भागसूचना
पञ्चषष्ट्यधिकशततमोऽध्यायः
सूचना (हिन्दी)
नित्यस्मरणीय देवता, नदी, पर्वत, ऋषि और राजाओंके नाम-कीर्तनका माहात्म्य
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
शरतल्पगतं भीष्मं पाण्डवोऽथ कुरूद्वहः।
युधिष्ठिरो हितं प्रेप्सुरपृच्छत् कल्मषापहम् ॥ १ ॥
मूलम्
शरतल्पगतं भीष्मं पाण्डवोऽथ कुरूद्वहः।
युधिष्ठिरो हितं प्रेप्सुरपृच्छत् कल्मषापहम् ॥ १ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! तदनन्तर कुरुकुलतिलक पाण्डुनन्दन युधिष्ठिरने अपने हितकी इच्छा रखकर बाणशय्यापर सोये हुए भीष्मजीसे यह पापनाशक विषय पूछा॥१॥
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
किं श्रेयः पुरुषस्येह किं कुर्वन् सुखमेधते।
विपाप्मा स भवेत् केन किं वा कल्मषनाशनम् ॥ २ ॥
मूलम्
किं श्रेयः पुरुषस्येह किं कुर्वन् सुखमेधते।
विपाप्मा स भवेत् केन किं वा कल्मषनाशनम् ॥ २ ॥
अनुवाद (हिन्दी)
युधिष्ठिर बोले— पितामह! यहाँ मनुष्यके कल्याणका उपाय क्या है? क्या करनेसे वह सुखी होता है? किस कर्मके अनुष्ठानसे उसका पाप दूर होता है? अथवा कौन-सा कर्म पाप नष्ट करनेवाला है?॥२॥
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
तस्मै शुश्रूषमाणाय भूयः शान्तनवस्तदा।
दैवं वंशं यथान्यायमाचष्ट पुरुषर्षभ ॥ ३ ॥
मूलम्
तस्मै शुश्रूषमाणाय भूयः शान्तनवस्तदा।
दैवं वंशं यथान्यायमाचष्ट पुरुषर्षभ ॥ ३ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— पुरुषप्रवर जनमेजय! उस समय शान्तनुनन्दन भीष्मने सुननेकी इच्छावाले युधिष्ठिरसे पुनः न्यायपूर्वक देववंशका वर्णन आरम्भ किया॥३॥
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
अयं दैवतवंशो वै ऋषिवंशसमन्वितः।
त्रिसंध्यं पठितः पुत्र कल्मषापहरः परः ॥ ४ ॥
यदह्ना कुरुते पापमिन्द्रियैः पुरुषश्चरन्।
बुद्धिपूर्वमबुद्धिर्वा रात्रौ यच्चापि संध्ययोः ॥ ५ ॥
मुच्यते सर्वपापेभ्यः कीर्तयन् वै शुचिः सदा।
नान्धो न बधिरः काले कुरुते स्वस्तिमान् सदा ॥ ६ ॥

भीष्मजीने कहा— बेटा! यदि तीनों संध्याओंके समय देववंश और ऋषिवंशका पाठ किया जाय तो मनुष्य दिन-रात, सबेरे-शाम अपनी इन्द्रियोंके द्वारा जानकर या अनजानमें जो-जो पाप करता है, उन सबसे छुटकारा पा जाता है तथा वह सदा पवित्र रहता है। देवर्षिवंशका कीर्तन करनेवाला पुरुष कभी अन्धा और बहरा न होकर सदा कल्याणका भागी होता है॥४—६॥
विश्वास-प्रस्तुतिः
तिर्यग्योनिं न गच्छेच्च नरकं संकराणि च।
न च दुःखभयं तस्य मरणे स न मुह्यति॥७॥
मूलम्
तिर्यग्योनिं न गच्छेच्च नरकं संकराणि च।
न च दुःखभयं तस्य मरणे स न मुह्यति॥७॥
अनुवाद (हिन्दी)
वह तिर्यग्योनि और नरकमें नहीं पड़ता, संकर-योनिमें जन्म नहीं लेता, कभी दुःखसे भयभीत नहीं होता और मृत्युके समय व्याकुल नहीं होता॥७॥
विश्वास-प्रस्तुतिः
देवासुरगुरुर्देवः सर्वभूतनमस्कृतः ।
अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ॥ ८ ॥
पितामहो जगन्नाथः सावित्री ब्रह्मणः सती।
वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ॥ ९ ॥
उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा ।
विशाखो हुतभुग् वायुश्चन्द्रसूर्यौ प्रभाकरौ ॥ १० ॥
शक्रः शचीपतिर्देवो यमो धूमोर्णया सह।
वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ॥ ११ ॥
सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः।
संकल्पः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणः ॥ १२ ॥
वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा ।
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥ १३ ॥
तुम्बुरुश्चित्रसेनश्च देवदूतश्च विश्रुतः ।
देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ॥ १४ ॥
उर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुषा।
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ॥ १५ ॥
आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च।
धर्मः श्रुतं तपो दीक्षा व्यवसायः पितामहः ॥ १६ ॥
शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा।
शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः ॥ १७ ॥
नक्षत्राण्यृतवश्चैव मासाः पक्षाः सवत्सराः।
वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ॥ १८ ॥
शतद्रुश्च विपाशा च चन्द्रभागा सरस्वती।
सिंधुश्च देविका चैव प्रभासं पुष्कराणि च ॥ १९ ॥
गङ्गा महानदी वेणा कावेरी नर्मदा तथा।
कुलम्पुना विशल्या च करतोयाम्बुवाहिनी ॥ २० ॥
सरयूर्गण्डकी चैव लोहितश्च महानदः।
ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥ २१ ॥
गोदावरी च वेण्या च कृष्णवेणा तथाद्रिजा।
दृषद्वती च कावेरी चक्षुर्मन्दाकिनी तथा ॥ २२ ॥
प्रयागं च प्रभासं च पुण्यं नैमिषमेव च।
तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥ २३ ॥
पुण्यतीर्थं सुसलिलं कुरुक्षेत्रं प्रकीर्तितम्।
सिंधूत्तमं तपोदानं जम्बूमार्गमथापि च ॥ २४ ॥
हिरण्वती वितस्ता च तथा प्लक्षवती नदी।
वेदस्मृतिर्वेदवती मालवाथाश्ववत्यपि ॥ २५ ॥
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च।
ऋषिकुल्यास्तथा मेध्या नद्यः सिंधुवहास्तथा ॥ २६ ॥
चर्मण्वती नदी पुण्या कौशिकी यमुना तथा।
नदी भीमरथी चैव बाहुदा च महानदी ॥ २७ ॥
माहेन्द्रवाणी त्रिविदा नीलिका च सरस्वती।
नन्दा चापरनन्दा च तथा तीर्थमहाह्रदः ॥ २८ ॥
गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम्।
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् ॥ २९ ॥
पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम्।
हिमवान् पर्वतश्चैव दिव्यौषधिसमन्वितः ॥ ३० ॥
विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः ।
मेरुर्महेन्द्रो मलयः श्वेतश्च रजतावृतः ॥ ३१ ॥
शृङ्गवान् मन्दरो नीलो निषधो दर्दुरस्तथा।
