश्वास-प्रस्तुतिः

श्रोत्रियाणां दरिद्राणां भरणं कुरु पार्थिव।
समृद्धानां द्विजातीनां कुर्यास्तेषां तु रक्षणम्॥

मूलम्

श्रोत्रियाणां दरिद्राणां भरणं कुरु पार्थिव।
समृद्धानां द्विजातीनां कुर्यास्तेषां तु रक्षणम्॥

अनुवाद (हिन्दी)

अतः भूपाल! जो वेदके विद्वान् होते हुए दरिद्र हों, उनके भरण-पोषणका तुम स्वयं प्रबन्ध करो और सम्पत्तिशाली द्विजोंकी रक्षा करते रहो॥

विश्वास-प्रस्तुतिः

दरिद्रान् वित्तहीनांश्च प्रदानैः सुष्ठु पूजय।
आतुरस्यौषधैः कार्यं नीरुजस्य किमौषधैः॥

मूलम्

दरिद्रान् वित्तहीनांश्च प्रदानैः सुष्ठु पूजय।
आतुरस्यौषधैः कार्यं नीरुजस्य किमौषधैः॥

अनुवाद (हिन्दी)

धनहीन दरिद्र ब्राह्मणोंको दान देकर उनकी भलीभाँति पूजा करो; क्योंकि रोगीको ही ओषधिकी आवश्यकता है, नीरोगको ओषधिसे क्या प्रयोजन?॥

विश्वास-प्रस्तुतिः

पापं प्रतिगृहीतारं प्रदातुरुपगच्छति ।
प्रतिग्रहीतुर्यत् पुण्यं प्रदातारमुपैति तत्।
तस्माद् दानं सदा कार्यं परत्र हितमिच्छता॥

मूलम्

पापं प्रतिगृहीतारं प्रदातुरुपगच्छति ।
प्रतिग्रहीतुर्यत् पुण्यं प्रदातारमुपैति तत्।
तस्माद् दानं सदा कार्यं परत्र हितमिच्छता॥

अनुवाद (हिन्दी)

दाताका पाप दानके साथ ही दान लेनेवालेके पास चला जाता है और उसका पुण्य दाताको प्राप्त हो जाता है, अतः परलोकमें अपना हित चाहनेवाले पुरुषको सदा दान करते रहना चाहिये॥

विश्वास-प्रस्तुतिः

वेदविद्यावदातेषु सदा शूद्रान्नवर्जिषु ।
प्रयत्नेन विधातव्यो महादानमयो निधिः॥

मूलम्

वेदविद्यावदातेषु सदा शूद्रान्नवर्जिषु ।
प्रयत्नेन विधातव्यो महादानमयो निधिः॥

अनुवाद (हिन्दी)

जो वेद-विद्या पढ़कर अत्यन्त शुद्ध आचार-विचारसे रहते हों और शूद्रोंका अन्न कभी नहीं ग्रहण करते हों, ऐसे विद्वानोंको प्रयत्नपूर्वक बड़े-बड़े दानोंका भाण्डार बनाना चाहिये॥

विश्वास-प्रस्तुतिः

येषां दाराः प्रतीक्ष्यन्ते सहस्रस्येव लम्भनम्।
भुक्तशेषस्य भक्तस्य तान् निमन्त्रय पाण्डव॥

मूलम्

येषां दाराः प्रतीक्ष्यन्ते सहस्रस्येव लम्भनम्।
भुक्तशेषस्य भक्तस्य तान् निमन्त्रय पाण्डव॥

अनुवाद (हिन्दी)

पाण्डुनन्दन! जिनकी स्त्रियाँ अपने पतिके भोजनसे बचे हुए अन्नको हजारों गुना लाभ समझकर उसके मिलनेकी प्रतीक्षा किया करती हैं, ऐसे ब्राह्मणोंको तुम भोजनके लिये निमन्त्रित करना॥

विश्वास-प्रस्तुतिः

आमन्त्र्य तु निराशानि न कर्तव्यानि भारत।
कुलानि सुदरिद्राणि तेषामाशा हता भवेत्॥

मूलम्

आमन्त्र्य तु निराशानि न कर्तव्यानि भारत।
कुलानि सुदरिद्राणि तेषामाशा हता भवेत्॥

अनुवाद (हिन्दी)

भारत! दरिद्रकुलके ब्राह्मणोंको निमन्त्रित करके उन्हें निराश न लौटाना, अन्यथा उनकी आशा मारी जायगी॥

विश्वास-प्रस्तुतिः

मद्भक्ता ये नरश्रेष्ठ मद्‌गता मत्परायणाः।
मद्याजिनो मन्नियमास्तान् प्रयत्नेन पूजयेत्॥

मूलम्

मद्भक्ता ये नरश्रेष्ठ मद्‌गता मत्परायणाः।
मद्याजिनो मन्नियमास्तान् प्रयत्नेन पूजयेत्॥

अनुवाद (हिन्दी)

नरश्रेष्ठ! जो मेरे भक्त हों, मेरेमें मन लगानेवाले हों, मेरी शरणमें हों, मेरा पूजन करते हों और नियमपूर्वक मुझमें ही लगे रहते हों, उनका यत्नपूर्वक पूजन करना चाहिये॥

विश्वास-प्रस्तुतिः

तेषां तु पावनायाहं नित्यमेव युधिष्ठिर।
उभे संध्येऽधितिष्ठामि ह्यस्कन्नं तद् व्रतं मम॥

मूलम्

तेषां तु पावनायाहं नित्यमेव युधिष्ठिर।
उभे संध्येऽधितिष्ठामि ह्यस्कन्नं तद् व्रतं मम॥

अनुवाद (हिन्दी)

युधिष्ठिर! अपने उन भक्तोंको पवित्र करनेके लिये मैं प्रतिदिन दोनों समय संध्यामें व्याप्त रहता हूँ। मेरा यह नियम कभी खण्डित नहीं होता॥

विश्वास-प्रस्तुतिः

तस्मादष्टाक्षरं मन्त्रं मद्भक्तैर्वीतकल्मषैः ।
संध्याकाले तु जप्तव्यं सततं चात्मशुद्धये॥

मूलम्

तस्मादष्टाक्षरं मन्त्रं मद्भक्तैर्वीतकल्मषैः ।
संध्याकाले तु जप्तव्यं सततं चात्मशुद्धये॥

अनुवाद (हिन्दी)

इसलिये मेरे निष्पाप भक्तजनोंको चाहिये कि वे आत्मशुद्धिके लिये संध्याके समय निरन्तर अष्टाक्षर मन्त्र (ॐ नमो नारायणाय) -का जप करते रहें॥

विश्वास-प्रस्तुतिः

अन्येषामपि विप्राणां किल्बिषं हि विनश्यति।
उभे संध्येऽप्युपासीत तस्माद् विप्रो विशुद्धये॥

मूलम्

अन्येषामपि विप्राणां किल्बिषं हि विनश्यति।
उभे संध्येऽप्युपासीत तस्माद् विप्रो विशुद्धये॥

अनुवाद (हिन्दी)

संध्या और अष्टाक्षर-मन्त्रका जप करनेसे दूसरे ब्राह्मणोंके भी पाप नष्ट हो जाते हैं, अतः चित्तशुद्धिके लिये प्रत्येक ब्राह्मणको दोनों कालकी संध्या करनी चाहिये॥

विश्वास-प्रस्तुतिः

दैवे श्राद्धेऽपि विप्रः स नियोक्तव्योऽजुगुप्सया।
जुगुप्सितस्तु यः श्राद्धं दहत्यग्निरिवेन्धनम्॥

मूलम्

दैवे श्राद्धेऽपि विप्रः स नियोक्तव्योऽजुगुप्सया।
जुगुप्सितस्तु यः श्राद्धं दहत्यग्निरिवेन्धनम्॥

अनुवाद (हिन्दी)

जो ब्राह्मण इस प्रकार संध्योपासन और जप करता हो, उसे देवकार्य और श्राद्धमें नियुक्त करना चाहिये। उसकी निन्दा कदापि नहीं करनी चाहिये; क्योंकि निन्दा करनेपर ब्राह्मण उस श्राद्धको उसी प्रकार नष्ट कर देता है, जैसे आग ईंधनको जला डालती है॥

विश्वास-प्रस्तुतिः

भारतं मानवो धर्मो वेदाः साङ्गाश्चिकित्सितम्।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥

मूलम्

भारतं मानवो धर्मो वेदाः साङ्गाश्चिकित्सितम्।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥

अनुवाद (हिन्दी)

महाभारत, मनुस्मृति, अंगोंसहित चारों वेद और आयुर्वेद शास्त्र—ये चारों सिद्ध उपदेश देनेवाले हैं, अतः तर्कद्वारा इनका खण्डन नहीं करना चाहिये॥