चित्रकूटोऽजनाभश्च पर्वतो गन्धमादनः ॥ ३२ ॥
पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः।
दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥ ३३ ॥
विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा।
पान्तु नः सततं देवाः कीर्तिताऽकीर्तिता मया ॥ ३४ ॥

(देवता और ऋषि आदिके वंशकी नामावली इस प्रकार है—) सर्वभूतनमस्कृत, देवासुरगुरु, अचिन्त्य, अनिर्देश्य सबके प्राणस्वरूप और अयोनिज (स्वयम्भू) जगदीश्वर पितामह भगवान् ब्रह्माजी, उनकी पत्नी सती सावित्री देवी, वेदोंके उत्पत्तिस्थान जगत्कर्ता भगवान् नारायण, तीन नेत्रोंवाले उमापति महादेव, देवसेनापति स्कन्द, विशाख, अग्नि, वायु, प्रकाश फैलानेवाले चन्द्रमा और सूर्य, शचीपति इन्द्र, यमराज, उनकी पत्नी धूमोर्णा, अपनी पत्नी गौरीके साथ वरुण, ऋद्धिसहित कुबेर, सौम्य स्वभाववाली देवी सुरभी गौ, महर्षि विश्रवा, संकल्प, सागर, गंगा आदि नदियाँ, मरुद्गण, तपःसिद्ध वालखिल्य ऋषि, श्रीकृष्णद्वैपायन व्यास, नारद, पर्वत, विश्वावसु, हाहा, हूहू, तुम्बुरु, चित्रसेन, विख्यात देवदूत, महासौभाग्यशालिनी देवकन्याएँ, दिव्य अप्सराओंके समुदाय, उर्वशी, मेनका, रम्भा, मिश्रकेशी, अलम्बुषा, विश्वाची, घृताची, पंचचूडा और तिलोत्तमा आदि दिव्य अप्सराएँ, बारह आदित्य, आठ वसु, ग्यारह रुद्र, अश्विनीकुमार, पितर, धर्म, शास्त्रज्ञान, तपस्या, दीक्षा, व्यवसाय, पितामह, रात, दिन, मरीचिनन्दन कश्यप, शुक्र, बृहस्पति, मंगल, बुध, राहु, शनैश्चर, नक्षत्र, ऋतु, मास, पक्ष, संवत्सर, विनताके पुत्र गरुड़, समुद्र, कद्रूके पुत्र सर्पगण, शतद्रु, विपाशा, चन्द्रभागा, सरस्वती, सिन्धु, देविका, प्रभास, पुष्कर, गंगा, महानदी, वेणा, कावेरी, नर्मदा, कुलम्पुना, विशल्या, करतोया, अम्बुवाहिनी, सरयू, गण्डकी, लाल जलवाला महानद शोणभद्र, ताम्रा, अरुणा, वेत्रवती, पर्णाशा, गौतमी, गोदावरी, वेण्या, कृष्णवेणा, अद्रिजा, दृषद्वती, कावेरी, चक्षु, मन्दाकिनी, प्रयाग, प्रभास, पुण्यमय नैमिषारण्य, जहाँ विश्वेश्वरका स्थान है वह विमल सरोवर, स्वच्छ सलिलसे युक्त पुण्यतीर्थ कुरुक्षेत्र, उत्तम समुद्र, तपस्या, दान, जम्बूमार्ग, हिरण्वती, वितस्ता, प्लक्षवती नदी, वेदस्मृति वेदवती, मालवा, अश्ववती, पवित्र भूभाग, गंगाद्वार (हरिद्वार), ऋषिकुल्या, समुद्रगामिनी पवित्र नदियाँ, पुण्यसलिला चर्मण्वती नदी, कौशिकी, यमुना, भीमरथी, महानदी बाहुदा, माहेन्द्रवाणी, त्रिदिवा, नीलिका, सरस्वती, नन्दा, अपरनन्दा, तीर्थभूत महान् ह्रद, गया, फल्गुतीर्थ, देवताओंसे युक्त धर्मारण्य, पवित्र देवनदी, तीनों लोकोंमें विख्यात, पवित्र एवं सर्वपापनाशक कल्याणमय ब्रह्मनिर्मित सरोवर (पुष्करतीर्थ), दिव्य ओषधियोंसे युक्त हिमवान् पर्वत, नाना प्रकारके धातुओं, तीर्थों, औषधोंसे सुशोभित विन्ध्यगिरि, मेरु, महेन्द्र, मलय, चाँदीकी खानोंसे युक्त श्वेतगिरि, शृंगवान्, मन्दर, नील, निषध, दर्दुर, चित्रकूट, अजनाभ, गन्धमादन पर्वत, पवित्र सोमगिरि तथा अन्यान्य पर्वत, दिशा, विदिशा, भूमि, सभी वृक्ष, विश्वेदेव, आकाश, नक्षत्र और ग्रहगण—ये सदा हमारी रक्षा करें तथा जिनके नाम लिये गये हैं और जिनके नहीं लिये गये हैं, वे सम्पूर्ण देवता हमलोगोंकी रक्षा करते रहें॥८—३४॥