विश्वास-प्रस्तुतिः

न ब्राह्मणान् परीक्षेत दैवे कर्मणि धर्मवित्।
महान् भवेत् परीवादो ब्राह्मणानां परीक्षणे॥

मूलम्

न ब्राह्मणान् परीक्षेत दैवे कर्मणि धर्मवित्।
महान् भवेत् परीवादो ब्राह्मणानां परीक्षणे॥

अनुवाद (हिन्दी)

धर्मको जाननेवाले पुरुषको देवसम्बन्धी कार्यमें ब्राह्मणोंकी परीक्षा नहीं करनी चाहिये, क्योंकि ब्राह्मणोंकी परीक्षा करनेसे यजमानकी बड़ी निन्दा होती है॥

विश्वास-प्रस्तुतिः

श्वत्वं प्राप्नोति निन्दित्वा परीवादात्‌ खरो भवेत्।
कृमिर्भवत्यभिभवात् कीटो भवति मत्सरात्॥

मूलम्

श्वत्वं प्राप्नोति निन्दित्वा परीवादात्‌ खरो भवेत्।
कृमिर्भवत्यभिभवात् कीटो भवति मत्सरात्॥

अनुवाद (हिन्दी)

ब्राह्मणोंकी निन्दा करनेवाला मनुष्य कुत्तेकी योनिमें जन्म लेता है, उसपर दोषारोपण करनेसे गदहा होता है और उसका तिरस्कार करनेसे कृमि होता है तथा उसके साथ द्वेष करनेसे वह कीड़ेकी योनिमें जन्म पाता है॥

विश्वास-प्रस्तुतिः

दुर्वृत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः।
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः॥

मूलम्

दुर्वृत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः।
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः॥

अनुवाद (हिन्दी)

ब्राह्मण चाहे दुराचारी हों या सदाचारी, संस्कारहीन हों या संस्कारोंसे सम्पन्न, उनका अपमान नहीं करना चाहिये; क्योंकि वे भस्मसे ढकी हुई आगके तुल्य हैं॥

विश्वास-प्रस्तुतिः

क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम्।
नावमन्येत मेधावी कृशानपि कदाचन॥

मूलम्

क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम्।
नावमन्येत मेधावी कृशानपि कदाचन॥

अनुवाद (हिन्दी)

बुद्धिमान् पुरुषको चाहिये कि क्षत्रिय, साँप और विद्वान् ब्राह्मण यदि कमजोर हों तो भी कभी उनका अपमान न करे॥

विश्वास-प्रस्तुतिः

एतत् त्रयं हि पुरुषं निर्दहेदवमानितम्।
तस्मादेतत् प्रयत्नेन नावमन्येत बुद्धिमान्॥

मूलम्

एतत् त्रयं हि पुरुषं निर्दहेदवमानितम्।
तस्मादेतत् प्रयत्नेन नावमन्येत बुद्धिमान्॥

अनुवाद (हिन्दी)

क्योंकि वे तीनों अपमानित होनेपर मनुष्यको भस्म कर डालते हैं। इसलिये बुद्धिमान् पुरुषको प्रयत्नपूर्वक उनके अपमानसे बचना चाहिये॥

विश्वास-प्रस्तुतिः

यथा सर्वास्ववस्थासु पावको दैवतं महत्।
तथा सर्वास्ववस्थासु ब्राह्मणो दैवतं महत्॥

मूलम्

यथा सर्वास्ववस्थासु पावको दैवतं महत्।
तथा सर्वास्ववस्थासु ब्राह्मणो दैवतं महत्॥

अनुवाद (हिन्दी)

जिस प्रकार सभी अवस्थाओंमें अग्नि महान् देवता हैं, उसी प्रकार सभी अवस्थाओंमें ब्राह्मण महान् देवता हैं॥

विश्वास-प्रस्तुतिः

व्यङ्गाः काणाश्च कुब्जाश्च वामनाङ्गास्तथैव च।
सर्वे दैवे नियोक्तव्या व्यामिश्रा वेदपारगैः॥

मूलम्

व्यङ्गाः काणाश्च कुब्जाश्च वामनाङ्गास्तथैव च।
सर्वे दैवे नियोक्तव्या व्यामिश्रा वेदपारगैः॥

अनुवाद (हिन्दी)

अंगहीन, काने, कुबड़े और बौने—इन सब ब्राह्मणोंको देवकार्यमें वेदके पारंगत विद्वान् ब्राह्मणोंके साथ नियुक्त करना चाहिये॥

विश्वास-प्रस्तुतिः

मन्युं नोत्पादयेत् तेषां न चारिष्टं समाचरेत्।
मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः॥

मूलम्

मन्युं नोत्पादयेत् तेषां न चारिष्टं समाचरेत्।
मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः॥

अनुवाद (हिन्दी)

उनपर क्रोध न करे, न उनका अनिष्ट ही करे; क्योंकि ब्राह्मण क्रोधरूपी शस्त्रसे ही प्रहार करते हैं, वे शस्त्र हाथमें रखनेवाले नहीं हैं॥

विश्वास-प्रस्तुतिः

मन्युना घ्नन्ति ते शत्रून् वज्रेणेन्द्र इवासुरान्।
ब्राह्मणो हि महद् दैवं जातिमात्रेण जायते॥

मूलम्

मन्युना घ्नन्ति ते शत्रून् वज्रेणेन्द्र इवासुरान्।
ब्राह्मणो हि महद् दैवं जातिमात्रेण जायते॥

अनुवाद (हिन्दी)

जैसे इन्द्र असुरोंका वज्रसे नाश करते हैं, वैसे ही वे ब्राह्मण क्रोधसे शत्रुका नाश करते हैं; क्योंकि ब्राह्मण जातिमात्रसे ही महान् देवभावको प्राप्त हो जाता है॥

विश्वास-प्रस्तुतिः

ब्राह्मणाः सर्वभूतानां धर्मकोशस्य गुप्तये।
किं पुनर्ये च कौन्तेय संध्यां नित्यमुपासते॥

मूलम्

ब्राह्मणाः सर्वभूतानां धर्मकोशस्य गुप्तये।
किं पुनर्ये च कौन्तेय संध्यां नित्यमुपासते॥

अनुवाद (हिन्दी)

कुन्तीनन्दन! सारे प्राणियोंके धर्मरूपी खजानेकी रक्षा करनेके लिये साधारण ब्राह्मण भी समर्थ हैं, फिर जो नित्य संध्योपासन करते हैं, उनके विषयमें तो कहना ही क्या है?॥

विश्वास-प्रस्तुतिः

यस्यास्येन समश्नन्ति हव्यानि त्रिदिवौकसः।
कव्यानि चैव पितरः किं भूतमधिकं ततः॥

मूलम्

यस्यास्येन समश्नन्ति हव्यानि त्रिदिवौकसः।
कव्यानि चैव पितरः किं भूतमधिकं ततः॥

अनुवाद (हिन्दी)

जिसके मुखसे स्वर्गवासी देवगण हविष्यका और पितर कव्यका भक्षण करते हैं, उससे बढ़कर कौन प्राणी हो सकता है?॥

विश्वास-प्रस्तुतिः

उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती।
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते॥

मूलम्

उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती।
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते॥

अनुवाद (हिन्दी)

ब्राह्मण जन्मसे ही धर्मकी सनातन मूर्ति है। वह धर्मके ही लिये उत्पन्न हुआ है और वह ब्रह्मभावको प्राप्त होनेमें समर्थ है॥

विश्वास-प्रस्तुतिः

स्वमेव ब्राह्मणो भुङ्‌क्ते स्वयं वस्ते ददाति च।
आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः।
तस्मात् ते नावमन्तव्या मद्भक्ता हि द्विजाः सदा॥

मूलम्

स्वमेव ब्राह्मणो भुङ्‌क्ते स्वयं वस्ते ददाति च।
आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः।
तस्मात् ते नावमन्तव्या मद्भक्ता हि द्विजाः सदा॥

अनुवाद (हिन्दी)

ब्राह्मण अपना ही खाता, अपना ही पहनता और अपना ही देता है। दूसरे मनुष्य ब्राह्मणकी दयासे ही भोजन पाते हैं। अतः ब्राह्मणोंका कभी अपमान नहीं करना चाहिये; क्योंकि वे सदा ही मुझमें भक्ति रखनेवाले होते हैं॥

विश्वास-प्रस्तुतिः

आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः।
निगूढं निष्कलावस्थं तान् प्रयत्नेन पूजय॥

मूलम्

आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः।
निगूढं निष्कलावस्थं तान् प्रयत्नेन पूजय॥

अनुवाद (हिन्दी)

जो ब्राह्मण बृहदारण्यक-उपनिषद्‌में वर्णित मेरे गूढ़ और निष्कल स्वरूपका ज्ञान रखते हैं, उनका यत्नपूर्वक पूजन करना॥