विश्वास-प्रस्तुतिः
कीर्तयानो नरो ह्येतान् मुच्यते सर्वकिल्बिषैः।
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् ॥ ३५ ॥
सर्वसंकरपापेभ्यो देवतास्तवनन्दकः ।
मूलम्
कीर्तयानो नरो ह्येतान् मुच्यते सर्वकिल्बिषैः।
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् ॥ ३५ ॥
सर्वसंकरपापेभ्यो देवतास्तवनन्दकः ।
अनुवाद (हिन्दी)
जो मनुष्य उपर्युक्त देवता आदिका कीर्तन, स्तवन और अभिनन्दन करता है, वह सब प्रकारके पाप और भयसे मुक्त हो जाता है। देवताओंकी स्तुति और अभिनन्दन करनेवाला पुरुष सब प्रकारके संकर पापोंसे छूट जाता है॥३५॥
विश्वास-प्रस्तुतिः
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोऽधिकान् ॥ ३६ ॥
कीर्तितान् कीर्तयिष्यामि सर्वपापप्रमोचनान् ।
मूलम्
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोऽधिकान् ॥ ३६ ॥
कीर्तितान् कीर्तयिष्यामि सर्वपापप्रमोचनान् ।
अनुवाद (हिन्दी)
देवताओंके अनन्तर समस्त पापोंसे मुक्त करनेवाले तपस्यामें बढ़े-चढ़े तपःसिद्ध ब्रह्मर्षियोंके प्रख्यात नाम बतलाता हूँ॥३६॥
विश्वास-प्रस्तुतिः
यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा ॥ ३७ ॥
भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः।
बर्ही च गुणसम्पन्नः प्राचीं दिशमुपाश्रिताः ॥ ३८ ॥
मूलम्
यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा ॥ ३७ ॥
भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः।
बर्ही च गुणसम्पन्नः प्राचीं दिशमुपाश्रिताः ॥ ३८ ॥
अनुवाद (हिन्दी)
यवक्रीत, रैभ्य, कक्षीवान्, औशिज, भृगु, अंगिरा, कण्व, प्रभावशाली मेधातिथि और सर्वगुणसम्पन्न बर्हि—ये पूर्व दिशामें रहते हैं॥३७-३८॥
विश्वास-प्रस्तुतिः
भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा।
मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ॥ ३९ ॥
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् ।
दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ॥ ४० ॥
पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान्।
उषङ्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ॥ ४१ ॥
ऋषिर्दीर्घतमाश्चैव गौतमः काश्यपस्तथा ।
एकतश्च द्वितश्चैव त्रितश्चैव महानृषिः ॥ ४२ ॥
अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः।

उल्मुचु, प्रमुचु, महाभाग मुमुचु, शक्तिशाली स्वस्त्यात्रेय, मित्रवरुणके पुत्र महाप्रतापी अगस्त्य और परम प्रसिद्ध ऋषिश्रेष्ठ दृढ़ायु तथा ऊर्ध्वबाहु—ये महाभाग दक्षिण दिशामें निवास करते हैं। अब जो पश्चिम दिशामें रहकर सदा अभ्युदयशील होते हैं, उन ऋषियोंके नाम सुनो—अपने सहोदर भाइयोंसहित उषंगु, शक्तिशाली परिव्याध, दीर्घतमा, ऋषि गौतम, काश्यप, एकत, द्वित, महर्षि त्रित, अत्रिके धर्मात्मा पुत्र दुर्वासा और प्रभावशाली सारस्वत॥३९—४२॥
विश्वास-प्रस्तुतिः
उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् ॥ ४३ ॥
अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान्।
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च ॥ ४४ ॥
ऋचीकपुत्रो रामश्च ऋषिरौद्दालकिस्तथा ।
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा ॥ ४५ ॥
देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च।
लोमशो नाचिकेतश्च लोमहर्षण एव च ॥ ४६ ॥
ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा ।

अब जो उत्तर दिशाका आश्रय लेकर अपनी उन्नति करते हैं, उनके नाम सुनो—अत्रि, वसिष्ठ, शक्ति, पराशरनन्दन शक्तिशाली व्यास, विश्वामित्र, भरद्वाज, ऋचीकपुत्र जमदग्नि, परशुराम, उद्दालकपुत्र श्वेतकेतु, कोहल, विपुल, देवल, देवशर्मा, धौम्य, हस्तिकाश्यप, लोमश, नाचिकेत, लोमहर्षण, उग्रश्रवा ऋषि और भृगुनन्दन च्यवन॥४३-४६॥
विश्वास-प्रस्तुतिः
एष वै समवायश्च ऋषिदेवसमन्वितः ॥ ४७ ॥
आद्यः प्रकीर्तितो राजन् सर्वपापप्रमोचनः।
मूलम्
एष वै समवायश्च ऋषिदेवसमन्वितः ॥ ४७ ॥
आद्यः प्रकीर्तितो राजन् सर्वपापप्रमोचनः।
अनुवाद (हिन्दी)
राजन्! यह आदिमें होनेवाले देवता और ऋषियोंका मुख्य समुदाय अपने नामका कीर्तन करनेपर मनुष्यको सब पापोंसे मुक्त करता है॥४७॥
विश्वास-प्रस्तुतिः
नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् ॥ ४८ ॥
धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान्।
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा ॥ ४९ ॥
दुष्यन्तो भरतश्चैव चक्रवर्ती महायशाः।
पवनो जनकश्चैव तथा दृष्टरथो नृपः ॥ ५० ॥
रघुर्नरवरश्चैव तथा दशरथो नृपः।
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः ॥ ५१ ॥
हरिश्चन्द्रो मरुत्तश्च तथा दृढरथो नृपः।
महोदर्यो ह्यलर्कश्च ऐलश्चैव नराधिपः ॥ ५२ ॥
करन्धमो नरश्रेष्ठः कध्मोरश्च नराधिपः।
दक्षोऽम्बरीषः कुकुरो रैवतश्च महायशाः ॥ ५३ ॥
कुरुः संवरणश्चैव मान्धाता सत्यविक्रमः।
मुचुकुन्दश्च राजर्षिर्जह्नुर्जाह्नविसेवितः ॥ ५४ ॥
आदिराजः पृथुर्वैन्यो मित्रभानुः प्रियङ्करः।
त्रसद्दस्युस्तथा राजा श्वेतो राजर्षिसत्तमः ॥ ५५ ॥
महाभिषश्च विख्यातो निमिराजा तथाष्टकः।
आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः ॥ ५६ ॥
प्रतर्दनो दिवोदासः सुदासः कोसलेश्वरः।
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः ॥ ५७ ॥
हविध्रश्च पृषध्रश्च प्रतीपः शान्तनुस्तथा।
अजः प्राचीनबर्हिश्च तथेक्ष्वाकुर्महायशाः ॥ ५८ ॥