विश्वास-प्रस्तुतिः

स्वगृहे वा प्रवासे वा दिवारात्रमथापि वा।
श्रद्धया ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव॥

मूलम्

स्वगृहे वा प्रवासे वा दिवारात्रमथापि वा।
श्रद्धया ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव॥

अनुवाद (हिन्दी)

पाण्डुनन्दन! घरपर या विदेशमें, दिनमें या रातमें मेरे भक्त ब्राह्मणोंकी निरन्तर श्रद्धाके साथ पूजा करते रहना चाहिये॥

विश्वास-प्रस्तुतिः

नास्ति विप्रसमं दैवं नास्ति विप्रसमो गुरुः।
नास्ति विप्रात्‌ परो बन्धुर्नास्ति विप्रात्‌ परो निधिः॥

मूलम्

नास्ति विप्रसमं दैवं नास्ति विप्रसमो गुरुः।
नास्ति विप्रात्‌ परो बन्धुर्नास्ति विप्रात्‌ परो निधिः॥

अनुवाद (हिन्दी)

ब्राह्मणके समान कोई देवता नहीं है, ब्राह्मणके समान कोई गुरु नहीं है, ब्राह्मणसे बढ़कर बन्धु नहीं है और ब्राह्मणसे बढ़कर कोई खजाना नहीं है॥

विश्वास-प्रस्तुतिः

नास्ति विप्रात्‌ परं तीर्थं न पुण्यं ब्राह्मणात्‌ परम्।
न पवित्रं परं विप्रान्न द्विजात् पावनं परम्।
नास्ति विप्रात्‌ परो धर्मो नास्ति विप्रात्‌ परा गतिः॥

मूलम्

नास्ति विप्रात्‌ परं तीर्थं न पुण्यं ब्राह्मणात्‌ परम्।
न पवित्रं परं विप्रान्न द्विजात् पावनं परम्।
नास्ति विप्रात्‌ परो धर्मो नास्ति विप्रात्‌ परा गतिः॥

अनुवाद (हिन्दी)

कोई तीर्थ और पुण्य भी ब्राह्मणसे श्रेष्ठ नहीं है। ब्राह्मणसे बढ़कर पवित्र कोई नहीं है और ब्राह्मणसे बढ़कर पवित्र करनेवाला कोई नहीं है। ब्राह्मणसे श्रेष्ठ कोई धर्म नहीं और ब्राह्मणसे उत्तम कोई गति नहीं है॥

विश्वास-प्रस्तुतिः

पापकर्मसमाक्षिप्तं पतन्तं नरके नरम्।
त्रायते पात्रमप्येकं पात्रभूते तु तद् द्विजे॥
बालाहिताग्नयो ये च शान्ताः शूद्रान्नवर्जिताः।
मामर्चयन्ति मद्भक्तास्तेभ्यो दत्तमिहाक्षयम् ॥

मूलम्

पापकर्मसमाक्षिप्तं पतन्तं नरके नरम्।
त्रायते पात्रमप्येकं पात्रभूते तु तद् द्विजे॥
बालाहिताग्नयो ये च शान्ताः शूद्रान्नवर्जिताः।
मामर्चयन्ति मद्भक्तास्तेभ्यो दत्तमिहाक्षयम् ॥

अनुवाद (हिन्दी)

पापकर्मके कारण नरकमें गिरते हुए मनुष्यका एक सुपात्र ब्राह्मण भी उद्धार कर सकता है। सुपात्र ब्राह्मणोंमें भी जो बाल्यकालसे ही अग्निहोत्र करनेवाले, शूद्रका अन्न त्याग देनेवाले तथा शान्त और मेरे भक्त हैं एवं सदा मेरी पूजा किया करते हैं, उनको दिया हुआ दान अक्षय होता है॥

विश्वास-प्रस्तुतिः

प्रदानैः पूजितो विप्रो वन्दितो वापि संस्कृतः।
सम्भावितो वा दृष्टो वा मद्भक्तो दिवमुन्नयेत्॥

मूलम्

प्रदानैः पूजितो विप्रो वन्दितो वापि संस्कृतः।
सम्भावितो वा दृष्टो वा मद्भक्तो दिवमुन्नयेत्॥

अनुवाद (हिन्दी)

मेरे भक्त ब्राह्मणको दान देकर उसकी पूजा करने, सिर झुकाने, सत्कार करने, बातचीत करने अथवा दर्शन करनेसे वह मनुष्यको दिव्यलोकमें पहुँचा देता है॥