अनरण्यो नरपतिर्जानुजंघस्तथैव च ।
कक्षसेनश्च राजर्षिर्ये चान्ये चानुकीर्तिताः ॥ ५९ ॥
कल्यमुत्थाय यो नित्यं संध्ये द्वेऽस्तमयोदये।
पठेच्छुचिरनावृत्तः स धर्मफलभाग् भवेत् ॥ ६० ॥

अब राजर्षियोंके नाम सुनो—राजा नृग, ययाति, नहुष, यदु, शक्तिशाली पूरु, धुन्धुमार, दिलीप, प्रतापी सगर, कृशाश्व, यौवनाश्व, चित्राश्व, सत्यवान्, दुष्यन्त, महायशस्वी चक्रवर्ती राजा भरत, पवन, जनक, राजा दृष्टरथ, नरश्रेष्ठ रघु, राजा दशरथ, राक्षसहन्ता वीरवर श्रीराम, शशबिन्दु, भगीरथ, हरिश्चन्द्र, मरुत्त, राजा दृढरथ, महोदर्य, अलर्क, नराधिप ऐल (पुरूरवा), नरश्रेष्ठ करन्धम, राजा कध्मोर, दक्ष, अम्बरीष, कुकुर, महायशस्वी रैवत, कुरु, संवरण, सत्यपराक्रमी मान्धाता, राजर्षि मुचुकुन्द, गंगाजीसे सेवित राजा जह्नु आदिराजा वेननन्दन पृथु, सबका प्रिय करनेवाले मित्रभानु, राजा त्रसद्दस्यु, राजर्षिश्रेष्ठ श्वेत, प्रसिद्ध राजा महाभिष, राजा निमि, अष्टक, आयु, राजर्षि क्षुप, राजा कक्षेयु, प्रतर्दन, दिवोदास, कोसलनरेश सुदास, पुरूरवा, राजर्षि नल, प्रजापति मनु, हविध्र, पृषध्र, प्रतीप, शान्तनु, अज, प्राचीनबर्हि, महायशस्वी इक्ष्वाकु, राजा अनरण्य, जानुजंघ, राजर्षि कक्षसेन तथा इनके अतिरिक्त पुराणोंमें जिनका अनेक बार वर्णन हुआ है, वे सब पुण्यात्मा राजा स्मरण करने योग्य हैं। जो मनुष्य प्रतिदिन सबेरे उठकर स्नान आदिसे शुद्ध हो प्रातःकाल और सांयकाल इन नामोंका पाठ करता है, वह धर्मके फलका भागी होता है॥४८—६०॥
विश्वास-प्रस्तुतिः
देवा देवर्षयश्चैव स्तुता राजर्षयस्तथा।
पुष्टिमायुर्यशः स्वर्गं विधास्यन्ति ममेश्वराः ॥ ६१ ॥
मूलम्
देवा देवर्षयश्चैव स्तुता राजर्षयस्तथा।
पुष्टिमायुर्यशः स्वर्गं विधास्यन्ति ममेश्वराः ॥ ६१ ॥
अनुवाद (हिन्दी)
देवता, देवर्षि और राजर्षि—इनकी स्तुति की जानेपर ये मुझे पुष्टि, आयु, यश और स्वर्ग प्रदान करेंगे; क्योंकि ये ईश्वर (सर्वसमर्थ स्वामी) हैं॥६१॥
विश्वास-प्रस्तुतिः
मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः।
ध्रुवो जयो मे नित्यः स्यात् परत्र च शुभा गतिः॥६२॥
मूलम्
मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः।
ध्रुवो जयो मे नित्यः स्यात् परत्र च शुभा गतिः॥६२॥
अनुवाद (हिन्दी)
इनके स्मरणसे मुझपर किसी विघ्नका आक्रमण न हो, मुझसे पाप न बने। मेरे ऊपर चोरों और बटमारोंका जोर न चले। मुझे इस लोकमें सदा चिरस्थायी जय प्राप्त हो और परलोकमें भी शुभ गति मिले॥६२॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते अनुशासनपर्वणि दानधर्मपर्वणि वंशानुकीर्तनं नाम पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ १६५ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत अनुशासनपर्वके अन्तर्गत दानधर्मपर्वमें देवता आदिके वंशका वर्णन नामक एक सौ पैंसठवाँ अध्याय पूरा हुआ॥१६५॥