विश्वास-प्रस्तुतिः

ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषास्तु माम्।
स तान्‌ दृष्ट्‌वा च स्पृष्ट्‌वा च नरः पापैः प्रमुच्यते॥

मूलम्

ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषास्तु माम्।
स तान्‌ दृष्ट्‌वा च स्पृष्ट्‌वा च नरः पापैः प्रमुच्यते॥

अनुवाद (हिन्दी)

जो लोग मेरे गुण और लीलाओंका पाठ करते हैं तथा मुझे नमस्कार करते और मेरा ध्यान करते हैं, उनका दर्शन और स्पर्श करनेवाला मनुष्य सब पापोंसे मुक्त हो जाता है॥

विश्वास-प्रस्तुतिः

मद्भक्ता मद्‌गतप्राणा मद्‌गीता मत्परायणाः।
बीजयोनिविशुद्धा ये श्रोत्रियाः संयतेन्द्रियाः।
शूद्रान्नविरता नित्यं ते पुनन्तीह दर्शनात्॥

मूलम्

मद्भक्ता मद्‌गतप्राणा मद्‌गीता मत्परायणाः।
बीजयोनिविशुद्धा ये श्रोत्रियाः संयतेन्द्रियाः।
शूद्रान्नविरता नित्यं ते पुनन्तीह दर्शनात्॥

अनुवाद (हिन्दी)

जो मेरे भक्त हैं, जिनके प्राण मुझमें ही लगे हुए हैं, जो मेरी महिमाका गान करते हैं और मेरी शरणमें पड़े रहते हैं, जिनकी उत्पत्ति शुद्ध रज और वीर्यसे हुई है, जो वेदके विद्वान्, जितेन्द्रिय तथा सदा शूद्रान्नसे बचे रहनेवाले हैं, वे दर्शनमात्रसे पवित्र कर देते हैं॥

विश्वास-प्रस्तुतिः

स्वयं नीत्वा विशेषेण दानं तेषां गृहेष्वथ।
निवापयेत्तु यद्भक्त्या तद् दानं कोटिसम्मितम्॥

मूलम्

स्वयं नीत्वा विशेषेण दानं तेषां गृहेष्वथ।
निवापयेत्तु यद्भक्त्या तद् दानं कोटिसम्मितम्॥

अनुवाद (हिन्दी)

ऐसे लोगोंके घरपर स्वयं उपस्थित होकर भक्तिपूर्वक विशेषरूपसे दान देना चाहिये। वह दान साधारण दानकी अपेक्षा करोड़गुना फल देनेवाला माना गया है॥

विश्वास-प्रस्तुतिः

जाग्रतः स्वपतो वापि प्रवासेषु गृहेष्वथ।
हृदये न प्रणश्यामि यस्य विप्रस्य भावतः॥
स पूजितो वा दृष्टो वा स्पृष्टो वापि द्विजोत्तमः।
सम्भाषितो वा राजेन्द्र पुनात्येवं नरं सदा॥

मूलम्

जाग्रतः स्वपतो वापि प्रवासेषु गृहेष्वथ।
हृदये न प्रणश्यामि यस्य विप्रस्य भावतः॥
स पूजितो वा दृष्टो वा स्पृष्टो वापि द्विजोत्तमः।
सम्भाषितो वा राजेन्द्र पुनात्येवं नरं सदा॥

अनुवाद (हिन्दी)

राजेन्द्र! जागते अथवा सोते समय, परदेशमें अथवा घर रहते समय जिस ब्राह्मणके हृदयसे उसकी भक्ति-भावनाके कारण मैं कभी दूर नहीं होता, ऐसा वह श्रेष्ठ ब्राह्मण पूजन, दर्शन, स्पर्श अथवा सम्भाषण करने मात्रसे मनुष्यको सदा पवित्र कर देता है॥

विश्वास-प्रस्तुतिः

एवं सर्वास्ववस्थासु सर्वदानानि पाण्डव।
मद्भक्तेभ्यः प्रदत्तानि स्वर्गमार्गप्रदानि वै॥

मूलम्

एवं सर्वास्ववस्थासु सर्वदानानि पाण्डव।
मद्भक्तेभ्यः प्रदत्तानि स्वर्गमार्गप्रदानि वै॥

अनुवाद (हिन्दी)

पाण्डव! इस प्रकार सब अवस्थाओंमें मेरे भक्तोंको दिये हुए सब प्रकारके दान स्वर्गमार्ग प्रदान करनेवाले होते हैं॥

सूचना (हिन्दी)

(दाक्षिणात्य प्रतिमें अध्याय समाप्त)